मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 651, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का संपूर्ण पाठ पंक्ति-दर-पंक्ति दिया गया है:
खं. ६ अ. ५ | पान १० ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो कामासुरस्यैवं प्रभावः परमाद्भुतः । शस्त्रहीनेन माये वै जितं सर्वं चराचरम् ॥१॥ एतादृशो महादैत्यो न श्रुतस्ते मुखांबुजात् । अधुना तस्य नाशं तु वद देवि सुदुर्गमम् ॥२॥ आदिशक्तिरुवाच । कालिमुख्याः शृणुध्वं च शक्तयो मे वचो हितम् । यथा तं गणनाधः स जिग्ये सर्वैः सुदुर्जयम् ॥३॥ एकदा स्वसभासंस्थं कामासुरं महानृपम् । जगुर्दैत्याधिपाः सर्वे कृतांजलय आदरात् ॥४॥ दैत्येशा ऊचुः । महाराज महाराज कृतकृत्योऽसि निश्चितम् । तथापि शृणु वाक्यं नः सर्वेषां ते हितावहम् ॥५॥ चराचरं तु दैत्येशा जित्वा राज्यं प्रचक्रिरे । कालेन निहताः सर्वे देवैश्छद्मप्रदर्शिभिः ॥६॥ अतस्त्वमपि राजेंद्र शत्रुभावसमाश्रितान् । देवान् शंभुमुखान् सर्वान् मारयस्व प्रयत्नतः ॥७॥ अमरा वेदवादेषु कथिता देवपा गणाः । शस्त्रादिभिश्च ते सर्वे न मरिष्यंति कर्हिचित् ॥८॥ अतः शृणु महादैत्य विचारं शत्रुनाशकम् । कर्महीनप्रभावेण मरिष्यंत्यमराः किल ॥९॥ कर्मांना देवताः सर्वा नष्टेऽन्ने नाशमाप्नुयुः । पुरा प्रोक्तं तु वेदेषु तादृशं कुरु मानद ॥१०॥ तेनैवामररूपाश्च वयं निहतकंटकाः । भवामो नात्र संदेहस्त्वत्प्रसादेन नित्यदा ॥११॥ तेषां तद्वचनं श्रुत्वा कामासुरश्च हर्षितः । साधु साधु भवद्भिः संकथितं तानुवाच ह ॥१२॥ अधुना दैत्यपैः सर्वैः कर्तव्यं कर्मखंडनम् । महाबलाश्च गच्छध्वं भूमिं सर्वां मदाज्ञया ॥१३॥ तथेति तं प्रणम्यादौ हर्षाद्दानवमुख्यकैः । पृथिव्यां तैः कृतं कर्मखंडनं मदसंयुतैः ॥१४॥ ब्राह्मणादींश्च संताड्य वर्णाश्रमविवर्जितान् । चक्रुस्ते पापकर्मणो दानवा दुर्जयाः खलाः ॥१५॥ कामस्य प्रतिमा दुष्टैः कृतास्तैः स्थापितास्ततः । देशे देशे पुरे ग्रामे जनैः पूज्या इमा मताः ॥१६॥ ततो हाहारवं सर्वे वर्णाश्रमयुता जनाः । स्नानादि नैव चक्रुस्ते दैत्यसंत्रासतापिताः ॥१७॥ न स्वाहा न स्वधा कुत्र न वषट्कार एव च । वर्णाश्रमविहीनाश्चातिष्ठंस्ते ब्राह्मणादयः ॥१८॥ केचिन् मुनिगणा देव्यो महोग्रं वनमाश्रिताः । स्वधर्मनिरतास्तत्रावसंस्ते विगतज्वराः ॥१९॥ ततोऽभवन् महादेवा उपोषणपरायणाः । शोकसंविग्नचित्तास्ते मिलिता भयविह्वलाः ॥२०॥ कामासुरस्य नाशार्थं विचारं चक्रुरंजसा । न किंचित् प्रापुरभवन्नतिदुःखयुतास्ततः ॥२१॥ तत्राऽऽजगाम योगींद्रो मुद्गलः परमार्थवित् । तं दृष्ट्वा देवदेवास्ते हर्षिता अभवन् बुधम् ॥२२॥ उत्थाय तं प्रणेमुस्ते शंभुविष्णुमुखाः सुराः । भृग्वादयश्च योगींद्राः पूजयामासुरादरात् ॥२३॥ आसने सुखमासीनं कृत्वा करपुटान् मुनिम् । शिवश्चिंतातुरोऽत्यंतं पप्रच्छ विनया- न्वितः ॥२४॥ श्रीशिव उवाच । धन्या वयं महायोगिन् दर्शनेन च ते प्रभो । गाणपत्यस्य पूज्यस्य सर्वेषां पावनात्मनः ॥२५॥ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖