मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 739, कुल 1023 में से
संदर्भ में पढ़ेंख. ६ अ. २४ पान ९८ कृपयाऽहं खलोत्तम ॥१६॥ शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । गदया तं जघानैव पातयामास शंकरम् ॥१७॥ शंकरं पतितं दृष्ट्वा चक्रं तत्याज केशवः । कामासुरं समासाद्य निष्फलं तद्बभूव ह ॥१८॥ ततः क्रोधसमायुक्तो धनुः कामः प्रगृह्य च । सज्जं कृत्वा महाबाणान् ववर्ष घनवद् भृशम् ॥१९॥ तैर्बाणैर्देवमुख्याश्च पतिता धरणीतले । छिन्नांगा बलहीनाश्च मुमूर्च्छुस्ते ततः परम् ॥२०॥ ततो बलिमुखाः सर्वे दानवा युद्धदुर्मदाः । देवान् क्रोधसमायुक्ता जघ्नुस्तत्र समंततः ॥२१॥ विष्णुः कामं जघानैव बाणैः परमदारुणैः । सोऽपि तं मूर्च्छितं चक्रे दैतेयो गरुडध्वजम् ॥२२॥ ततो मूर्च्छां परित्यज्य शंकरो युयुधे भृशम् । कामासुरेण दैत्येंद्रस्तं जघानासिघाततः ॥२३॥ तथापि न चचालैव शिवः संहारकारकः । ततो विष्णुः समुत्तस्थौ युयुधे दानवैः सह ॥२४॥ भानुना शरघातेन रावणस्ताडितो भृशम् । दुर्मदश्च तथा दैत्यः पेततुस्तौ धरातले ॥२५॥ विष्णुना चक्रघातेन हतो मूर्च्छामवाप ह । महिषः कुंभकर्णश्च शंकरश्च बलिस्तथा ॥२६॥ ततश्चक्रेण गोविंदो जघान दानवान् परम् । हाहा कृत्वा सुराः सर्वे पलायंत दिशो दश ॥२७॥ तत् दृष्ट्वा परमाश्चर्यं कामासुरः सुविस्मितः । क्रोधयुक्तो महेशानं धृत्वा ह्यास्फालयत्तदा ॥२८॥ विष्णुं धृत्वा प्रचिक्षेप महापर्वतमस्तके । भानुं गृह्य धरायां स पोथयामास दारुणः ॥२९॥ ततो हाहारवं कृत्वा देवाः सर्वे भयातुराः । प्रपप्लुश्छिन्नाभिन्नांगाः कामासुरनिपीडिताः ॥३०॥ दैत्येंद्रस्य बलं दृष्ट्वा हर्षितो विकटः स्वयम् । मूषकोपरि संस्थाय ययौ संग्रामकारणात् ॥३१॥ कामासुरः समालोक्य आगतं तं प्रतापवान् । क्रोधसंरक्तचक्षुः स जगाद भयसंयुतः ॥३२॥ कामासुर उवाच । मयूरेश कथं यातः संग्रामाय मया सह । मूषकोपरि संस्थायाखुतुल्यस्त्वं मतोऽसि मे ॥३३॥ मम पुत्रौ महावीर्यौ गजानन हतौ त्वया । तयोः शोकेन संतप्तो हनिष्यामि समूषकम् ॥३४॥ देवैः संप्रार्थितस्त्वं तु किं करिष्यसि मां वद । मम भ्रूभंगमात्रेण कंपते सचराचरम् ॥३५॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मे गजानन । तैर्युक्तेभ्यो भयं नैव भविष्यति कदाचन ॥३६॥ देहधारी गणाध्यक्ष किं करिष्यसि मूर्खवत् । अज्ञानसंयुतस्त्वं तु मरिष्यसि मदग्रतः ॥३७॥ कामासुरस्य वाक्यं स श्रुत्वा गणपतिः स्वयम् । जगाद हास्यवदनः परं तं गर्वसंयुतम् ॥३८॥ मूर्खोऽसि काम अत्यंतं विकटोऽहं विचारय । जन्ममृत्युविहीनो वै कथं हंसि महाखल ॥३९॥ न सृष्टिस्थितिसंहारकर्ताऽहं दैत्यपुंगव । यदि जीवितुमिच्छा ते तदा मां शरणं व्रज ॥४०॥ नोचेत्त्वां पापकर्माणं हनिष्यामि न संशयः । गर्वं त्यज महामूर्ख ब्रह्माऽहं नात्र संशयः ॥४१॥ शुक्रेण कथितं सर्वं न बुद्धं मूर्ख-