मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 70, कुल 1023 में से
संदर्भ में पढ़ेंशीर्षक (Header): खं. १ अ. ३१ | पान ७०
कारवानसि ॥ ५० ॥ क्रमेण विष्णुमुख्यांश्च देवान् धृत्वा महाबलः । कैलासशिखरे रम्ये रेमे दैत्यसमन्वितः ॥ ५१ ॥ सर्वपूज्यतमो भूत्वा दैत्यः परमहर्षितः । नानाकौतुकयुक्तश्च भोगांश्च बुभुजे परान् ॥ ५२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते शिवादिपराजयो नाम त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ॥ शृणु दक्ष महाश्चर्यं दैत्यस्य च विचेष्टितम् । ब्रह्मांडाधिपतिर्जातो मत्सरः कर्मणा स्वयम् ॥ १ ॥ सुंदरप्रियपुत्रं च कैलासाधिपतिं ततः । चक्रे वैकुंठनाथं तं पुत्रं स्वं विजयप्रियम् ॥ २ ॥ प्रह्लादं सत्यलोकेशं माहेंद्रेशं विरोचनम् । एवं चक्रे च राजेशः स्वर्गाधीशान् स दैत्यपान् ॥ ३ ॥ स्वयं भूमिं समागम्य नगरं निर्ममे ततः । मत्सरावासकं नाम तत्रैव न्यवसन्मुदा ॥ ४ ॥ त्रैलोक्यं वशगं सर्वं चकार स्वेन तेजसा । शिवाद्यश्च देवेंद्र गृहे तस्य समास्थिताः ॥ ५ ॥ तान् समानाय्य दैत्येशो हर्षयुक्तेन चेतसा । उवाच मधुरं वाक्यं सामयुक्तं महासुरः ॥ ६ ॥ शृणु शंभो महाभाग देवेंद्रैः सह देवप । यत्रेच्छा गच्छ तत्र त्वं मदाज्ञां पालयन् सदा ॥ ७ ॥ एवमुक्त्वा स दैत्येंद्रो मोचयामास शंकरम् । देवैः सह महाभागो मत्सरो हर्षसंयुतः ॥ ८ ॥ शिवोऽपि देवसंघातैः पर्वतद्रोणिमाश्रितः । चिंताविष्टो महादेवः कालं पश्यंश्च संस्थितः ॥ ९ ॥ यत्र तत्र गुहायां ते देवा विष्णुपुरोगमाः । संस्थिता भयभीताश्च दिवसानतिचक्रमुः ॥ १० ॥ पृथिव्यां दैत्यराजेन ततो धर्मस्य खंडनम् । कृतं सर्वत्र तेनैव हाहाकारोऽभवन् महान् ॥ ११ ॥ देवानां प्रतिमा यत्र तां भङ्क्त्वा चिक्षिपुर्जले । दैत्यास्तदाज्ञया दक्ष धर्मलोपं प्रचक्रिरे ॥ १२ ॥ मत्सरस्य च दैतेयाः प्रतिमाः सर्वभावतः । देशे देशे पुरे ग्रामे स्थापयामासुरंजसा ॥ १३ ॥ गृहे गृहे च देवानां प्रतिमां संस्थितां पराम् । तां भङ्क्त्वा जलमध्ये ते चिक्षिपुश्च प्रजापते ॥ १४ ॥ मत्सरप्रतिमां कृत्वा प्रतिगेहं ददुस्ततः । दैत्याः सुदारुणा विश्वं त्रासयामासुरेव च ॥ १५ ॥ ब्राह्मणांश्च समानीय ताडयामास मत्सरः । ममैव मंत्रसूक्तेन यज्ञादि क्रियतां द्विजाः ॥ १६ ॥ मम नाम्ना च गायत्रीं युक्तां जपत मा चिरम् । अग्निहोत्रादिकं कर्म कुरुध्वं मन्मतं तथा ॥ १७ ॥ अहमेवेश्वरो देवो ब्राह्मणादि जनस्य च । भजतां मम पादौ च दुर्लभं किं भविष्यति ॥ १८ ॥ धनधान्यादिकं सर्वं स्वर्गभोगादिसंयुतम् । दास्यामि नात्र संदेहो मदधीनं