मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 71, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ३१ पान ७१
जगत्सदा ॥ १९॥ मम प्रीतिकरा येन दैत्या भोज्यैः प्रपूजिताः । तेन संतर्पितो नूनं वांछितं पूरयाम्यहम् ॥ २० ॥ एवमादि स सर्वत्र नानाधर्मनिकृंतनम् । कारयामास दुर्बुद्धिर्मत्सरो मत्सरान्वितः ॥ २१ ॥ केचिदृषिगणा दक्ष वनं व्याघ्रादिसंयुतम् । जग्मुस्तत्र क्रियाः सर्वाश्चक्रुर्धर्मपरायणाः ॥ २२॥ देहरक्षणसक्ताश्च मुनयो भ्रंशमागताः । सर्ववर्णपरिभ्रष्टा जना जाताः प्रजापते ॥ २३ ॥ यजनं याजनं तत्र स्वधर्मादिस्वभावजम् । कर्म सर्वं न चक्रुस्ते जनास्तद्भयभाविताः ॥ २४ ॥ न स्वाहा न स्वधा कुत्र न वषट्कार आभवत् । वर्णसंकरकृल्लोकाः स्थिता भयसमन्विताः ॥ २५ ॥ एवं पापस्य वृद्धिश्च संजाता भयदायिनी । ततो देवगणाः सर्वे उपोषणनिपीडिताः ॥ २६ ॥ विचारं तत्र चक्रुस्ते मत्सरस्य विनाशने । न च किंचिद्वयोद्विग्ना नाशार्थं शेकुरोजसा ॥ २७ ॥ एतस्मिन्नंतरे तत्र दत्तात्रेयः समाययौ । साक्षाद् ब्रह्ममयो योगी न्यस्तस्वपरविभ्रमः ॥ २८ ॥ मलिनो जडवल्लोके भ्रमति स्म पिशाचवत् । चेष्टितैश्चेष्टते नग्नो बालवद् द्वंद्वकारकः ॥ २९ ॥ उन्मत्तवन्महाभागो भयं नैव प्रविंदति । आत्रेयो गणराजस्य भक्तः परमशोभनः ॥ ३० ॥ तं दृष्ट्वा देवसंघास्ते समुत्तस्थुः सुसादराः । प्रणेमुः कार्यसिद्ध्यर्थं पूजयामासुरंजसा ॥ ३१ ॥ पादसंवाहनं तस्य चक्रुः केचन भावतः । फलादिना च नैवेद्यमर्पयामासुरादरात् ॥३२॥ पप्रच्छुर्भुक्तवंतं तं विनयेन समन्विताः। शंभुविष्णुमुखाः सर्वे भयभीता महामुनिम् ॥३३॥ शिव उवाच । स्वामिंस्त्वं द्वंद्वहीनश्च नित्यमानंदभाक् परः । न्यस्तस्वपरभावश्च तथाऽपि जनवत्सलः ॥ ३४ ॥ गणेशस्य वरो भक्तः साक्षाद्गणपतिः स्वयम् । योगभावेन संपन्नो योगी योगविदां वरः ॥ ३५ ॥ तथापि दुःखितान् दृष्ट्वा मनस्ते कलिलं भवेत् । उपाधिहीनभावेन दुःखनाशं करोषि वै ॥ ३६ ॥ अतो वयं महाभाग पीडिता मत्सरेण वै । भ्रष्टस्थाना वने सर्वे चरामः श्वापदा इव ॥ ३७ ॥ अत्राऽपि धर्मलोपेन पीडिता वयमुत्कटम् । उपोषणपराः स्वामिन् मरिष्यामो महामते ॥ ३८ ॥ अत्र ते दर्शनं प्राप्तं पूर्वपुण्यबलेन भोः । तेन दुःखविहीनाश्च भविष्यामो न संशयः ॥ ३९ ॥ अतो मत्सरदैत्यस्य नाशोपांयं वद प्रभो । येन सर्वं जगत्क्लिष्टं तत् सुखं कुरु मानद ॥ ४० ॥ एकस्य दोषयोगेन बह्वः पीडिता यदि । अनुपाधितया योगी तं दोषं नाशयिष्यति ॥ ४१ ॥ शक्तश्चेत् स्वस्वभावेन सर्वेभ्यः सुखदायकः । अतस्त्वं रक्ष योगीश जगत् कृत्स्नं विशेषतः ॥ ४२ ॥ मुद्गल उवाच । शिवस्य वचनं श्रुत्वा देवान् दीनतमान् परान् । दृष्ट्वा स करुणायुक्तः प्रत्युवाच च हर्षयन् ॥ ४३ ॥ दत्तात्रेय उवाच ।