मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 718, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. २५ पान ७७ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 काले राज्ञा ज्ञातं दुरात्मनः । कर्म तं गृह्य तस्यैव द्रव्यं नीतं समग्रकम् ॥८८॥ स्वदेशात्तं बहिः कृत्य राजा धर्मपरायणः । पालयामास लोकान् स सदा नीत्या स्वदेशगान् ॥८९॥ ततोऽयं दंडकारण्य पुत्रदारैर्जगाम ह । तत्रैव रोचयामास वासार्थं ग्राममुत्तमम् ॥९०॥ तादृशीं वृत्तिमास्थाय पुनः पापं चकार ह । एकदा द्रव्यसंयुक्तं वणिजं स ददर्श ह ॥९१॥ अनु तं विषसंयुक्तो जगाम दुष्टधीः खलः । साधुलक्षणसंयुक्तो लोभनाय वणिक्सुतम् ॥९२॥ मार्गे महानदी प्राप्ता सर्वतीर्थमयी परा । तस्यां स्नानं चकारऽसौ वणिजेन समन्वितः ॥९३॥ प्रगच्छंतं ततो मार्गे द्वितीये दिवसे खलः । विषेणामोह्य वणिजं मारयामास तत्क्षणात् ॥९४॥ वणिक्स स्नानपुण्येन शुक्लगत्या महेश्वराः । कमंडलोर्महामोक्षं लेभे क्रमेण निश्चितम् ॥९५॥ धनप्रियो ममारैव कालेन स्वगृहे स्थितः । सोऽपि मोक्षं महादेवा लेभे स्नानप्रभावतः ॥९६॥ अधुनाऽन्यत् प्रवक्ष्यामि चरित्रं च कमंडलोः । स्मरणेन महेशाना महासिद्धिप्रदायकम् ॥९७॥ गुर्जरे वैश्यजः कश्चिद् बभूवे धर्मनामकः । स्वधर्मनिरतो नित्यं चकार कर्म चादरात् ॥९८॥ तेन स्कांदभवं तत्र माहात्म्यं संश्रुतं परम् । कमंडलुप्रभावेण युक्तं स्वयं सुविस्मितः ॥९९॥ मनसा धारयामास धन्येयं सरितांवरा । मया लभ्या यदा देवी तदा मे सफलं जनुः ॥१००॥ धर्मो नित्यं महेशानास्तां सस्मार महानदीम् । तत्र कोऽपि समायातः क्षत्रियो मार्गगः कदा ॥१॥ तेनाऽपि संश्रुतं नाम ब्रह्मकमंडलूद्भवम् । प्रातरुत्थाय स्वस्थानं जगाम क्षत्रियः खलः ॥२॥ ततो बहुौ गते काले धर्मसंज्ञो ममार ह । स्वर्गं गत्वा स विविधान् बुभुजे भोगकान् परान् ॥३॥ पुनश्च ब्राह्मणः सोऽपि बभूवात्रिकुलोद्भवः । शिवदत्त इति ख्यातः सर्व- तीर्थनदीतटे ॥४॥ स्वधर्मनिरतो विप्रो न मुमोच नदीतटम् । तत्र स्नानादिकं सर्वं जलकार्यं चकार ह ॥५॥ पूर्वपुण्यबलेनैवो- त्तमतीर्थस्य सेवनात् । योगी बभूव तत्राऽसौ ममार तु तटे स्थितः ॥६॥ ब्रह्मणि ब्रह्मभूतः स बभूवे देवसत्तमाः । एवं दूरस्थितस्याऽपि स्मरणेन गतिप्रदा ॥७॥ येन श्रुतं महन्नाम सर्वतीर्थस्य देवपाः । क्षत्रियः पापकर्मा स चकार पापमुल्बणम् ॥८॥ मृतं तं यमदूताः संगृह्य संताड्य भानुजम् । प्रणम्य नरके दुष्टं चिक्षिपूंश्च तदाज्ञया ॥९॥ पुनः श्वानो बभूवाऽपि क्षत्रियः पापकारकः । बभ्राम दंडकारण्य आजगाम महानदीम् ॥११०॥ तत्र कीटादिभिः श्वानो मक्षिकाभिः प्रपीडितः । स्नानं चक्रे महानद्यां पूर्वसंस्कारयोगतः ॥११॥ ममार तेन पुण्येन मोक्षं लेभे न संशयः । सकृन्नाम्नः श्रुतस्यैव पुण्येनेदं कृतं महत् ॥१२॥ धन्यास्ता वीरुधो वल्ल्यस्तृणानि वृक्षकादयः । ब्रह्मकमंडलोस्तीरे नान्यत्र राज्यसंयुतः ॥१३॥ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐