भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 72, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 72

खं. १ अ. -३२ पान ७२ शृणु शंभो जगन्नाथ त्वं साक्षादीश्वरः शिवः । तवाधीनमिदं सर्वं त्वां ब्रुवे किं महामते ॥ ४४ ॥ तथापि वच्मि देवेश त्वदाज्ञासंप्रचोदितः । येन त्वं देवसंयुक्तः सुखं विंदसि शाश्वतम् ॥ ४५ ॥ त्वदीये हृदये शंभो मत्सरः संस्थितोऽधुना । ईश्वरोऽहमिदं सर्वं मदधीनं प्रवर्तते ॥ ४६ ॥ न मत्समस्त्रिभुवने इति यन् मत्सरः स च । जहि तं योगमार्गेण हृदयस्थं महासुरम् ॥ ४७ ॥ श्रेष्ठं दृष्ट्वा महेर्ष्या ते जायते या महामते । जहि तां तपसा शंभो गणेशस्य प्रसेवया ॥ ४८ ॥ एकाक्षरविधानेन मयाऽसौ सेवितः पुरा । तेनाऽहं च गणाधीशो न भिन्नौ मयि तिष्ठतः ॥ ४९ ॥ अतस्त्वं योगमार्गेण गणेशं सर्वसिद्धिदम् । एकाक्षरविधानेन तमाराधय यत्नतः ॥ ५० ॥ हृदिस्थं मत्सरं हत्वा पश्चात्तं जहि दानवम् । योगेन त्वं समर्थो हि भविताऽसि न संशयः ॥ ५१ ॥ एवमुक्त्वा महादेवं गतोऽसौ मुनिसत्तमः । यदृच्छया चरन् सन् वै सेवते गणनायकम् ॥ ५२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दत्तात्रेयसंगमो नामैकत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ॥ शृणु दक्ष महाप्राज्ञ चेष्टितं परमं महत् । यत्कृतं सर्वदेवैस्तत् कथयामि समासतः ॥१॥ गते मुनौ महाभागे शिवो हर्षसमन्वितः । गणेशं हृदि संचिंत्य ब्रह्मादींश्च वचोऽब्रवीत् ॥ २ ॥ शृणु विष्णो विधे देवाः शृणुध्वं सर्वतापसाः । ऋषयः संस्थिता अत्र वचनं हितकारकम् ॥ ३ ॥ आत्रेयेण च दत्तेनं कथितं दुःखनाशनम् । अतः एकाक्षरेणैव प्रसादयत विघ्नपम् ॥ ४ ॥ शंभोर्वचनमाकर्ण्य मुनयो देवनायकाः । साधुसाध्वब्रुवन् सर्वे प्रसन्नाश्च तथाऽभवन् ॥ ५ ॥ तत एकाक्षरेणैव मंत्रेण गणपं मुने । देवाश्च मुनयः सर्वे सेवयामासुरादरात् ॥ ६ ॥ महोग्रतपसा युक्ताः स्थितास्तत्र शिवादयः । आराधयंस्तु देवेशं गणेशं सर्वनायकम् ॥ ७ ॥ पद्मासनगताः केचिद्वीरासनगताः परे । स्वस्तिकासन आसीना एवं नानासने स्थिताः ॥ ८ ॥ निराहारतया केचित् स्थितास्तत्र प्रजापते । पत्रवायुभुजश्चान्ये प्राणायामपरायणाः ॥ ९ ॥ जलभक्ष्याः स्वपादाग्रस्थिताः केचिद् दृढासनाः । केचिन्मानसपूजाभिः पूजयामासुरंजसा ॥ १० ॥