मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 713, कुल 1023 में से
संदर्भ में पढ़ेंतीर्थं त्वं तदा मे संस्थितं भव। कमंडलौ सदा तेन कृतकृत्योऽस्मि निश्चितम् ॥४९॥ भृशुंड्युवाच। तथेति तमथोक्त्वा तत्तीर्थं तस्य कमंडलौ। जानीत वरदानेन संस्थितं देवनायकाः ॥५०॥ तत्र स्थितं गणेशस्य ध्यानं चक्रे निरंतरम्। सर्वतीर्थ हितार्थाय तस्य सेवार्थमादरात् ॥५१॥ उवाच विघ्नराजं संचिंत्य तीर्थं परं हृदि। दृश्यभावं समासाद्य न ते पादार्चनं कृतम् ॥५२॥ वरदानप्रभावेण ब्रह्मणः सदने प्रभो। स्थितं मां तेऽद्य पादाब्जसमीपस्थं कुरु प्रभो ॥५३॥ पवित्रं तु विधातारं कृत्वा मायूरक्षेत्रगम्। भविष्यामि तदर्थायाकरवं दृश्यभावकम् ॥५४॥ पराधीनतया स्वामिन् किं करोमि गणेश्वर। विघ्नहीनं कुरुष्व त्वं मां भक्तं भक्तवत्सल ॥५५॥ दृश्यभावं समासाद्य मयूरं नावलोकितम्। निरर्थकं जनुस्तस्यात्तस्त्वां संप्रार्थये प्रभो ॥५६॥ एवं नित्यं गणेशानं ध्यात्वा संप्रार्थयत् परम्। स्थापितं सर्वतीर्थं तद्गणेशानेन संनिधौ ॥५७॥ देवेशा ऊचुः। तीर्थराजः प्रयागो यस्तत्र ब्रह्मा बभूव न। पवित्रश्च ततः श्रेष्ठं कथं तीर्थं भवेन् मुने ॥५८॥ कथं राजेति संज्ञा च तस्य शास्त्रे प्रकीर्तिता। एतत् संशयकं छिंधि योगींद्रोऽसि पुरातनः ॥५९॥ भृशुंड्युवाच। यथा देवसमूहानां राजेंद्रः परिकीर्तितः। इंद्रात्तैवापरः श्रेष्ठो देवो भवति कुत्रचित् ॥६०॥ ब्रह्मादयो न देवाश्च गुणाधाराः प्रकीर्तिताः। पूज्यत्वाद्देवसंज्ञास्था भवंते चैकदेशतः ॥६१॥ सार्धत्रिकोटितीर्थानां तथा राजा प्रयागकः। प्रयागान्न परं तीर्थं श्रेष्ठं कुत्राऽपि वर्तते ॥६२॥ गंगायाः सरितस्तद्वद् गुणाधाराः प्रकीर्तिताः। तीर्थसंज्ञा तथा तासामेकलक्षणतो मता ॥६३॥ प्रार्थिते तीर्थराजेन तत्रैकभवकारणात्। गंगायमुनयोर्योगस्तेन संमिलितोऽभवत् ॥६४॥ गंगायमुनयोर्योगे स्नानजं यत् फलं लभेत्। तदेव महिमा तत्र तयोरेव न संशयः ॥६५॥ नर्मदा वरदानेन श्रेष्ठा जाता विशेषतः। गुणरूपा न सा प्रोक्ता जानीत शास्त्रसंमते ॥६६॥ अधुना शृणुत प्राज्ञा प्रकृतं यत् कथानकम्। कमंडलुस्थितत्वात्तन्नाम्ना ब्रह्म- कमंडलुः ॥६७॥ गां गता तेन गंगा सा कमंडलूद्भवा मता। पूर्वगा सा समाख्याता ब्रह्मादीनां सुदुर्लभा ॥६८॥ तस्या मूलस्थितः साक्षाद्ब्रह्मा लोकपितामहः। तस्यां स्नात्वा गणेशानं भजतेऽनन्यचेतसा ॥६९॥ पूर्वं पितामहं तत्र नरः स्नात्वा समर्चयेत्। विद्यायुक्तो भवेत् सद्योऽन्ते परां मुक्तिमाप्नुयात् ॥७०॥ मध्ये शिवस्तथा तस्या मयूरे संस्थितस्ततः। मध्यमेश्वरनामा स भजते गणनायकम् ॥७१॥ मध्यमेश्वरतीर्थे यस्तस्यां स्नानं समाचरेत्। स सामर्थ्यं परं प्राप्यापूज्येशं मुक्तिमाप्नुयात् ॥७२॥ अंते विष्णुः स्थितस्तस्या हृषीकेश इति श्रुतः। स्नात्वा नित्यं गणेशानं भजतेऽनन्यमानसः ॥७३॥