मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 652, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. ५ पान ११ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ अस्माकमादिकाले तु गुरुर्भृशुंडिकः परः । तेन संबोधिता विप्र वयं ज्ञानयुता मुदा ॥२६॥ गुरुस्तस्य मुनींद्रस्य सर्वसिद्धि- प्रदायकः । गाणपत्याग्रणीः साक्षात् समस्तेन न वर्तते ॥२७॥ शिष्यशिष्यान् महाभाग तारयस्वाधुना प्रभो । नोचेदन्न- विहीनान्नो मृतान् पश्यसि देवपान् ॥२८॥ कामासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् । अधुना कर्मनाशाद्वै हीना अन्नेन वै कृताः ॥२९॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मरणं मुने । उत्पत्तिस्थितिसंहारयुक्तेभ्यस्तस्य नो भवेत् ॥३०॥ अतो योगींद्रमुख्य त्वं वदोपायं महागुरो । कामासुरस्य नाशार्थं करिष्यामो जवान्विताः ॥३१॥ चराचरस्य रक्षार्थं कुरु कार्यमनुत्तमम् । दुष्टं संहर योगींद्र मार्गदर्शनभावतः ॥३२॥ यथा ज्ञानोपदेशेनाज्ञाननाशं करोषि तु । तथा हिंसा न ते स्वामिन् भविष्यति कदाचन ॥३३॥ इति तस्य वचः श्रुत्वा मुद्गलः शंकरस्य तु । दयया गणनाथं स स्मरन् जगाद तं वचः ॥३४॥ मुद्गल उवाच । शृणु शंभो जगन्नाथ विष्णो देवादयो वचः । कथयामि हितार्थाय कामासुरविनाशनम् ॥३५॥ साक्षादीश्वररूपस्त्वं गणेशांशः सदाशिव । तवाग्रे किमहं ब्रूयां विद्यानाथस्य मानद ॥३६॥ तव दर्शनमात्रेण कृतकृत्या भवंति वै । नरा ईश न संदेहस्तं किं ब्रूमि भयापहम् ॥३७॥ तथापि कथयिष्यामि त्वदाज्ञापालनार्थतः । गणेशं सर्वभावेन भजध्वं सर्वदेवताः ॥३८॥ स्वानंदस्थस्त्रिभिर्भावैर्हीनो देवो न संशयः । स तं क्षणार्धमात्रेण हनिष्यति महासुरम् ॥३९॥ पूर्वस्मिन् यत्र वै शंभो सिद्धिः प्राप्ता त्वया तथा । देवैः सर्वैश्च विप्रैश्चाधुना तत्र गतिं कुरु ॥४०॥ भूस्वानंदे महाभाग आराधय गजाननम् । मयूरेशं विधानेन सर्वसिद्धिप्रदायकम् ॥४१॥ एकाक्षरेण मंत्रेण चरध्वं तप उत्तमम् । स्वल्पकालेन विघ्नेशः प्रसन्नो भविता स्वयम् ॥४२॥ एवमुक्त्वा महायोगी मुद्गलस्तान् प्रणम्य तु । जगाम स्वेच्छया योगाद्गणेशभजने रतः ॥४३॥ ततो देवाश्च विप्रास्ते हर्षयुक्ता बभूविरे । मयूरेशं समाजग्मुर्दंडकारण्यगं परम् ॥४४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मुद्गलदेवसमागमो नाम पंचमोऽध्यायः ॥