मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 702, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. २२ पान ६१ ह पुनर्मतिम् । एतस्मिन्नंतरे तत्र ब्राह्मणं स ददर्श ह ॥७७॥ तं प्रणम्य स्ववृत्तांतं कथयामास विस्तरात् । श्रुत्वा तं पुन- र्प्याह ब्राह्मणः सर्वमार्गवित् ॥७८॥ त्वया कृतानि पापानि तानि त्वां पीडयंति वै । अतस्त्वं सत्वरो भूत्वा मयूरेशं समाश्रय ॥७९॥ स्वजनैः पुत्रदारादि समानाय्य महामते । तत्रस्थो धर्मसंयुक्तो दुःखहीनो भविष्यसि ॥८०॥ तच्छ्रुत्वा स प्रणम्यादौ तं मयूरेशकं द्विजम् । जगाम त्वरया युक्तस्ततः सर्वान् समानयत् ॥८१॥ मयूरे वैश्यवृत्त्या च धर्मयुक्तः समास्थितः । धर्मध्वजश्चकाराऽसौ गणेशभजनं सदा ॥८२॥ पापानि भोगहीनानि बहिर्मग्नः स्थितान्यपि । धर्मध्वजश्च देवेशा ब्रह्मैवांते बभूव ह ॥८३॥ क्षेत्रं नरेण मायूरं न त्याज्यं तु कदाचन । पीडितेन महादोषैर्मतं तदपि तद्दरम् ॥८४॥ अन्यत्र राज्यभोगस्थोऽथवा स्वर्गस्थ एव सः । मयूरे नीचजातिस्था किंच तेन समो न हि ॥८५॥ आयासेन विहीनत्वाद्व्रह्म- भूतो भवेन्नरः । मयूरे तेन किं तुल्यं भवेद्ब्रह्मांडमंडले ॥८६॥ इदं यः शृणुयाद्देवा श्रावयेद्वा पठेन्नरः । पापहीनः स्वभावेन धर्मयुक्तो भविष्यति ॥८७॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । अथ वक्ष्यामि देवेशा मयूरप्रापकं महत् । पुण्यं चित्तैकभावेन शृणुध्वं सुखदायकम् ॥१॥ कुत्र आंगिरसे जातो देवप्रिय इति श्रुतः । पुरा कल्पे स धर्मात्मा स्वधर्मनिरतोऽभवत् ॥२॥ गणेशे प्रीति- संयुक्तो गाणपत्यप्रियोऽभवत् । मुक्तिमिच्छन् सदा कर्माणि चकार विधानतः ॥३॥ ततस्तस्य महेशाना बुद्धिः प्रादुर्बभूव ह । तया संप्रेरितस्तीर्थानि क्षेत्राणि चकार ह ॥४॥ शास्त्रे विधिं समाश्रित्य पृथिव्यां मुख्यकानि सः । क्षेत्राणि तीर्थमुख्यानि यात्रया चाकरोद् द्विजः ॥५॥ ततः स्वगृहमागत्य दारापत्यैः समन्वितः । गणेशमभजन्नित्यं भक्तियुक्तेन चेतसा ॥६॥ ततश्च मानसे सोऽपि विचारमकरोत् परम् । अहो मयूरपक्षेत्रं सेवनीयं निरंतरम् ॥७॥ ज्ञात्वा द्विजं समुद्युक्तं दारापत्यैः समन्वितम् । माया तं पीडयामास मयूरे वासभंजनात् ॥८॥ यात्रार्थं तेन यत्किंचित् गृहे द्रव्यादि