भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 655, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 655

पान १४


॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो शक्ते महाचित्रं चरित्रं मुख्यकं श्रुतम् । भृशुंडिनश्च संतुष्टा वयं जाता न संशयः ॥१॥ अधुना मुनिदेवानां संवादं वद सौख्यदम् । यत्र विघ्नेश्वरस्यैव ज्ञानं संगीयतेऽमलम् ॥२॥ आदिशक्तिरुवाच । शृणुध्वं शक्तयः सर्वाः पुरावृत्तं कथानकम् । सर्वपापहरं पुण्यं सर्वसिद्धिप्रदायकम् ॥३॥ भृशुंडिवचनं श्रुत्वा हर्षिताः शंकरादयः । ऊचुस्तं प्रणिपत्यैव वृत्तांतं पूर्वसंभवम् ॥४॥ शिवादय ऊचुः । कोऽसौ गणेश्वरः स्वामिन् नरकुंजरवेषभृत् । तस्य ज्ञानं वदस्व त्वं कथं चित्तप्रचालकः ॥५॥ भृशुंड्युवाच । संयोगवाचकः प्रोक्तो गकारश्च णकारकः । अयोगात्मकसंज्ञो वै तयोः स्वामी गणेश्वरः ॥६॥ अविनाशिपदं वेदे प्रोक्तं तद्धजवाचकम् । मस्तकं तस्य देवेशा ज्ञातव्यं मायया कृतम् ॥७॥ नाशवद्विश्वमेतद्वै तदेव देहरूपगम् । कंठाधो नात्र संदेहस्तयोर्योगे गजाननः ॥८॥ चतुःपदार्थरूपाश्च भुजास्तस्य महात्मनः । चतुर्भुजस्तेन साक्षाद्गणेशः परिकीर्तितः ॥९॥ जीवात्मपरमात्मानौ पादौ तस्य महात्मनः । द्विपदो गणराजोऽतः कथ्यते वेदवादतः ॥१०॥ तस्योदरात् समुत्पन्नं जगद्ब्रह्म महेश्वराः । तेन लंबोदरः साक्षात् कथितोऽसौ गणेश्वरः ॥११॥ भ्रांतिदा गणराजस्य मायासिद्धिः प्रकीर्तिता । वामांगाद्भिन्नरूपा सा बभूवे योगरूपिणी ॥१२॥ पंचचित्तमयी साक्षाद्बुद्धिर्भ्रांति- धरा परा । दक्षिणांगाद्गणेशस्य निःसृता ज्ञानरूपिणी ॥१३॥ तयोः स्वामी गणेशानो योगशांतिमयः स्वयम् । भक्त- वत्सलभावेन देहधारी बभूव ह ॥१४॥ स एव ज्ञानगो देवा भवतां कार्यसिद्धये । बभूव तं भजध्वं तु तेन सर्वं शुभं भवेत् ॥१५॥ श्रुतवैवं विस्मिता भूत्वा देवेशास्तं प्रणम्य तु । ऊचुर्विस्मितचित्तास्ते गुरुं भृशुंडिनं वचः ॥१६॥ ब्रह्मादय ऊचुः । त्वं साक्षाद्गणराजो वै शुंडादंडविराजितः । अस्माकं गुरुरायश्च बोधदातनमोऽस्तु ते ॥१७॥ त्वदीयवचनेनैव गणेशार्थ- विचक्षणाः । जाता वयं महायोगिंस्तद्भक्ताः सार्थकाः प्रभो ॥१८॥ अधुना वद माहात्म्यं भजनस्य विशेषतः । तत्र स्थानं च मंत्रादिविधियुक्तं महामुने ॥१९॥ भृशुंड्युवाच । समाधिना भवंतोऽपि गताः पुरा महेश्वराः । भेदाभेदादिहीने तु ब्रह्मणि तन्मयत्वतः ॥२०॥ अधुना दंडकारण्ये तादृशं क्षेत्रमुत्तमम् । स्वानंदारुख्यं च तत्रैव तपध्वं गणपे रताः ॥२१॥ मूर्तिं कृत्वा गणेशस्य दृष्टां स्वहृदि तादृशीम् । पूजयध्वं विधानेन ततः सिद्धिमवाप्स्यथ ॥२२॥ एवमुक्त्वा महायोगी भृशुंडी विरराम ह । गणेशभक्तराजेंद्रो देवेशास्तं जगुः पुनः ॥२३॥ शिवादया ऊचुः । कुत्र क्षेत्रं स्थितं विप्र प्रलये समुपस्थिते । कीदृशं तस्य माहात्म्यं वद योगींद्रसत्तम ॥२४॥ तत्र मूर्तिः पुरा केन स्थापिता गणपस्य च । किमर्थं भूमिसंस्थोऽयं गणेशः