मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 644, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. २ पान ३ ब्रह्म तयोर्योगे स देहभृत् ॥५१॥ इत्युक्त्वा विररामाथ शक्तिः स्वानंदवासिनी । असत्पात्री प्रजानाथ विस्मितास्ता बभूविरे ॥५२॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। महाकालीमुखा देव्यः श्रुत्वा योगं पुरातनम् । विस्मितास्ताः पुनः सर्वा वच ऊचुः प्रहर्षिताः ॥१॥ शक्तय ऊचुः। महामाये त्वया प्रोक्तं सर्वसंशयनाशनम् । श्रुत्वा वयं गणेशस्य योगं ज्ञानयुताः कृताः ॥२॥ काममोहितचित्तानां न प्रत्यक्षो भवेत् कदा । गणेशानस्त्वया प्रोक्तो जन्मकोटिशतैरपि ॥३॥ गणेशप्राप्तिहीना ये जंतवश्चेश्वरास्तथा। जन्म तेषां विशेषेण निष्फलं संमतं बुधैः ॥४॥ अहो ज्ञानयुतं देहं प्राप्य सर्वार्थदायकम् । सर्वदं गणनांथं ये न भजंतेऽतिगूढकाः ॥५॥ रासभादिसमा देवि ज्ञातव्या ज्ञानवर्जिताः । कामयुक्तस्वभावेन त्यजंति गणनायकम् ॥६॥ कामस्य चरितं शक्ते वद विस्तरतः परम् । कामनाशकरं चापि येन ढुंढिः प्रलभ्यते ॥७॥ त्वमस्माकं परा काष्ठा गुरुरूपेण संस्थिता। देहि विघ्नेश्वरं मातर्भजिष्यामोऽखिलाः प्रभुम् ॥८॥ आदिशक्तिरुवाच। गणनाथावतारस्य तस्योपासनमात्रतः। विकटस्य स्वयं कामः खलो नश्यति तत्क्षणात् ॥९॥ अत्र वोऽहं पुरा जातमितिहासं वदामि हि । येन कामव्यथाहीना भविष्यंति जनाः सदा ॥१०॥ कैलासे गिरिवर्ये तु शंकरः स्वेच्छयैकदा । पार्वतीमोहनार्थाय भीमरूपधरोऽभवत् ॥११॥ अदृष्ट्वा शंकरं साऽपि शोकयुक्ता बभूव ह । एतस्मिन्नंतरे तत्रेंद्रस्तं द्रष्टुं समाययौ ॥१२॥ मघवोऽग्रस्वरूपास्यं दृष्ट्वा कैलासनायकम्। राक्षसं तं विदित्वा स क्रोधयुक्तो बभूव ह ॥१३॥ वज्रं तत्याज तं हंतुं महेंद्रः सहसा परम् । शिवदेहं समासाद्य निष्फलं तद्वभूव ह ॥१४॥ ततः क्रोधसमायुक्तः शंकरोऽग्निं समासृजत् । तृतीयं नेत्रमुद्घाट्य दग्धुं देवपतिं स्वयम् ॥१५॥ सहसाऽग्निं स दृष्ट्वा तु तं सस्मार बृहस्पतिम् । स ज्ञात्वा तत्क्षणं गत्वा प्रणनाम महेश्वरम् ॥१६॥ प्रसाद्य गिरिजानाथमिंद्रं भयसमाकुलम् । अग्निना त्यक्तमानम्यं तत्पादस्थं चकार ह ॥१७॥ इंद्रस्तं