भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 649, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 649

खं ६ अ. ४ पान ८ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचिद् दैत्यराजेंद्रो बलिमुख्यान् समागतान् । जगाद हर्षसंयुक्तः कामासुरः प्रतापवान् ॥१॥ कामासुर उवाच । बले रावणमुख्याश्च वचनं मे हितावहम् । शृणुध्वं नीतितत्त्वज्ञा यदि हृद्यं भवेत् परम् ॥२॥ ब्रह्मांडं हि प्रजेष्यामि वरदर्पेण निश्चितम् । भवद्भिः संयुतोऽहं वै तथा शुक्रेण रक्षितः ॥३॥ वरदानस्य माहात्म्यं वृथा भवति चान्यथा । न वयं जयसंहीना भविष्यामः कदाचन ॥४॥ कामासुरस्य तद्वाक्यं श्रुत्वा दैत्येंद्रसत्तमाः । हर्षयुक्ता पुनस्तं त ऊचुः प्रांजलयः परम् ॥५॥ दैत्येशा ऊचुः । सम्यगुक्तं महाभाग वयं सर्वे त्वदात्मकाः । प्रजेष्यामो महेशेंद्रान् प्रतापेन प्रभो च ते ॥६॥ न ते पराक्रमस्यैव तुलां ब्रह्मांडमंडले । लभते कोऽपि दैत्येंद्रस्तत्र शुक्रः सहायकृत् ॥७॥ ततः सर्वे समागम्य शुक्रं नीतिविशारदम् । प्रणम्याऽऽपूज्य तेनैव युताः सर्वेऽपि निर्ययुः ॥८॥ अपारसेनया युक्तश्चतुरंगसुशो- भया । शुशुभे कामसंज्ञोऽसौ तारायुक्तो यथा विधुः ॥९॥ नानावाहनगा वीराः शस्त्रहस्ता द्रुमैर्युताः । पर्वतानां धराः केचिन्निर्ययू रणदुर्मदाः ॥१०॥ यथा पाथोनिधिश्चैव सर्वत्र जलरूपधृक् । तथा सैन्यं धरायां संख्यातिगं दृश्यते हि तत् ॥११॥ बलिरावणमुख्या वै यत्र तिष्ठंति शक्तयः । नृपालैः किंतु सेनाभिर्युद्धं कर्तुं क्षमं भवेत् ॥१२॥ राजानः शरणं केचिद्य- युस्तं च मृताः परे । केचित् त्यक्त्वा वनं राज्यं ययुर्भयसमन्विताः ॥१३॥ एवं भूमंडलं जित्वा सप्तद्वीपसमन्वितम् । दैत्येशा हर्षसंयुक्ता बभूवुश्च जयान्विताः ॥१४॥ ततः पातालमाविश्य शेषं नागसमन्वितम् । वशं कृत्वा ययुस्तेऽपि स्वर्गं देव- गणैर्युतम् ॥१५॥ समागतं महादैत्यैर्युतं कामासुरं खलम् । ज्ञात्वा देवगणाः सर्वे भयभीता बभूविरे ॥१६॥ विचार्य गुरुणा सार्धं शंकरं ते ययुस्ततः । त्यक्त्वा राज्यं भयोद्विग्ना ब्रह्मविष्णुमुखाः सुराः ॥१७॥ ततो दैत्येंद्रमुख्याश्च शून्यां दृष्ट्वाऽमरावतीम् । प्रवेशं चक्रिरे सर्वे कामासुरपुरोगमाः ॥१८॥ इंद्रासने समासीनो दैत्यपैः संवृतो बभौ । कामासुरस्ततो दैत्यान् स्थापयामास सन्निधौ ॥१९॥ ततस्तैः संयुतः सोऽपि प्रजापतिपदं ययौ । तत्रैव तादृशं दृष्ट्वा ब्रह्मासन- गतोऽभवत् ॥२०॥ बुभुजेऽसौ कियत्कालं भोगान्नानाविधान् खलैः । विकुंठमगमत् सोऽपि दैत्यपैः सुसमावृतः ॥२१॥ तत्र शून्यं प्रदृष्ट्यैव हर्षयुक्तो बभूव ह । कामासुरः स्वयं रेमे नानादैत्येंद्रमुख्यकैः ॥२२॥ ततो दैत्यगणान् सोऽपि जगाद हर्षसंयुतः । मोहेन मोहितोऽत्यंतं गर्वयुक्तो वचः परम् ॥२३॥ कामासुर उवाच । किं मया न जितं दैत्यास्तद्वदेत जयाम्‍यहम् । विष्णुमुख्याश्च देवेंद्र्रा दुद्रुवुः क्लीबभावतः ॥२४॥ न कोऽपि रणभूमौ वै संग्रामाय समागतः । देवेंद्र्रा युद्धहीनास्तु भवामो