मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 699, कुल 1023 में से
संदर्भ में पढ़ेंख ६ अ. २१ | पान ५८ ॥ श्रीगणेशाय नमः॥ भुशुंड्युवाच। विकर्मकारिणां क्षेत्रे कथयिष्यामि चाधुना। यथा दंडः स्वहस्तैश्च क्रियते भैरवैर्महान् ॥१॥ मयूरे क्षत्रियः कश्चिद्वासं कृत्वा स्थितोऽभवत्। गत्वा वनांतरे लोकान् हत्वा द्रव्यं समग्रहीत् ॥२॥ कुटुंबपोषणे सक्तः शिश्नोदरपरायणः। चकार विविधं पापं क्षेत्रे मायूरसंज्ञिते ॥३॥ परस्त्रियं बलाद् गृह्यायभक्तां निरपत्रपः। जातिभेदादिकं सोऽपि मान्यं नैव चकार ह ॥४॥ भगिनीमेकलां दृष्ट्वा कदा मदेन विह्वलः। हठात् गृह्य महेशानो बुभुजे कामनायुतः ॥५॥ चौरादीनि चकारापि ब्रह्महत्यां तथा खलः। गोस्त्रीवधादिकं दुष्टः किं वदामि विशेषतः ॥६॥ गणेशं न पुपूजासौ कदाचिदमरान् परान्। यात्रां नैव चकारापि पापनिष्ठो ममार ह ॥७॥ भैरवास्तं समागृह्य बद्ध्वा ताड्य नराधमम्। निन्युः स्वस्थानगं ते तु नग्नं भैरवनायकम् ॥८॥ क्षत्रियोऽथ महाक्रूरं दृष्ट्वा भैरवनायकम्। हाहा कृत्वा पपाताऽसौ मूर्च्छितो धरणीतले ॥९॥ सावधानं ततः कृत्वा मायया नग्नभैरवः। मृतिर्मूर्च्छाविहीनं च दुष्टं चकार सर्वपः ॥१०॥ तंतस्तं गृह्य दूतास्ते भैरवस्य महात्मनः। अग्निकुंडेषु संक्षिप्य दाहयामासुरंजसा ॥११॥ सहस्रे ते तं गतेषु वर्षेषु क्रोधसंयुतः। अग्नि- चक्रे समाक्षिप्य भ्रामयामासुरंजसा ॥१२॥ हाहाकाररवैर्युक्तो बभ्रामाग्नौ नराधमः। न ममार न मूर्च्छां सोऽलभद्वैरव- मायया ॥१३॥ ततः सहस्रवर्षांते हैमकुंडे समाक्षिपन्। भैरवास्तं महादुष्टं शीतैश्चक्रुः प्रपीडितम् ॥१४॥ ततः सहस्रवर्षांते शिलायां स्थाप्य मुद्गरैः। चूर्णयामासुरुग्रैस्तं खलं कंटकसंयुतैः ॥१५॥ एवं गतानि वर्षाणि सहस्रं देवसत्तमाः। ततो याम्यां ददुस्तस्मै यातनां दारुणां पराम् ॥१६॥ रुरुजंतुभिरादष्टो रौरवेऽभून्नराधमः। स सहस्रं वर्षकाणि महोग्रैर्वह्नि- सन्निभैः ॥१७॥ ततस्तैलकटाहेशु संतप्तेषु च तं भटाः। चिक्षिपुर्दारुणां सोऽपि वेदनां बुभुजे पराम् ॥१८॥ ततः सहस्र- वर्षांते तप्तवालुभिरेव तम्। आच्छाद्य स्थापयामासुर्भैरवाः क्षत्रियाधमम् ॥१९॥ सहस्रं तत्र वर्षाणि बुभुजे दुःखमुल्बणम्। ततः स पपात पिशाचयोन्यां दुःखसंयुतः ॥२०॥ क्षुधा तृषा समायुक्तः सदा शीतोष्णभावकैः। बभ्राम क्षेत्रमध्ये स पीडितो यत्र तत्र च ॥२१॥ तत्र तं देवदूताश्च दृष्ट्वा स्वनिकटे स्थितम्। तदा दंडादिभिः सर्वे ताडयामासुरोजसा ॥२२॥ वेदशास्त्रध्वनिं श्रुत्वा होमधूमादिकं तथा। पपाल दुःखसंयुक्तो मंत्रशस्त्रभयात् कदा ॥२३॥ त्रीणि वर्षसहस्राणि भुक्त्वा दुःखं ततः परम्। भैरवैश्च समानीतो ननाम नग्नभैरवम् ॥२४॥ शुद्धस्तेन समानीतो गणेशस्यैव मंदिरे। गणे- श्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव ह ॥२५॥ एवं पापप्रचारान् संदंड्य ब्रह्ममयं पुनः। चक्रुः क्षेत्रे मृतत्वात् कथयितुं शक्यते