मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 719, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. २६ | पान ७८ यस्यास्तीरे मृतो जंतुः शुक्लगत्या गमिष्यति । ब्रह्म राजा मृतोऽन्यत्र जन्मयुक्तो भविष्यति ॥१४॥ एवं सर्वत्र देवेशा ब्रह्मकमंडलुद्भवा । शुभदा पूर्वगा प्रोक्ता मयूरेशपरायणा ॥१५॥ चतुर्मुखे मध्यमेशे हृषीकेशे विशेषदा । सर्वत्र दुर्लभा देवादीनां त्रिषु कमंडलुः ॥१६॥ कोटितीर्थानि मूलेऽस्याः स्थितानि मध्यमे तथा । अंते कोटिश्च सर्वत्र तीरे कोट्यर्थ- मंजसा ॥१७॥ संक्षेपेण मया तस्याश्चरितं कथितं परम् । श्रवणात् पठनाद्देवाः सर्वपापहरं भवेत् ॥१८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्मकमंडलुतीर्थचरितं नाम पंचविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । अधुना यानि मायूरे कमंडलुतटेऽमराः । तीर्थानि तेषु मुख्यानि कथयामि समासतः ॥१॥ मुख्यं गणेशकुंडाख्यं तीर्थमेकं प्रकीर्तितम् । संक्षेपतश्चरितं तु कथितं तस्य देवपाः ॥२॥ अतः परं पंचतीर्थानि शृणुध्वं समासतः । गाणेशं मध्यभागे यद्धनुषां द्विशतात्मकम् ॥३॥ तत्र क्षेत्राणि तीर्थानि देवा मुनिनरादयः । स्नानं कुर्वंति सर्वेऽन्ये नित्यमेकं प्रयत्नतः ॥४॥ उभयोस्तीरगं प्रोक्तं परं ब्रह्म कमंडलोः । तत्र स्नानेन गाणेशा भवंति जंतवः सदा ॥५॥ ततः परं महातीर्थं कापिलं तादृशं मतम् । कमलासुरनाशाय गणेशः कपिलोऽभवन् ॥६॥ हत्वाऽसुरं महावीर्यमजेयं शंकरादिभिः । तन्मस्तकं समाश्रित्य मयूरे संस्थितोऽभवत् ॥७॥ तत्राभिषेकमकरोद्ब्रह्मा मुनिगणान्वितः । कपिलाय गणेशस्य सूक्तै- र्हर्षसमन्वितः ॥८॥ तत्र पंचामृतं नाम बभूव किल पूजनात् । नयास्तेषां च योगेन तत्तीर्थं परमं मतम् ॥९॥ स्नानेन कापिलं तत्र ज्ञानं सांख्यात्मकं लभेत् । कपिलो विष्णुराख्यातोऽभवत्तत्रैव संस्थितः ॥१०॥ ततः परं व्यासतीर्थं सर्वा- ज्ञानविनाशनम् । तावता मानयोगेन ज्ञातव्यं विबुधैः परम् ॥११॥ व्यासेन तत्र देवेशास्तपस्तप्तं सुदारुणम् । शतवर्षे गते चाद्यं ददौ वरं गणेश्वरः ॥१२॥ तेन भारतकं धर्माऽधर्मयुक्तं चकार ह । शास्त्रं ब्रह्मपदं तच्च तयोरैक्ये महेश्वराः ॥१३॥ तत्र स्नानेनैव सद्यो जाड्यभावविवर्जितः । धर्माऽधर्मव्यवस्थां स ज्ञात्वा बोधयुतो भवेत् ॥१४॥ गणेशतीर्थादथ तु पूर्व- भागे समास्थितम् । भीमकुंडं महेशाना भीमेशेन विनिर्मितम् ॥१५॥ तत्र स्थित्वा तपश्चक्रे भीमेशो गणपस्य च ।