मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 637, कुल 1023 में से
संदर्भ में पढ़ेंमतौ ॥४१॥ शमीमंदारकौ दक्ष वरदानाद्विशेषतः । गणेशाकाररूपौ तौ भावयेन्नात्र संशयः ॥४२॥ दूर्वां देवीं गणेशस्य मंत्रेणापूजयेन्नरः । अथवा वैदिकैर्मन्त्रैः कांडादिभिः प्रपूजयेत् ॥४३॥ नाममंत्रेण शूद्रस्तान् पूजयेत् सर्वभावतः । एतद्देव रहस्यं ते कथितं सर्वमंजसा ॥४४॥ प्रार्थनां ते प्रवक्ष्यामि शृणु दक्ष महामते । स्नानयुक्तो वनं गत्वाऽथवा पुरे स्वमंदिरे ॥४५॥ यत्र दूर्वा च मंदारः शमी तिष्ठति तत्र सः । गत्वा प्रणम्य तानादौ प्रार्थयेद्भक्तिसंयुतः ॥४६॥ दूर्वेऽन्नब्रह्मरूपे चामृतरूपे शतांकुरे । गणेशप्रीणनार्थाय चिनोमि त्वां क्षमस्व भोः ॥४७॥ शमी सर्वप्रदे देवि गणेशरूपधारिणि । चिनोमि त्वां गणेशस्य प्रीणनाय नमाम्यहम् ॥४८॥ मंदारवाञ्छितार्थस्य दातर्विघ्नेशरूपक । क्षमस्व प्रीणनार्थाय गणेशस्य चिनोम्य- ऽहम् ॥४९॥ एवं प्रार्थ्य प्रजानाथ शमीमंदारकौ पुरा । दूर्वापत्राणि पुष्पाणि विस्रं ह्यानाय्य पूजयेत् ॥५०॥ सहस्रनाममंत्रैश्च अष्टोत्तरशतैर्नरः । एकविंशतिकैश्चैव नामभिस्ताः समर्पयेत् ॥५१॥ अथवा मूलमंत्रेण नाममंत्रेण वा तथा । गाणेशैर्विविधै- र्मंत्रैर्दूर्वादीनि समर्पयेत् ॥५२॥ एतत्ते कथितं सर्वं रहस्यं पावनात्मकम् । गाणपत्यप्रदं पूर्णं किं भूयः श्रोतुमिच्छसि ॥५३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते ध्यानंदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् । मंत्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥१॥ मुद्गल उवाच । कीलकेन विहीनाश्च मंत्रा नैव सुखप्रदाः । आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥२॥ तदा वीर्ययुता मंत्रा नानासिद्धिप्रदायकाः । भवंति नात्र संदेहः कथयामि यथाश्रुतम् ॥३॥ समादिष्टं चांगिरसा मह्यं गुह्यतमं परम् । सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥४॥ अस्य श्रीगणेशकीलकस्य । शिव ऋषिः । अनुष्टुप् छंदः । श्रीगणपतिर्देवता । ॐ गं योगाय स्वाहा । ॐ गं बीजम् । विद्याऽविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः । छंदऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् । एकाक्षरस्यैव दक्ष षडंगानाचरेत् सुधीः ॥५॥ ततो ध्यायेद् गणेशानं ज्योतीरूपधरं परम् । मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥६॥ शुंडादंडमुखं पूर्णं द्रष्टुं नैव प्रशक्यते । विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥७॥