मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 670, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. १३ पान २९ प्रकीर्तितः ॥१३॥ देवेशा ऊचुः । चतुर्भुजो गणाध्यक्षो मयूरे संस्थितोऽभवत् । कथं दशभुजः सोऽपि बभूव वद योगिप ॥१४॥ भृशुंड्युवाच । भूस्वानंदमयं क्षेत्रमेकं सर्वादिसंमतम् । गाणेशं तत्र देवेशा न चित्रं किंचिदंजसा ॥१५॥ एकाक्षरभवं ध्यानं प्रथमं परिकीर्तितम् । सर्वादौ तत् सुविख्यातं क्षेत्रसंस्थं बभूव ह ॥१६॥ सप्तकोटयो महामंत्रा गणेशस्य महात्मनः । सर्वे मयूरक्षेत्रे ते कल्पभेदे स्थिता बभुः ॥१७॥ अनंतरूपधारी स हिताय गणपोऽभवत् । लोकानां तानि सर्वाणि मयूरे संभवति हि ॥१८॥ मयूरक्षेत्रगश्चैव गणेशो भक्तकारणात् । नानाक्षेत्रस्य भावेन तिष्ठति कलयाऽमरः ॥१९॥ अतः सर्वाणि रूपाणि गाणेशानि विशेषतः । मायूरे संस्थितान्येव मूलभूते महेश्वराः ॥२०॥ शक्तिरुवाच । भृशुंडिवचनं श्रुत्वा हर्षयुक्ताः सुरेश्वराः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकंधराः ॥२१॥ ब्रह्माया ऊचुः । दंडकारण्यदेशे तु गणेशस्य महात्मनः । क्षेत्रं मुख्यं कथं जातं तन्नो वद महामुने ॥२२॥ भृशुंड्युवाच । स्वस्वकर्मकृतं देवास्तस्य दंडः प्रकीर्तितः । शुभाशुभमयः शास्त्रे नरैर्भोक्तव्य एव च ॥२३॥ दंडानां नाशकं पूर्णं तेनारण्यं प्रकीर्तितम् । शून्यवत् सर्वशास्त्रेष्वरण्यं तत्कथ्यते बुधैः ॥२४॥ ब्रह्मभूय- पदं पूर्णं परं चादंडवाचकम् । दंडकारण्यकं तेन नाम तस्य विशेषतः ॥२५॥ दंडकारण्यगे देवो ब्रह्मभूतमयः परः । गणेशो वेदवादेष्वदंडिनां स हितावहः ॥२६॥ अदंडिनश्च योगींद्राः कथिताः शुकमुख्यकाः । योगेशो ब्रह्मणां नाथो गणेशस्तत्र राजति ॥२७॥ इतिहासं प्रवक्ष्यामि पुरा वृत्तं सुरेश्वराः । सृष्टान्यरण्यमुख्यानि ब्रह्मणा कार्यसिद्धये ॥२८॥ दंडकारण्यकं तेषु गणेशं लालसं सदा । उवाच वेधसं नत्वा कृत्वा करपुटं पुरा ॥२९॥ दंडकारण्यमुवाच । ब्रह्मभूयप्रदं देवं भजिष्यामि पितामह । तदर्थं मंत्रराजं मे देहि सर्वज्ञ मुख्यक ॥३०॥ ब्रह्मोवाच । गणेशं भज भावेन ब्रह्मभूतः स वै स्मृतः । समूहानां प्रभुः पूर्णः समूहा ब्रह्मवाचकाः ॥३१॥ स्वानंदनगरं यस्य सिद्धिर्बुद्धिः प्रिये परे । लक्षलाभौ सुतौ प्रोक्तौ वाहनं मूषकः परः ॥३२॥ गजाननमयो यस्य देहश्च नररूपधृक् । सर्वं ब्रह्ममयं तेन ब्रह्मणस्पतिरुच्यते ॥३३॥ एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं परम् । तं नमस्कृत्य तच्चैव जगाम तपसे स्वयम् ॥३४॥ दिव्यवर्षसहस्रेण ज्ञानं गाणेशकं परम् । लब्ध्वाऽरण्यं महादेवस्ततो भक्तिं चकार ह ॥३५॥ तद्ययौ गणराजस्तु प्रसन्नो भक्तवत्सलः । जगाद वृणु ते चित्ते स्थितं वरमरण्यक ॥३६॥ तं दृष्ट्वा दंडकारण्यं समुत्थाय ननाम तु । पूज्यं स्तोतुं गणाधीशं चकमे तत्कृतांजलिः ॥३७॥ दंडकारण्यमुवाच । नमस्ते गजवक्त्राय गणेशाय महोदर । ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥३८॥ हेरंबाय चतुर्बाहुधराय कंजपाणये ।