मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 691, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. १९ पान ५० नित्यदा ॥९४॥ तत्र स्नानेन पापानि प्रणश्यंति महांति चेत् । जाड्यभावो नश्यति च नराणां देवसत्तमाः ॥९५॥ सिद्धिबुद्धिपतिं स्थाप्य सेवते चतुराननः । सदा गणेशपूजायां तत्परो भक्तिसंयुतः ॥९६॥ तथाऽग्निश्च महात्मानं विनायकं निरंतरम् । आस्थाप्य भक्तिसंयुक्तो भजते नित्यमादरात् ॥९७॥ आग्नेयं तत्र कुंडं तु सर्वाघशमनं स्थितम् । स्नानमात्रेण जंतूनामग्निलोकप्रदं भवेत् ॥९८॥ कर्मनाशकरं कुंडं समीपं कर्मणः स्थितम् । स्नानेन त्रिविधं तत्र कृतं कर्म विनश्यति ॥९९॥ ब्रह्मणः पुरतो देवा धनुषां द्विशतात्मकम् । क्षेत्रं वेदांगनाम्नश्च परं सूर्यस्य संस्थितम् ॥१००॥ भानुक्षेत्रं तत्पुरस्तावता मानेन संयुतम् । इंद्रनाम्नस्तत्पुरस्तु क्षेत्रं सर्वप्रदायकम् ॥१॥ अग्नेः पुरस्तथा क्षेत्रं रखेस्तावत्प्रमाणकम् । ततः क्षेत्रं गभस्तेश्च यमस्य च ततः परम् ॥२॥ कर्मणश्च पुरोभागे तावन्मानयुतं महत् । सुवर्णरेतसः क्षेत्रं ततो दैवाकरं मतम् ॥३॥ ततः क्षेत्रं तु मित्रस्य ततो विष्णोः प्रकीर्तितम् । वरुणस्य क्षेत्रमिंद्रात् पुरः सर्वाघनाशनम् ॥४॥ यमात् पुरस्तु सूर्यस्य क्षेत्रं तत्र प्रकीर्तितम् । समानमानभावेन स्थिता द्वादश भानवः ॥५॥ स्वस्वतीर्थैः समायक्ताः कुंडस्वरूपैर्महेश्वराः । स्वस्वनाम्ना स्थाप्य सेव॑ते गणेशान्निरंतरम् ॥६॥ तत्पुरः शिवकांची तु तस्यां शक्त्या शिवः स्थितः । सोमयुक्तो प्रदोषे स जनैः पूज्यः सुखप्रदः ॥७॥ भजते सर्वभावेनास्थाप्य हेरंबमादरात् । तीर्थं तस्य स्थितं तत्र सर्वाघशमनं परम् ॥८॥ जनैः पूज्यः प्रतिपदि क्षेत्रस्थोऽग्निः प्रतापवान् । सर्वपापनिहंता च द्रव्यलाभप्रदो भवेत् ॥९॥ सप्तम्यां सर्वदा देवाः पूजनीयः पितामहः । जाड्यभावहरः सोऽपि भवत्यत्र न संशयः ॥११०॥ भानुसप्तमिकायां तु कर्म संपूजयंति ये । सर्वदोषविहीनाश्च कर्मणां संभवंति ते ॥११॥ संक्रमेषु सदा पूज्य भानून् द्वादश संस्थितान् । सर्वरोगादिनिर्मुक्ता भवंति क्षेत्रवासिनः ॥१२॥ तेषां पुरः स्वयं नित्यं तिष्ठति सौरलोकगः । चतुःशतं तु धनुषां क्षेत्रं तस्य महात्मनः ॥१३॥ रविवारे तु देवेशः पूजनीयो निरंतरम् । नरः सर्वार्थसंसिद्धिं लभते मुक्तिमुत्तमाम् ॥१४॥ वरदं गणनाथं संस्थाप्य पूजापरायणः । भजते आदिदेवस्तं सूर्यः कालभृतां वरः ॥१५॥ तत्पुरश्चंद्रमा देवाः संस्थितः शतमानतः । धनुषां क्षेत्रमेतत्तु तस्य सर्वान्नदायकम् ॥१६॥ ततः पुरो बुधः प्रोक्तस्तावता मानकेन च । तत्पुरः संस्थितो जीवः क्षेत्रवासपरायणः ॥१७॥ चंद्रवामांगसंस्थश्च भौमो देवपरायणः । तत्पुरो भार्गवः श्रेष्ठस्तत्पुरस्तु शनैश्चरः ॥१८॥ चंद्रस्य दक्षिणे भागे राहुः सर्वारिमर्दनः । तत्पुरः केतुरेवं च नक्षत्राणि ततः पुरः ॥१९॥ आस्थाप्य स्वस्वनामांकान् गणेशान् भक्तितत्परः । भानि ग्रहा भजंते तं क्षेत्रवासपरायणाः ॥१२०॥