मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 654, कुल 1023 में से
संदर्भ में पढ़ेंयावत्तं प्रष्टुमारेभे तावदंतर्हितं वपुः । ततः सोऽपि गणेशस्य पुनर्ध्यानयुतोऽभवत् ॥२७॥ न ददर्श महद्रूपं सर्वमंगल- मंगलम् । ततो विह्वलचित्तोऽसौ जगाम विष्णुसंनिधौ ॥२८॥ तदा सोऽपि विसृज्यैव ध्यानं समुत्थितोऽभवत् । शिवस्तस्मै खवृत्तांतं कथयामास हृद्गतम् ॥२९॥ शिवाय स जगादैवं स्वध्यानस्थं जनार्दनः । एवं क्रमेण पंचैते देवेशा मिलिता जगुः ॥३०॥ परस्परं विचार्यैते ध्यानं विस्मितमानसाः । ऊचुः कोऽयं नरश्चैवाभवत् ध्याने समागतः ॥३१॥ ततस्ते तुष्टुवुर्देवं यस्मै कस्मै नमो नमः । सर्वेषां मूलरूपाय प्रसीद करुणानिधे ॥३२॥ तत आकाशजां वाणीं शुश्रुवुस्ते महौजसः । ब्रह्मविष्णुमहेशानशक्तिसूर्याः सुखप्रदाम् ॥३३॥ आकाशवागुवाच । गणेशोऽहं महादेवाश्चित्तवृत्तिप्रचालकः । यस्य तप्तं तपो घोरं स एवाऽहं न संशयः ॥३४॥ प्रसन्नेन मयाऽऽदौवस्तपसा हृदि दर्शितम् । बीजमेकाक्षरं मे वै सिद्धा यूयं जपात्ततः ॥३५॥ साक्षान्म दर्शने देवा नाधिकारोस्ति निश्चितम् । योगहीनप्रभावत्वात्ततश्चांतर्हितोऽभवम् ॥३६॥ भृशुंडिनं महाभक्तं पृच्छध्वं सर्वमंजसा । गत्वा नत्वा स वै साक्षात् ज्ञानदाता भविष्यति ॥३७॥ तत् ज्ञात्वा देवदेवा मां भविष्यथ समर्थकाः । संद्रष्टुं नात्र संदेहस्ततः सिद्धिमवाप्स्यथ ॥३८॥ एवमुक्त्वा गणेशानः खस्थः सोऽन्तर्हितोऽभवत् । शिवादयः प्रणम्यैव युयुस्तं मुनिपुंगवम् ॥३९॥ अमलाश्रमसंस्थं तं ददृशुर्विष्णुमुख्यकाः । भृशुंडिनं प्रणम्यैते संस्थिता हर्षसंयुताः ॥४०॥ ऊचुः प्रांजलयः सर्वे तं मुनिं शुंडयायुतम् । एकमेव स्थितं पूर्णयोगानंदमयं परम् ॥४१॥ देवेशा ऊचुः । धन्यं जन्म तपो विद्या ज्ञानं ते पाददर्शनात् । धन्योऽपि योगिनां मध्य आदिमध्यांतवर्जितः ॥४२॥ सोऽपि तान् पूजयामास ज्ञात्वा देवतमान् मुनिः । कृत्वाऽऽतिथ्यं जगादैवं भृशुंडी परमार्थवित् ॥४३॥ भृशुंड्युवाच । जगतां मूलरूपाश्च भवंतो जगदीश्वराः । समागता मदीये मे आश्रमे भाग्यगौरवात् ॥४४॥ किमर्थमागता देवाः कार्यं ब्रूत करोम्यहम् । आदिमध्यांतभावज्ञा विश्वपालाः परेश्वराः ॥४५॥ शक्तय ऊचुः । महालये भृशुंडी च कथं लयविवर्जितः । वद शक्ते मुने- स्तस्य चरितं परमाद्भुतम् ॥४६॥ मुद्गल उवाच । महालक्ष्मीमुखीनां तु देवीनां प्रश्नमुत्तमम् । श्रुत्वा ता जगदंबा सा कथयामास हर्षिता ॥४७॥ पुरा भृशुंडिचरितं मया रम्यं प्रकाशितम् । श्रुत्वा संशयहीनास्तां पप्रच्छुर्बिनयान्विताः ॥४८॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते भृशुंडिपंचदेवसमागमो नाम षष्ठोऽध्यायः ॥