भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 671, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 671

ख. ६ अ. १३ पान ३० पाशांकुशधरायैव परेशाय नमो नमः ॥३९॥ अनादये च सर्वेषामादिरूपाय ते नमः । ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥४०॥ स्वानंदवासिने तुभ्यं सिद्धिबुद्धिवराय च । सिद्धिबुद्धिप्रदात्रे ते मूषकध्वजिने नमः ॥४१॥ मूषकोपरिसंस्थाय गणेशाय परात्मने । नानामायाप्रचालाय मयूरेशाय ते नमः ॥४२॥ नायकानां विशेषेण नायकाय विनायक । नायकै- र्वर्जितायैव नायकत्वप्रदायिने ॥४३॥ विघ्नेशाय महाविघ्नधारिणे सर्वदायिने । पददात्रे तथा हंत्रे विघ्नेशैस्ते नमो नमः ॥४४॥ अमेयशक्तये तुभ्यं सर्वपूज्याय ते नमः । किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ॥४५॥ अधुना वरदोऽसि त्वं तदा मे नाम सार्थकम् । कुरु नित्यं वस स्वामिन् मम देहे गजानन ॥४६॥ भक्तिं देहि त्वदीयां मे सदा ब्रह्मप्रकाशिनीम् । तेनाऽहं कृतकृत्यश्च भविष्यामि गजानन ॥४७॥ एवमुक्त्वा गणेशानं प्रणनाम कृतांजलिः। भक्ति- भावसमायुक्तं तञ्जगाद गजाननः ॥४८॥ श्रीगजानन उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वसिद्धिदम् । भविष्यति महा- रण्य भुक्तिमुक्तिप्रदं परम् ॥४९॥ त्वयोक्तं सफलं सर्वं भविष्यति सदा प्रियम् । मामेव सर्वभावेन भजिष्यसि न संशयः ॥५०॥ नानावतारांश्चैव त्वद्देहस्थोऽहमंजसा । भविष्यामि गणेशोक्त्वाऽन्तर्दधे देवसत्तमाः ॥५१॥ अतो गणेशक्षेत्रं तु दंडकारण्यमुत्तमम् । सकलं तत्र सेवार्थं देवास्तस्य समाययुः ॥५२॥ तेषां क्षेत्राणि देवेशा दंडकारण्यगानि तु । तेषु स्थिता विशेषेण भजंते गणनायकम् ॥५३॥ सर्वेष्वरण्यदेशेषु गणेशः प्रतितिष्ठति । दंडकारण्यमध्ये स विशेषेणावतारकृत् ॥५४॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 671, कुल 1023 में से · BharatKosha