मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 636, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. ४४ पान १०७ निशाकरस्थलम् । रक्ताष्टगंधैश्च सुचित्रितं प्रभोर्बिंदुप्रयुक्तं त्वथ तंडुलैर्युतम् ॥२०॥ केशैः समाच्छादितमस्तकं तथा सं चिंतये विघ्नविनाशकारिणः । ब्रह्मांडमूले प्रभुमस्तकाश्रिते कुंभस्थले ब्रह्मवरस्य सौख्यदे ॥२१॥ गणेशदेहं परिचिंतयाम्यहं सुभूषणैर्भूषितकं विचित्रकैः । अनर्घमूल्यैश्च सुवस्त्रकैस्तथा सुशोभितं ब्रह्मवरस्य सर्वदा ॥२२॥ विचित्रगंधैः परिलेपितं तथा सुचित्रितं भक्तवरैः सुयोगिभिः । गणाधिपं साधु हृदि स्थितं सदा विचिंतयेऽहं निजभक्तिलालसम् ॥२३॥ पाशांकुशाद्यैश्च सुसंस्तुतं परं ढुंढिं प्रमोदादिभिरेव नित्यदा । गणेश्वरं देववरैस्तथोंदुरराजेन पूज्यं च सुचिंतये हृदि ॥२४॥ वेदैः पुराणैः स्मृतिभिश्च शास्त्रकैः स्तोत्रैः स्तुतं देहधरैर्विचिंतये । ब्रह्मप्रियाद्यैश्च गणैरसंख्यकैर्भक्त्या तथा मुद्गलमुख्यकैः परम् ॥२५॥ सर्वांगसंशोभनरूपयुक्तया सिद्ध्या गणेशं परिचिंतये हृदि । संसेवितं वामगया सुशक्तिभिः सिद्ध्यादिभिः संवृतया स्वमायया ॥२६॥ बुद्ध्या कलाभिश्च सुसेवितं तथा विद्याभिराराद्गणनायकं हृदि । सर्वांगसंशोभनया स्वमायया संचिंतये दक्षिणभागभूषया ॥२७॥ लक्षेण लाभेन च विघ्ननायकं संसेवितं शोभनशोभनेन तु । संचिंतये पुत्रवरेण सर्वदा ब्रह्मेश्वरं भक्तजनैः स्वधामगैः ॥२८॥ अनंतमंत्रैः कथितं स्वरूपकं विचिंतये वक्तुमशक्यभावतः । हृदि स्थितं ध्यानसुलोलुपं परं गणेश्वरं ब्रह्ममयागधारिणम् ॥२९॥ मुद्गल उवाच । एवमैलः स राजर्षिर्गणेशभजने रतः । ध्यानं कृत्वा सदाऽतिष्ठद्गणेशस्य निवृत्तितः ॥३०॥ प्रातः काले समुत्थाय सस्त्रीकः स महीपतिः । धर्मयुक्तं चकाराऽपि नित्यं कर्म निरंतरम् ॥३१॥ ततो गणेश्वरं भक्त्याऽपूजयद्भक्तिसंयुतः । यथा गार्ग्येण भो दक्ष शिक्षितः स तथाऽकरोत् ॥३२॥ शमीमंदारदूर्वाश्चापूजयद्भक्तिसंयुतः । प्रार्थ्य पत्रांकुरायँ स पुष्पं चैवाऽऽचिनोन्नृपः ॥३३॥ दक्ष उवाच । शमीमंदारदूर्वाणां पूजनं वद मुद्गल । सिद्धेर्बुद्धेश्च विप्रेंद्र सुतयोर्लक्षलाभयोः ॥३४॥ शमीमंदारदूर्वाणां प्रार्थना कीदृशी भवेत् । तां कृत्वा पुष्पपत्रादींश्चिनोम्यहं त्वदाज्ञया ॥३५॥ केन मंत्रेण योगींद्र शमीमंदारकांस्तदा । नरोत्तमो गणेशाय परेशाय समर्पयेत् ॥३६॥ मुद्गल उवाच । शृणु दक्ष महाप्राज्ञ गाणपत्यपरायण । संतुष्टोऽहं विशेषेण प्रश्नेन च वदामि ते ॥३७॥ गणेशस्यैव मंत्रेण पूजनीया इमे मताः । वस्तुभिर्गाणपत्यैश्च अभवंस्तोषसंयुताः ॥३८॥ स्त्रीपुंभावात्मकं दक्ष नास्ति तत्र विचारतः । गकारः सिद्धिरूपश्च णकारो बुद्धिरुच्यते ॥३९॥ तयोः स्वामी गणेशः स त्रेधारूपधरो बभौ । गणास्तस्य तथा पूज्या गाणपत्यैश्च मंत्रकैः ॥४०॥ गकाराद्विंबभावाख्यो लक्षः पुत्रः प्रकथ्यते । तथा गकाररूपाद्वै लाभस्तौ तन्मयौ