भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 643, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 643

खं. ६ अ. १ पान २

ब्रह्मविष्णुशिवाद्याश्च त्वदनुष्ठानतः सति । ईश्वराः सर्वकार्येषु समर्थाः प्रबभूविरे ॥२६॥ कर्मणां फलदात्री त्वं तपसां ज्ञान- धारिणाम् । त्वत्तः परतरं नास्ति वेदशास्त्रप्रमाणतः ॥२७॥ त्वं नित्यं नियमे संस्था गणेशं मूर्तिगं परम् । ध्यानयुक्ता पूजयसि तं ध्यायसि किमर्थतः ॥२८॥ सदा नामावलिं तस्य वदसि जगदंबिके । अमार्थं सर्वजंतूनां गुह्यगोपनकारणात् ॥२९॥ सर्व- सत्ताधरी देवी त्वमेवात्र न संशयः । अस्मान् मोहयुतान् शक्ते किमर्थं कुरुषे वद ॥३०॥ लज्जां त्यक्त्वा त्वदीयाश्चाधुना पृच्छामहे वयम् । नित्यं दृष्ट्वा प्रसक्षुब्धा भवामः परमाद्भुते ॥३१॥ दास्यस्त्वदीयपादस्य नान्यत्त्वत्तः परं कदा । वेदमार्गेण सर्वेशि जानीमो वद सांप्रतम् ॥३२॥ मुद्गल उवाच । तिसृभिः शक्तिमुख्याभिः पृष्टा सा शक्तिरुत्तमा । स्नेहेन ता जगादाथ रहस्यं शृणु मुख्यकम् ॥३३॥ आदिशक्तिरुवाच । शृणुध्वं शक्तयः सर्वा रहस्यं मे हृदि स्थितम् । सर्वसिद्धिप्रदं पूर्णं त्रययाद्याः परमाद्भुतम् ॥३४॥ यथावदथ कल्याण्यस्तथाऽहं सर्वगा यतः । गणेशस्यांशरूपत्वादङ्गभावसमाश्रिता ॥३५॥ पुरा वयं समुत्पन्ना- श्चत्वारो देवमुख्यकाः । शंभुर्विष्णुरविर्देवो गणेशानादहं किल ॥३६॥ नामरूपात्मकं सर्वं मत्तो ब्रह्म भवात्मकम् । तत्राऽहं ब्रह्मभूतत्वात् संस्थिता नात्र संशयः ॥३७॥ नामरूपात्मकस्यापि नाशोत्पत्ती प्रकीर्तिते । तत्र स्थितमतो ब्रह्माऽसत्त्वानंदमयं मतम् ॥३८॥ उत्पत्तिनाशभूतेषु तदाधारं सदात्मकम् । सूर्यस्तदेव देव्यस्तु ब्रह्म सत्यात्मकं परम् ॥३९॥ असत्सन्मयरूपश्च विष्णुः साम्ये व्यवस्थितः । नेतिरूपः शिवस्तत्र चतुर्थः कथ्यते परः ॥४०॥ चतुर्णां चैव संयोगे स्वानंदः पंचमः स्मृतः । स्वसंवेद्येन योगेन लभ्यते योगसेवया ॥४१॥ अयोगः पंचभिर्हीनो व्यतिरेकप्रभावतः । संयोगाऽयोगयोर्योगे गाणेशो योग उच्यते ॥४२॥ पंचधा चित्तवृत्तीनां चालकस्तेन कथ्यते । चिंतामणिः सदा देव्यः पश्यध्वं योगमार्गतः ॥४३॥ मायारूपा स्वयं सिद्धिर्भ्रांतिदा विविधा सदा । भ्रांतिधारकरूपा सा बुद्धिः शास्त्रेषु कथ्यते ॥४४॥ तयोः स्वामी गणेशानः स्वानंदनगरे स्थितः । योगशांतिमयः साक्षाल्लक्षलाभपिता हृदि ॥४५॥ संयोगश्च गकाराख्यो ह्ययोगश्च णकारकः । तयोः स्वामी गणाधीशो वयं तस्य कलात्मिकाः ॥४६॥ अतस्तं भक्तिसंयुक्ता भजाम्यत्र न संशयः । न मोहार्थं महादेव्यो गुह्यं गोपयितुं च न ॥४७॥ एतत् सर्वं समाख्यातं मदीयनियमात्मकम् । चित्ते चिंतामणिं देव्यो ध्यायामि भक्तिसंयुता ॥४८॥ काममोहितचित्तानां न प्रत्यक्षो गजाननः । भवते भावहीनानां भजतामपि सर्वदा ॥४९॥ अज्ञानावरणैर्युक्ता मां वदंति परात्पराम् । गणास्तस्य वयं सर्वे शंभुविष्णुमुखाः किल ॥५०॥ गजो निर्गुणरूपाख्यस्तदेवाननमुच्यते । कंठाधः सगुणं

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 643, कुल 1023 में से · BharatKosha