मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 712, कुल 1023 में से
संदर्भ में पढ़ें[Header] खं. ६ अ. २४ पान ७१
विप्रेश तद्वदस्व सुखप्रदम् ॥२३॥ भृशुंड्युवाच । ब्रह्मा कामं च तं सृष्ट्वा स्थापयामास सर्वपः । दृष्ट्वा कामं स्वयं तत्र विव्हलोऽभूत् पितामहः ॥२४॥ दृष्ट्वा सरस्वतीं वेधाः कामबाणप्रपीडितः । तां गृह्य स्ववशां कृत्वा मैथुनायोद्यतोऽभवत् ॥२५॥ हाहाकाररवा देवी सस्मार गणनायकम् । ततः शांतमना ब्रह्मा ज्ञानयुक्तो बभूव ह ॥२६॥ मुक्त्वा तां गर्हयामास स्वात्मानं काममोहितम् । ततः क्रोधसमायुक्तः शशाप मदनं विधिः ॥२७॥ मां प्रमोहयुतं कृत्वा क्रीडसि त्वं खलाऽधुना । काम शंकरतो वह्नौ नष्टरूपो भविष्यसि ॥२८॥ शप्त्वा कामं विधाताऽसौ ततः सस्मार देवपान् । मुनीन् श्रेष्ठांश्च ते सर्वे समाजग्मुः पितामहम् ॥२९॥ श्रुत्वा वृत्तांतमुग्रं ते शोकयुक्ताः बभूविरे । प्रायश्चित्तार्थमुद्युक्ताः सर्वे देवर्षयस्ततः ॥३०॥ ततस्तीर्थानि सर्वे ते निर्ममुर्दैवतर्षयः । सार्धत्रिकोटिसंज्ञानि स्वस्वतेजोयुतानि वै ॥३१॥ तेषु संमज्जितो ब्रह्मा पवित्रो न बभूव ह । तीर्थराजं तथा सर्वे सस्मरुर्ब्रह्महेतवे ॥३२॥ स वै प्रत्यक्षतां तत्र ययौ सर्वेच्छया परः । ब्रह्मा ममज्ज तत्रापि स्वयं शुद्धोऽभवन्न च ॥३३॥ ततः सूर्यः स्वदेहाद्वै यमुनां निर्ममे पराम् । तस्यां निमज्य धाताऽसौ पवित्रो न बभूव ह ॥३४॥ आदिमाया ततस्तत्र विनिर्ममे सरस्वतीम् । निमज्य तत्र वेधाः सोऽभवन्नैव यथा पुरा ॥३५॥ ततः शिवः स्वयं रेवां निर्ममे तीर्थरूपिणीम् । तथा निमज्य तस्यां स पवित्रो न बभूव ह ॥३६॥ ततो विष्णुः स्वदेहाद्वै निर्ममे पावनाय च । गंगां तस्यां निमज्याऽसौ वेधाः शुद्धोऽभवन्न च ॥३७॥ ततः खेदसमायुक्तो देवेशा मुनिभिः सह । विचार्य त्रिगुणानां तु बीजं तीर्थं प्रतुष्टुवुः ॥३८॥ ततः प्रसन्नभावेन तुरीयं तत्र देवपाः । प्रकटं तेजसा युक्तं बभूव जलमंजसा ॥३९॥ प्रकाशमयतीर्थं तद् दृष्ट्वा देवर्षयोऽमराः । प्रणम्यापूज्य संहर्षादृचुः प्रांजलयोऽभवन् ॥४०॥ सर्वतीर्थमिदं नाम भवतु त्रिजगत्सु ते । पवित्रं कुरु धातारं नमस्ते तीर्थतीर्थेषु ॥४१॥ त्रैगुण्यमयरूपाणि तीर्थानि त्रिजगत्सु तु । त्रिजगत्पावनान्येव भवंते शास्त्रसंमते ॥४२॥ ब्रह्मविष्णुमहेशानां दोषं क्षालयितुं द्रुतम् । न समर्थानि तेभ्यस्तु द्विजैर्जातानि निश्चितम् ॥४३॥ अतस्तुरीयंतीर्थं चास्माभिः संप्राथितं परम् । त्रिगुणानां हितार्थाय पावनाय विशेषतः ॥४४॥ अतो हितं च सर्वेषां कुरु तीर्थोत्तमरूपकम् । एवमुक्त्वा प्रणेमुस्ते सर्वतीर्थं महेश्वराः ॥४५॥ ततः प्रसन्नतां यातं दर्शयामास रूपकम् । विधात्रे तेन निःपापो बभूव प्रपितामहः ॥४६॥ ततस्तीर्थं प्रणम्याऽसौ तुष्टाव सर्वसंयुतः । ततस्तं प्रत्युवाचेदं वचनं तीर्थमुत्तमम् ॥४७॥ सर्वतीर्थमुवाच । वरं वृणु महाभाग तुष्टं दास्यामि वाञ्छितम् । स्तोत्रेण सृष्टिकर्तस्त्वं विधातम विचारय ॥४८॥ ब्रह्मोवाच । वरं ददासि