मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 698, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. २० | पान ५७ अत्यसाध्यशरीरेण गमनं यत्त्वया कृतम् । भुंक्ष्व पापं महादुष्ट मलत्यागभवं परम् ॥३६॥ साक्षाद्गणपतेः स्थाने गर्भागारे गतो भवान् । तस्य मस्तकमध्ये तु पपात किल ते मलः ॥३७॥ अस्माभिश्च सुवासेन जलेन क्षालितं तदा । मस्तकं तस्य देवस्य विष्ठायुक्तं तया कृतम् ॥३८॥ इत्युक्त्वा क्रूररूपं स दर्शयामास भैरवः । देवानीकाय तं सोऽपि दृष्ट्वा मूर्च्छामवाप ह ॥३९॥ ततस्तं सावधानं स पुनः कृत्वाऽग्निचक्रगम्। चकार दूतवर्यैश्च नग्नभैरव एव च ॥४०॥ अग्निचक्रे द्विजो नित्यं दाहयुक्तो बभूव ह । बभ्राम देवमुख्याश्च हाहाकाररवाकुलः ॥४१॥ भैरवाणां महावह्निर्मतः कोटिगुणाधिकः । यमस्याग्रेश्च जंतूनां तं स्प्रष्टुं कः क्षमो भवेत् ॥४२॥ शतवर्षाणि विप्रेशोऽग्निचक्रं तत् समाश्रितः । बभ्राम दाहसंयुक्तो न ममार स मायया ॥४३॥ भैरवेण निबद्धः स दुःखमेव सुदारुणम् । बुभुजे ब्राह्मणस्तत्र मया वक्तुं न शक्यते ॥४४॥ ततो हैमगुहायां स निक्षिप्तो ब्राह्मणाधमः । शतवर्षाणि तत्रैवाभवच्छैलेन पीडितः ॥४५॥ ततः स रौरवे तेन निक्षिप्तो जंतुभिस्तथा । दंशितस्तत्र संस्थश्च कोटिवृश्चिकसन्निभैः ॥४६॥ शतवर्षाणि तत्रैव पीडितस्तेन दारुणम् । ततस्तप्तशिलायां स पोथितोऽभूत् पुनः पुनः ॥४७॥ शतवर्षाणि तत्रैव यातनां बुभुजे पराम् । ततः पिशाचयोनिस्थः क्षेत्रे पीडायुतोऽभवत् ॥४८॥ अन्नवस्त्रजलादिभ्यो हीनो बभ्राम वाडवः । अशुचीन् स नरान् प्राप्य तद्देहस्थो बभूव ह ॥४९॥ तत्रैव शास्त्रमंत्रेण वैदिकेन द्विजोत्तमैः । ताडितस्तान् परित्यज्य बभ्राम यत्र तत्र ह ॥५०॥ एवं वर्षाणि देवेशाः शतं कृत्वा पुनश्च तम्। आनाय्य भैरवो देवो जगाद वचनं हितम् ॥५१॥ देवानीक त्वया भक्त्या यात्रार्थं गर्भमंदिरम् । अशक्तेन कृतं चैव मलयुक्तं महामते ॥५२॥ तेन त्वं पंचशतकं वर्षाणां यातनाभवम् । दुःखं भुक्त्वा महाविप्राऽधुना तं गणपं व्रज ॥५३॥ इत्युक्त्वा तं महेशाना ब्रह्मभूतं चकार ह । एवं वः कथितं तत्र मलत्यागे महद्भयम् ॥५४॥ यदि स्वाधीनदेहश्चेत् ज्ञात्वा गर्भालये मलम् । त्यजेत् सोऽपि नरः पूर्णां यातनां प्रलभेत् पराम् ॥५५॥ इदं श्रुत्वा नरो यस्तु त्रासयुक्तो भवेत् कदा । तदारभ्य मलत्यागं न कुर्यात् स लभेद्गतिम् ॥५६॥ तं निर्भर्त्स्य महा क्रूरा भैरवा यातनाभवम् । दर्शयित्वा महत् दुःखं ब्रह्मभूतं तु चक्रिरे ॥५७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः ॥