मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 701, कुल 1023 में से
संदर्भ में पढ़ेंसर्वतीर्थेषु क्षेत्रेषु पापं दुष्टः समाचरेत् । वज्रलेपं तदेवाऽपि कुत्र नाशं गमिष्यति ॥५२॥ पौराणिक उवाच । सप्तपुर्यादिक्षेत्रेषु नरः पापं समाचरेत् । तन् मयूरक्षेत्र एव प्रवेशेन लयं व्रजेत् ॥५३॥ चतुर्विधानि क्षेत्राणि सर्वत्र ब्रह्मगोलके । धर्मार्थकाममोक्षाणां प्रदानि सेवतां द्विज ॥५४॥ पंचमं ब्रह्मभूताख्यं मयूरं नात्र संशयः । तत्र पापं कृतं चेद्वै वज्रलेपतमं भवेत् ॥५५॥ एवं तस्य वचः श्रुत्वा तं प्रणम्य समाययौ । गृहं दारादि संगृह्य मयूरेशं जगाम ह ॥५६॥ यथाविधि चकाराऽसौ यात्रां क्षेत्रसमुद्भवाम् । द्वारादिचिह्नितां सोऽपि निवासमकरोत्ततः ॥५७॥ देवागारं समाश्रित्याऽभजत्तं गणनायकम् । अंते पापविहीनः स ब्रह्मभूतो बभूव ह ॥५८॥ एवं नाना जनास्तत्र पतितानां महेश्वराः। पतिताः पापहीनाः प्रवेशे जाता मयूरके ॥५९॥ अधुना कथयिष्यामि चरित्रं यत् पुरातनम् । श्रुत्वा संशयहीनास्तं मयूरेशं भजंति वै ॥६०॥ वैश्यो धर्मध्वजो नाम द्रव्यलोभी बभूव ह । विषेण पितरं सोऽपि मारयामास लोभतः ॥६१॥ नाना- द्विजादिकान् सोऽपि वंच पूज्यान् दुरात्मवान् । विषेण मारयामास नित्यं द्रव्यार्थमुल्बणः ॥६२॥ स कदाचिद्वणिग्भिश्च क्रयविक्रयकारणात् । जगाम दंडकारण्ये जनैः सह महाखलः ॥६३॥ तत्र माघे महायात्रां जग्मुर्लोका विशेषतः । मयूरेशं ततः सोऽपि तैर्जगाम सुहर्षितः ॥६४॥ द्रव्यलोभार्थमानंदात् पुरं मायूरमाययौ । तत्र प्रवेशमात्रेण तं च पापानि तत्यजुः ॥६५॥ बहिः स्थितानि पश्यंति यदाऽसावागमिष्यति । तदा पुनः प्रवेशं वै करिष्यामो नराधमम् ॥६६॥ तत्र दैव- प्रसंगेन न पापानि चकार ह । यथाविधि तथा यात्रां चक्रे हर्षसमन्वितः ॥६७॥ पुनर्मानवसंघैः स निर्जगाम महेश्वरः । मयूरेशं परित्यज्य मार्गसंस्थो बभूव ह ॥६८॥ तं दृष्ट्वा तस्य पापानि शुद्धं यात्राविधानतः । स्प्रष्टुं तान्यसमर्थानि बभूवु- र्दैवसत्तमाः ॥६९॥ ततः पापानि सर्वाणि विचारं चक्रुरादरात् । अहो यः क्षेत्रगो भूत्वा पापानि कुरुते सदा ॥७०॥ तथाऽस्माभिर्मयूरेश्यं गत्वा पापं करिष्यति । ज्ञातं तेन महाविघ्नैः पीडितो नैव निश्चितम् ॥७१॥ अधुना शुद्धरूपोऽयं बहिः सदा समागतः । अतः पुण्यानि नित्यं तु करिष्यति विशेषतः ॥७२॥ वयं कुत्र गमिष्यामो विघ्नं कुरुत सर्वतः । येनाऽयं पापकर्माऽपि कुरुते पापमल्पकम् ॥७३॥ किंचित् पापयुतं वैश्यं प्रविश्यामो विशेषतः । ततो महाघसंयुक्तं करि- ष्यामो न संशयः ॥७४॥ एवं विचार्य पापानि पापिनां हृदयेषु च । प्रविश्य तान् समानाय्य वैश्यं तं समपीडयन् ॥७५॥ अकस्माच्चौरमुख्यैश्च द्रव्यं तस्य समाहृतम् । तेनातिदुःखयुक्तो हि धर्मध्वजो बभूव ह ॥७६॥ ततः पापेषु दुर्बुद्धिश्चकार