मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 690, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. १९ पान ४९
तीर्थं संस्थितं तत्र पापहृत् । स्नानमात्रेण सद्यो दरिद्रतानाशकारकम् ॥६९॥ तस्या वामांगके शक्तिर्महाकाली समास्थिता । कालीसरश्च तत्रैव संस्थितं पापनाशनम् ॥७०॥ महासरस्वती शक्तिर्दक्षिणांगे स्थिता तथा । सारस्वतं महत् कुंडं तत्र जाड्य- विनाशनम् ॥७१॥ स्वानंदवासमास्थाप्य भजते गणनायकम् । महालक्ष्मीर्महेशाना अष्टम्यां पूज्यते नरैः ॥७२॥ सिद्धीशं तु महाकाल्यास्थाप्य भक्तिपरायणा । भजते नित्यमानंदाद्भूतायां पूज्यते तथा ॥७३॥ बुद्धीशं तु तृतीयायां महासरस्वती नरैः । शक्तियुक्ता स्थाप्य नित्यं भजते पूज्यते परा ॥७४॥ महालक्ष्म्याः पुरश्चैव विष्णुकांची स्थिता पुरी । लक्ष्म्या विष्णुः स्थितस्तत्र भजते स्थाप्य विघ्नपम् ॥७५॥ अष्टम्यां पूजनीयोऽसौ क्षेत्रवासिभिरादरात् । पापनाशकरस्तेषां भवते सर्वदायकः ॥७६॥ तत्पुरो मातृकाणां च धनुषां द्विशतात्मकम् । क्षेत्रं तु संस्थितं तत्र माहेश्वर्या महाद्भुतम् ॥७७॥ तत्पुर- स्तावता मानेन युतं क्षेत्रमुत्तमम् । कौमार्यस्तत्र संस्था सा तीर्थेनैव समायुता ॥७८॥ ततः क्षेत्रं समाख्यातं वाराह्याः सर्वदं परम् । तत्र शक्तिः स्थिता साक्षाद्वाराही दुरितापहा ॥७९॥ तत ऐंद्रया महाक्षेत्रं पूर्वमानेन कीर्तितम् । ऐंद्री गणेश्वरं तत्र भजतेऽनन्यचेतसा ॥८०॥ महाकाल्याः पुरश्चैव पूर्वमानेन संस्थिता । नारसिंही महाशक्तिर्दैत्येभ्यो भयदायिनी ॥८१॥ ततः शाकंभरी शक्तिश्च ततो रक्तदंतिका । ततो भीमा महेशानः संस्थिता तीर्थसंयुता ॥८२॥ अथो महासरस्वत्यास्तावन्मानेन संस्थिता । पुरस्तु वैष्णवी देवी ततो ब्राह्मी स्थिता मता ॥८३॥ चामुंडा च ततः प्रोक्ता तत्पुरस्त्रिपुरा मता । समानमानभावेन संस्थिता शक्तयः पराः ॥८४॥ कुंडरूपेण तीर्थानि स्वस्वक्षेत्रगतानि तु । कृत्वा ताः शक्तयः सर्वा मयूरे संस्थिताः सदा ॥८५॥ स्वस्वनाम्नांकितानास्थाप्य गणेशांश्च देवपाः । भजंतेऽनन्यभावेन गाणपत्यस्वभावतः ॥८६॥ अन्यानि शक्तिक्षेत्राणि शक्तयश्च समाश्रिताः । नरैस्तासां नवम्यां तु यात्रा कार्या सुखप्रदा ॥८७॥ तासां नामादिकं देवा मया वक्तुं न शक्यते । मुख्यास्तु नवकोष्ठ्यो वै ज्ञातव्यं विबुधैः सदा ॥८८॥ धनुः पंचशतं तस्माच्छक्तिर्लंबोदरं परम् । आस्थाप्य भजते तस्या यात्राऽष्टम्यां प्रकीर्तिता ॥८९॥ अथोत्तरगतान् वक्ष्ये देवान् देवालये स्थितान् । समासेन महेशानः शृणुत परमार्थदान् ॥९०॥ गर्भागारात् समारभ्य चतुःशतं पितामहः । धनुषां क्षेत्रगः सोऽपि तिष्ठति वेदसंयुतः ॥९१॥ तावन्मानेन वामांगे तस्याग्निः संस्थितो महान् । अग्निभिः सहितस्तत्र सेवते गणनायकम् ॥९२॥ दक्षिणांगे स्वयं कर्म सह तिष्ठति कर्मभिः । सूर्यकलांश- संभूतास्त्रयो मुख्या इति स्मृताः ॥९३॥ ब्रह्माणं च समाश्रित्य सरः सारस्वतं स्थितम् । सरस्वती नदीरूपा तत्र तिष्ठति