मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 645, कुल 1023 में से
संदर्भ में पढ़ेंविविधैः स्तोत्रैः प्रभुं स्तुत्वा क्षमापयत् । अज्ञानजं महेशानोऽपराधं तस्य चाक्षमत् ॥१८॥ ततः शिवं समागत्याग्निस्तदंश- समुद्भवः । प्रणम्य प्रत्युवाचेदं किं करोमि महेश्वर ॥१९॥ त्वदाज्ञया महादेव त्यक्त्वा देवपतिं खलम् । समागतं महेशान कार्यमाज्ञापयोत्तमम् ॥२०॥ निःसृतोऽहं त्वदंशाद्वै न भविष्यामि निष्फलः । सर्वं ब्रह्मांडमथ वा ग्रसिष्यामि त्वदाज्ञया ॥२१॥ अग्नेस्तद्वचनं श्रुत्वा शंकरस्तमुवाच ह । पतस्व त्वं समुद्रे वै मत्पुत्रो राक्षसाकृतिः ॥२२॥ सर्वैरवध्यभावेन भविष्यसि महाबलः । त्रैलोक्याधिपतिर्भूत्वा धर्मलोपं करिष्यसि ॥२३॥ वृंदा धर्मध्वजस्यैव पत्नी तव भविष्यति । पुत्री सती गणेशेन शप्ता चापत्यदर्शनात् ॥२४॥ तां पातिव्रत्यहीनां वै करिष्यति जनार्दनः । तदा मच्चक्रपातेन मरिष्यसि न संशयः ॥२५॥ ततो मद्देहगो भूत्वा मद्रूपस्त्वं भविष्यसि । राक्षसाकृतिरूपाद्वै जातस्तस्मात्तथा भव ॥२६॥ एवमुक्त्वा महादेवस्तं प्रचिक्षेप शक्तयः । जलधौ तत्र घोषश्च बभूव भयदायकः ॥२७॥ ततस्तत्र समुद्भूतो बालकस्तेजसा युतः । तद्बीजाद्ब्रह्मणाऽऽगत्य कृतो नाम्ना जलंधरः ॥२८॥ तस्य मौंज्यादिकं कर्म चकार जलधिः स्वयम् । कालनेम्यादयो दैत्या बभूवुस्तस्य पार्श्वगाः ॥२९॥ शिवस्य वरदानेन जिग्ये ब्रह्मांडमंडलम् । जलंधरस्ततो देवा वनवासं प्रचक्रिरे ॥३०॥ वने तपःस्थितां वृंदां दानवोऽपि ददर्श सः । उपयेमे कदा तां च गांधर्वेणैव शक्तयः ॥३१॥ तया रेमे सदा दैत्यो मोहितो मायया भृशम् । न बुबोध गतं कालं साऽपि तद्गतमानसा ॥३२॥ ततः कर्मविहीनं तु चकार स धरातलम् । उपोषणेन संयुक्ता देवादयो बभूविरे ॥३३॥ कदाचिन्नारदस्तत्र जगामासुरनायकम् । तेन संपूजितो योगी तं जगाद जलंधरम् ॥३४॥ नारद उवाच । धन्योऽसि जलधेः पुत्र सर्वरत्नविलासकृत् । तथापि शृणु दैत्येश स्त्रीरत्नं नास्ति ते गृहे ॥३५॥ पार्वत्या न समं कुत्र वर्तते सा विशेषतः । रत्नभूता न संदेहः शंकरेणानुभाविता ॥३६॥ एवमुक्त्वा महायोगी नारदोऽन्तर्दधे स्वयम् । सोऽपि श्रुत्वा विशेषेण कामबाणार्दितोऽभवत् ॥३७॥ दूतः संप्रेषितस्तेन शंकरं स समागतः । जगाद तं निशुंभश्च महादेवं महाखलः ॥३८॥ निशुंभ उवाच । शिवस्त्वं नग्नताचैश्च चिह्नैर्युक्तो न ते प्रभो । पार्वती रत्नभूता सा योग्या भवति सर्वदा ॥३९॥ ब्रह्मांडाधिपतिः साक्षात् सर्वश्रिया युतोऽधुना । जलंधरश्च तस्मै त्वं देहि शैलसुतां प्रभो ॥४०॥ प्रतापवान् क्रोधसमायुक्तो नो चेत् जलंधरः । हत्वा त्वां तां बलात् सोऽपि ग्रहीष्यति न संशयः ॥४१॥ वचस्तस्य समाकर्ण्य क्रोधयुक्तः सदाशिवः । शूलं धृत्वा निशुंभं तं हंतुं देवः प्रचक्रमे ॥४२॥ ततो भयसमायुक्तो माययाऽसुरनायकः । पपालाऽऽगत्य वृत्तांतं