भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 650, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 650

खं. ६ अ. ४ | पान ९

जयशालिनः ॥२५॥ ततस्तं शंबरो दैत्यः प्राह वैरसमन्वितः । प्रेरितो दैत्यवर्यैश्चासुराणां हितकारकः ॥२६॥ शंबरासुर उवाच । शंभुं जय महाराज देवमुख्यैश्च संवृतम् । तदा ब्रह्मांडकस्यैव राजा त्वं तु भविष्यसि ॥२७॥ न त्वां वरप्रदो देवः शिवः शृणु वचो हितम् । स्वधर्मसंयुक्तं राजन् सर्वेभ्यः सुखदायकम् ॥२८॥ कर्मणां फलदातृत्वं देवानां कर्म निर्मितम् । स्वधर्मस्थं विजानीहि नोचेन्नाशयंति देवताः ॥२९॥ प्रवर्तत इदं कर्माधारं सर्वं तदाज्ञया । कर्मणा त्वं समर्थश्च जातोऽस्यत्र न संशयः ॥३०॥ वयं तु तपसा हीनास्तेन राजंस्त्वदाश्रिताः । भवामस्तमथो शंभुं जय त्वं दैत्यपैर्वृतः ॥३१॥ देवनाथः स्वयं शंभुस्तस्माद्देवान् प्रगृह्य सः । शत्रुघ्नः पश्य दैत्येंद्र संस्थितः प्रबभूव ह ॥३२॥ सुराश्चासुरकाः प्रोक्ताः पश्य वेदेषु मानद । शिवो देवमयः प्रोक्तः कथं दैत्यहितो भवेत् ॥३३॥ कामासुरः शंबरस्य वचः श्रुत्वा प्रतापवान् । मोहयुक्तः स्वभावेन तथ्यं मेने तु शक्तयः ॥३४॥ दैत्यपैः संवृतः सद्यः सन्नद्धैः शंकरं ययौ । तमागतं समाज्ञाय शिवश्चिंतातुरोऽभवत् ॥३५॥ देवैः सह विचार्यैवं दृष्ट्वा दारुणरूपकम् । कामासुरं पपालाऽसौ त्यक्त्वा कैलासमात्मनः ॥३६॥ अरण्ये देवसंयुक्तो यत्र तत्र गुहासु सः । भयभीतः स्वभावेन वासं चक्रे सदाशिवः ॥३७॥ ततः कामासुरो दुष्टो दृष्ट्वा शून्यं पुरं महत् । शैवं हर्षसमायुक्तो दैत्यपैः प्रविवेश ह ॥३८॥ कैलासशिखरारूढः कामासुरः प्रतापवान् । भोगान् कल्पितसंभूतान् बुभुजे चासुरैः सह ॥३९॥ एवं ब्रह्मांडमुग्रः स स्वयं जित्वा ननंद ह । कृतकृत्यमिवात्मानं मेने दैत्येंद्रनायकः ॥४०॥ ततो बहौ गते काले पुत्रं शोषणसंज्ञितम् । ज्येष्ठं कैलासनाथं वै चकार भयवर्जितः ॥४१॥ दुष्पूरं स चकारैव विकुंठाधिपतिं खलम् । कनिष्ठं स्वसुतं कामासुरो दुष्टश्च शक्तयः ॥४२॥ बलिं सौरस्य लोकस्य नाथं चक्रे महासुरः । रावणं शक्तिलोकस्य तथा बलसमन्वितम् ॥४३॥ शंबरं ब्रह्मलोकस्याधिपं दुष्टं चकार ह । इंद्रलोकस्य नाथं तु महिषं रणदुर्मदम् ॥४४॥ दुर्मदं यमपुर्यां स स्थापयामास निर्भयः । एवं नानाऽसुरांश्चक्रे स्थापितान् भुवनेषु च ॥४५॥ स्वयं सर्वसमायुक्त आययौ भूमिमंडलम् । स्वपुरे राज्यमुग्रं स चकार जगतो बलात् ॥४६॥ स्त्रीमद्यमांसकाद्यैश्च संसक्तः सन्महाबलः । भोगांस्त्रिलोकगांस्तत्र बुभुजे स्वसुहृज्जनैः ॥४७॥ न बुबोध गतं कालं यथा कालेन वंचितः । आत्मानममृताकारं मेने स्वमदसंयुतः ॥४८॥ एवं कामासुरो दुष्टः शक्तयः स चकार ह । चराचरमयं सर्वं स्वाधीनं बलगर्वितः ॥४९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरविजयवर्णनं नाम चतुर्थोऽध्यायः ॥