मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
ख. ६ अ. २४ पान ९८ कृपयाऽहं खलोत्तम ॥१६॥ शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । गदया तं जघानैव पातयामास शंकरम् ॥१७॥ शंकरं पतितं दृष्ट्वा चक्रं तत्याज केशवः । कामासुरं समासाद्य निष्फलं तद्बभूव ह ॥१८॥ ततः क्रोधसमायुक्तो धनुः कामः प्रगृह्य च । सज्जं कृत्वा महाबाणान् ववर्ष घनवद् भृशम् ॥१९॥ तैर्बाणैर्देवमुख्याश्च पतिता धरणीतले । छिन्नांगा बलहीनाश्च मुमूर्च्छुस्ते ततः परम् ॥२०॥ ततो बलिमुखाः सर्वे दानवा युद्धदुर्मदाः । देवान् क्रोधसमायुक्ता जघ्नुस्तत्र समंततः ॥२१॥ विष्णुः कामं जघानैव बाणैः परमदारुणैः । सोऽपि तं मूर्च्छितं चक्रे दैतेयो गरुडध्वजम् ॥२२॥ ततो मूर्च्छां परित्यज्य शंकरो युयुधे भृशम् । कामासुरेण दैत्येंद्रस्तं जघानासिघाततः ॥२३॥ तथापि न चचालैव शिवः संहारकारकः । ततो विष्णुः समुत्तस्थौ युयुधे दानवैः सह ॥२४॥ भानुना शरघातेन रावणस्ताडितो भृशम् । दुर्मदश्च तथा दैत्यः पेततुस्तौ धरातले ॥२५॥ विष्णुना चक्रघातेन हतो मूर्च्छामवाप ह । महिषः कुंभकर्णश्च शंकरश्च बलिस्तथा ॥२६॥ ततश्चक्रेण गोविंदो जघान दानवान् परम् । हाहा कृत्वा सुराः सर्वे पलायंत दिशो दश ॥२७॥ तत् दृष्ट्वा परमाश्चर्यं कामासुरः सुविस्मितः । क्रोधयुक्तो महेशानं धृत्वा ह्यास्फालयत्तदा ॥२८॥ विष्णुं धृत्वा प्रचिक्षेप महापर्वतमस्तके । भानुं गृह्य धरायां स पोथयामास दारुणः ॥२९॥ ततो हाहारवं कृत्वा देवाः सर्वे भयातुराः । प्रपप्लुश्छिन्नाभिन्नांगाः कामासुरनिपीडिताः ॥३०॥ दैत्येंद्रस्य बलं दृष्ट्वा हर्षितो विकटः स्वयम् । मूषकोपरि संस्थाय ययौ संग्रामकारणात् ॥३१॥ कामासुरः समालोक्य आगतं तं प्रतापवान् । क्रोधसंरक्तचक्षुः स जगाद भयसंयुतः ॥३२॥ कामासुर उवाच । मयूरेश कथं यातः संग्रामाय मया सह । मूषकोपरि संस्थायाखुतुल्यस्त्वं मतोऽसि मे ॥३३॥ मम पुत्रौ महावीर्यौ गजानन हतौ त्वया । तयोः शोकेन संतप्तो हनिष्यामि समूषकम् ॥३४॥ देवैः संप्रार्थितस्त्वं तु किं करिष्यसि मां वद । मम भ्रूभंगमात्रेण कंपते सचराचरम् ॥३५॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मे गजानन । तैर्युक्तेभ्यो भयं नैव भविष्यति कदाचन ॥३६॥ देहधारी गणाध्यक्ष किं करिष्यसि मूर्खवत् । अज्ञानसंयुतस्त्वं तु मरिष्यसि मदग्रतः ॥३७॥ कामासुरस्य वाक्यं स श्रुत्वा गणपतिः स्वयम् । जगाद हास्यवदनः परं तं गर्वसंयुतम् ॥३८॥ मूर्खोऽसि काम अत्यंतं विकटोऽहं विचारय । जन्ममृत्युविहीनो वै कथं हंसि महाखल ॥३९॥ न सृष्टिस्थितिसंहारकर्ताऽहं दैत्यपुंगव । यदि जीवितुमिच्छा ते तदा मां शरणं व्रज ॥४०॥ नोचेत्त्वां पापकर्माणं हनिष्यामि न संशयः । गर्वं त्यज महामूर्ख ब्रह्माऽहं नात्र संशयः ॥४१॥ शुक्रेण कथितं सर्वं न बुद्धं मूर्ख-
यहाँ प्रस्तुत पृष्ठ का सटीक लिप्यंतरण (Transcription) दिया गया है:
खं. ६ अ. ३५ पान ९९
भावतः । स्वरूपं मे त्वया दृष्टाधुनापि शरणं व्रज ॥४२॥ विकटस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह । कामासुरश्च तं हंतुं गदां चिक्षेप दारुणाम् ॥४३॥ सा गदा निष्फला तत्र पपात धरणीतले । अकस्माद्दैत्यराजस्तु मूर्च्छितः प्रबभूव ह ॥४४॥ प्रहरेण महाक्रूरः सावधानो बभूव ह । अशक्तः सर्वदेहे स पीडां लेभेऽतिदारुणाम् ॥४५॥ ततो मनसि संधार्य विचारमकरोत् खलः । अहो शस्त्रं विना मां स जघान विकटः कथम् ॥ ४६॥ शक्तिहीनोऽहमत्यंतं कथं युद्धं करोमि वै । शुक्रेण कथितं सत्यं ब्रह्माकारोऽयमुच्यते ॥४७॥ तथापि देवपक्षस्य धारकोऽयं कथं भवेत् । अतः संशयसंयुक्तः शरणं न व्रजाम्यहम् ॥४८॥ मरिष्यामि न संदेहस्तदेव कीर्तिवर्धनम् । शत्रूणां शरणं चैव न योग्यं भासते हृदि ॥४९॥ अतोऽहं विकटं गत्वा करोमि प्रश्नमद्भुतम् । देवपक्षविहीनश्चेद्व्रजामि शरणं च तम् ॥५०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ❖❖❖ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततः कामासुरो दैत्यैर्जगाम द्विरदाननम् । जगाद भयसंयुक्तो वचनं हितकार- कम् ॥१॥ कामासुर उवाच । ब्रह्म त्वं विकट प्राज्ञ देव साहाय्यकृत् कथम् । सुरासुरमयं तद्वै कथमेकगुणाश्रितम् ॥२॥ विकटस्त्वं कथं वेदे कीदृशं ब्रह्म तस्य तु । जन्मादिहीनभावश्चेत् कथं देहप्रधारकः ॥३॥ वद सर्वं विशेषेण त्वां ज्ञास्यामि यथार्थतः । तदा ते शरणं नाथाऽऽगमिष्यामि न संशयः ॥४॥ विकट उवाच । माया नानाविधा दैत्य सा खेलति मया धृता । भेदान् कृत्वा तदाधारान् मयूरेशं वदंति माम् ॥५॥ मायाशब्दं मयूराख्यं वदंते तत्त्वदर्शिनः । तस्याः स्वामिनमेवं मां मयूरेशं विलोकय ॥६॥ नानाभेदयुतं ब्रह्मासद्रूपं कथ्यते बुधैः । उत्पत्तिस्थितिसंहारसाक्षिरूपप्रदर्शनात् ॥७॥ तन्नामृत- मयं ब्रह्म सदा भेदविवर्जितम् । तदेव विकटं तस्मात् सत्यं जानीहि मां परम् ॥८॥ सदाऽखंडमये दैत्य कुत्र ब्रह्मणि वर्तते । सृष्टिस्थितिलयत्वं च साक्षिरूपं वदस्व माम् ॥९॥ चतुर्भिर्वर्जितं ब्रह्म चतुर्युक्तं महामते । तत्र नैव विजानीहि विकटेऽमृतसंज्ञिते ॥१०॥ सर्वेषां जीवनं ब्रह्म तदेव विकटं मतम् । तं भजस्व विधानेन मृत्युहीनो भविष्यसि ॥११॥
पान १०० सिद्धिर्भ्रांतिकरी प्रोक्ता बुद्धिर्भ्रांतिधरा मता । तयोः स्वामी गणेशश्च विचारय हृदि स्थितः ॥१२॥ चित्तं पंचविधं दैत्य तत्र भ्रांतिश्च पंचधा । भ्रांतियुक्तं महच्चित्तं त्यक्त्वा चिंतामणिं भज ॥१३॥ सर्वेषां चित्तगोऽहं तु मत्प्राप्त्यर्थं महामते । देहधारी स्वयं भूत्वा भक्तान् शांतिं ददाम्यहम् ॥१४॥ संप्रज्ञातो नराकारो संप्रज्ञातात्मकं शिरः । तयोर्योगेऽभवं देह- धारी गजं विचारय ॥१५॥ अतोऽहं गजवक्त्रश्च दर्शनं मे सुयोगिनाम् । स्वसंवेद्यं भवेन्नूनं तेन स्वानंदवासकृत् ॥१६॥ मायाक्रीडार्थमानंदाद्रचितं विविधं पुरा । स्वस्वधर्मयुतं विश्वं चित्ते तिष्ठामि नित्यदा ॥१७॥ देवासुरमयोऽहं तु न भिन्नं मे प्रवर्तते । तथापि धर्मरक्षार्थं हन्मि सर्वान्न संशयः ॥१८॥ स्वर्गेषु स्थापिता देवा नराः पृथ्व्यां मया तथा । असुरा विवरेष्वेवं त्रिविधं त्रिषु संस्थितम् ॥१९॥ यदा लोभयुता देवाः पातालस्थान् महासुरान् । हंतुं विष्णुमुखाः क्रोधाद् बभूवुश्चोत्सुका बलात् ॥२०॥ तदा क्रोधयुतोऽहं तु दैत्यानां हृदि संस्थितः । तपःसामर्थ्यसंयुक्तान् करोमि दानवान् परान् ॥२१॥ विघ्नकर्ताऽमराणां वै दैत्यानां विघ्नहारकः । भवामि तेन दैत्येंद्रा जययुक्ताः सदाऽभवन् ॥२२॥ असुरैर्हन्य- मानाश्च देवेंद्रा वनवासिनः । बभूवुः काम जानीहि संशयो न मदिच्छया ॥२३॥ यदा दैत्या महादुष्टा मदयुक्ता बभूविरे । कर्मनाशप्रभावेण देवानां मूलछेदकाः ॥२४॥ तदा देवाः समर्थांश्च प्रजघ्नुर्दैत्यनायकान् । दैत्यानां छिद्रकं सर्वं दर्शयामि हृदि स्थितः ॥२५॥ ब्रह्मादीनामवध्याश्चेद्यदा दैत्या भवंति च । तदाऽहं देहधारी तान् भूत्वा हन्मि विशेषतः ॥२६॥ यदा स्वधर्मसंयुक्ता देवा दैत्या बभूविरे । तदा तेषां हृदि स्थित्वा तिष्ठाम्यसुर सर्वदा ॥२७॥ त्वया देवगणाः सर्वे पीडिता धर्मलोपक । अतस्त्वां हंतुमायातो देवपक्षधरो ह्यहम् ॥२८॥ हनिष्यामि महादुष्ट यदि मामवमन्यसे । जीवितुं त्वं सुखी देव वैरं त्यक्त्वा भवेच्छसि ॥२९॥ एवमुक्त्वा महादैत्यं विकटो विरराम ह । कामासुरः प्रसन्नात्मा बभूवे भावि- गौरवात् ॥३०॥ विचारमकरोचित्ते विकटोऽयं न संशयः । सुरासुरमयः पूर्णो व्रजामि शरणं ततः ॥३१॥ कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः । विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥३२॥ प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् । तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥३३॥ कामासुर उवाच । नमस्ते विकटायैव गणेशाय परात्मने । सर्वपूज्याय सर्वेश देवासुरमयाय च ॥३४॥ अनंतमाययायुक्त ब्रह्मभूतस्वरूपिणे । गजाननाय हेरंब देवेशाय नमो नमः ॥३५॥ शूर्प- कर्णाय विघ्नानां चालकाय नमो नमः । भक्तानां विघ्नहर्त्रे ते ह्यभक्तानां विनाशिने ॥३६॥ स्वानंदवासिने तुभ्यं योगाकार-
ख. ६ अ. ३५ पान १०१ स्वरूपिणे । योगिभ्यः शांतिदात्रे ते योगेशाय नमो नमः ॥३७॥ अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे । ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥३८॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥३९॥ त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च । लंबोदराय ब्रह्मेश ब्रह्मणां पतये नमः ॥४०॥ देवानां पालकायैव दैत्येभ्यो वरदायिने । सर्वेषां समभावाय ढुंढिराजाय ते नमः ॥४१॥ विष्णपुत्राय शंभोश्च शक्तेः पुत्राय काश्यप । वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥४२॥ किं स्तौमि त्वां गणाधीश यत्र योगींद्रमुख्यकाः । वेदादयो विशेषेण शांतिं प्राप्ताः स्वभा- वतः ॥४३॥ मायासखं विशेषेण भ्रांतिदं सर्वजंतवे । त्यक्त्वा तल्लभ्यसे नाथ भक्त्या विकटया प्रभो ॥४४॥ अशांतं मायया युक्तं चित्तं भ्रांतियुतं सदा । विकटे शांतिमापन्नमतस्त्वं विकटो मतः ॥४५॥ एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमो- ऽभवत् । कामासुरो ननर्ताऽसौ रुद्धकंठो महायशाः ॥४६॥ भक्तियुक्तं मनस्तस्य दृष्ट्वा तं विकटोऽवदत् । वरं वरय काम त्वं दास्यामि मनसीप्सितम् ॥४७॥ त्वां हंतुं क्रोधयुक्तोऽहं समागतो न संशयः । अधुना न हनिष्यामि शरणागतमाद- रात् ॥४८॥ त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् । शृण्वते पठते चैवांते स्वानंदप्रदायकम् ॥४९॥ एवं गणपतेर्वाक्यं श्रुत्वा कामासुरश्च तम् । प्रणम्य हर्षसंयुक्तो जगाद द्विरदाननम् ॥५०॥ कामासुर उवाच । प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि स्थानादिकं देव भजामि तत्र संस्थितः ॥५१॥ गाणपत्यप्रियत्वं मे देहि नित्यं गजानन । नान्यद्याचे परं किंचिन्नश्वरं सर्वमंजसा ॥५२॥ अहो योगींद्रमुख्यानां दुर्लभं ते पदं प्रभो । साक्षाद् दृष्टोऽसि विघ्नेश तेन ज्ञातं मयाऽधुना ॥५३॥ तस्य तद्वचनं श्रुत्वा विकटो भक्तवत्सलः । उवाच तं महाभक्तं कामं गणेशकामुकम् ॥५४॥ विकट उवाच । मदीया भक्तिरुग्रा ते भविष्यति महासुर । गाणपत्यप्रियत्वं तु सदा योगपरायणः ॥५५॥ तिष्ठ स्थाने स्वके दैत्य यथा पूर्वं तथा भव । मदीयस्मरणं नैव पूजनं यत्र कर्मणि ॥५६॥ आदौ तत्रासुरेणैव फलं भुंक्ष्व सुकर्मजम् । मदीयभक्ति- संयुक्तान् कुरु मत् कामसंयुतान् ॥५७॥ तथेति गणपं नत्वा सुरः कामो महायशाः । स्वस्थानं स जगामैव गणेशे भक्तिकामुकः ॥५८॥ तं शांतं दैत्यमुख्याश्च दृष्ट्वा महिषकादयः । स्वस्वस्थानं ययुः सर्वे त्यक्त्वा कामासुरं किल ॥५९॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरशांतिवर्णनं नाम पंचत्रिंशत्तमोऽध्यायः ॥
खं. ६ अ. ३६ पान १०२ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कामासुरं महाशांतियुतं दृष्ट्वा सुरर्षयः । विस्मिता विकटं पूज्य तुष्टुवुः करसंपुटाः ॥१॥ देवर्षय ऊचुः । अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् । असद्विहीनं विविधांतरस्थं भजामहे तं विकटं परेशम् ॥२॥ अनादिमध्यांतविवर्जितं यत् सुजीवनं जीवनधर्मधारम् । सदामृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥३॥ त्वयैव माया रचिता खबिंबात् स्वयं दधौ जीवनबिंबवीर्यम् । बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥४॥ तथा ह्यसद्रूपमयं च सांख्यं कृतं तथा ब्रह्म सुबोधरूपम् । अनंतभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥५॥ ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् । जगद्दूरं बिंदुमयं तथा वै भजामहे तं विकटं परेशम् ॥६॥ जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् । अजेषु संजीवनदं गणेशं भजामहे तं विकटं परेशम् ॥७॥ ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ । अनंतलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥८॥ अजैर्विहीनोऽसि गजानन त्वं तथाऽपि सर्वत्र विभासि भक्त्या । अतो गणेशं विकटं वदंति भजामहे तं विकटं परेशम् ॥९॥ हरिस্বরূপेण विनायक त्वं सुरक्षसीदं रजसा विधाता । तथा तमोधुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥१०॥ प्रसृष्टकर्माणि तदंतरस्थोर्यमाऽसि संजीवनरूपकेण । क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥११॥ सदात्मरूपेण च ढुंढिराज स्थितोऽसि विश्वंभर विश्वमूर्ते । न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥१२॥ सदादिपूज्यं सकलैः सुवंद्यं गणेशसिद्धिप्रदमासमंतात् । सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥१३॥ स्वानंदनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् । महोदरं चैकरदं विभ्रूपं भजामहे तं विकटं परेशम् ॥१४॥ स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च । अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥१५॥ नियंतुरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसु प्रभो । महांकुशं ह्यंकुशधारमेकं भजामहे तं विकटं परेशम् ॥१६॥ अमात्मकं बंधनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् । स्वभक्तिकृद्बंधनहानिकारं भजामहे तं विकटं परेशम् ॥१७॥ त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च । प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥१८॥ निजामृतं विप्रपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् । सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥१९॥ असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशांतिसंस्थम् । अतो वदंते विकटं जनास्त्वां भजामहे तं विकटं
खं. ६ अ. ३६ पान १०३ परेशम् ॥२०॥ वयं स्तुवीमोऽल्पसुबोधगाः किं प्रभुं न शक्यं निगमादिभिश्च । शुकादिभिस्तोतुमपारगं यं भजामहे तं विकटं परेशम् ॥२१॥ तथापि ते दर्शनजेन नाथ बोधेन ब्रह्मेश सुसंस्तुतोऽसि । अतः प्रतुष्टो भव दीनपाल भजामहे तं विकटं परेशम् ॥२२॥ आदिशक्तिरुवाच । एवं स्तुत्वा महादेव्यो विकटं त्वमर्षयः । प्रणेमुर्दंडवत् सर्वे ततश्च ननृतुः पुरः ॥२३॥ स तानुवाच सर्वेशो विकटो भक्तियंत्रितः । देवर्षीन् भक्तिसंयुक्तान् भक्तवात्सल्यवान् प्रभुः ॥२४॥ विकट उवाच । वरान् ब्रूत महाभागा देवा मुनिसमन्विताः । दास्यामि भक्तियुक्तेभ्यो भृशं स्तोत्रेण तोषितः ॥२५॥ इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् । भविष्यति जनायैव पठते शृण्वते परम् ॥२६॥ भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादि- वर्धनम् । धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः ॥२७॥ षट्कर्मसाधनकरं परकृत्यविनाशनम् । नानारोगहरं पूर्णं भविष्यति सुसेविनाम् ॥२८॥ कारागृहगतानां च बंधमोक्षकरं भवेत् । सहस्रावर्तनेनैव सदा सौभाग्यवर्धनम् ॥२९॥ नानापापसमूहानां दाहकं पठनात्तथा । सर्वसिद्धिकरं चैव भविष्यति न संशयः ॥३०॥ एकविंशतिवारं यः पठिष्यति निरंतरम् । स सर्वं साधयेत् सद्यो दिनानामेकविंशतिम् ॥३१॥ एवं विकटवाक्यं ते श्रुत्वा देवर्षिसत्तमाः । जगुस्तं प्रणिपत्यैव भक्तियुक्ताश्च शक्तयः ॥३२॥ देवर्षय ऊचुः । कामासुरं महावीर्यं शांत्या युक्तं गजानन । दृष्ट्वा सर्वे च संतुष्टा भवामो नात्र संशयः ॥३३॥ अधुना कर्मसंयुक्ता भविष्यंति द्विजादयः । देवाः स्वपदसंस्थास्तु स्वधर्मयुता जनाः ॥३४॥ जातं वरस्य कृत्यं यदधुना किं वृणीमहे । तव भक्तिं स्थिरां देहि यथा कामभयं न हि ॥३५॥ तथेति तानुवाचैव विकटों- ऽतर्दधे ततः । देवर्षयोऽभवंस्तत्र स्थिताः खेदसमन्विताः ॥३६॥ ततो मुनिगणैः सार्धं विकटं देवसत्तमाः । स्थापयामासु- रानंददायकं भक्तिकारिणे ॥३७॥ हिमाचलस्य प्रांते तत् स्थानं वायुदिशि स्थितम् । विकटस्य महादेव्यः सर्वसिद्धि- प्रदायकम् ॥३८॥ मूर्ति देवर्षयः पूज्य विकटस्य महात्मनः । गत्वा स्वखपदेष्वेते पुनः क्षेत्रं समाययुः ॥३९॥ अंशेन स्वाधिकारेषु स्थिता देवर्षयो मताः । विकटं पूर्णभावेनाभजंस्ते क्षेत्रवासिनः ॥४०॥ चतुरस्रं महत् क्षेत्रं दशयोजन- विस्तृतम् । तत्र मध्ये स्वयं साक्षाद्विकटः संस्थितोऽभवत् ॥४१॥ चतुर्दिक्षु चतुर्देवाः शंभुमुख्याः स्थितास्ततः । अन्ये देवा वामभागे दक्षिणे मुनयस्तथा ॥४२॥ तीर्थानि क्षेत्रयुक्तानि पश्चिमे संस्थितानि च । पुरो भक्तजनास्तत्र सेवार्थं संस्थिता बभुः ॥४३॥ मूषको विकटस्यैव समीपे स्थापितोऽभवत् । वामांगे संस्थिता सिद्धिर्बुद्धिर्वै दक्षिणांगके ॥४४॥ ब्रह्मप्रिया-
दिकास्तत्र गणाः सर्वत्र संस्थिताः । शस्त्रहस्ता भजंते स्म विकटं विकटप्रियाः ॥४५॥ तत्र विकटतीर्थं तु विख्यातमभवत् परम् । जंतुः स्नानेन सद्यश्च स्वेप्सितं लभते परम् ॥४६॥ अंते मुक्तिमवाप्नोति स्वानंदे नात्र संशयः । विकटस्य प्रियं पूर्णं तीर्थं त्रैलोक्यविश्रुतम् ॥४७॥ अन्यानि तीर्थमुख्यानि देवर्षीणां समंततः । स्थितानि विकटक्षेत्रे स्नानेन सुखदानि तु ॥४८॥ अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवंति चेत् । विकटस्य च ते तस्य लोकं गच्छंति निश्चितम् ॥४९॥ तत्र भोगान् प्रभुक्त्वा ते लये स्वानंदगामिनः । विकटदर्शनेनैव ब्रह्मभूता बभूविरे ॥५०॥ क्षेत्रस्य यात्रामात्रेणेप्सितं सर्वं लभेन्नरः । दर्शनेन तथा तस्य विकटस्य न संशयः ॥५१॥ विकटस्य च ये भक्ता यत्र कुत्र मृता यदि । ब्रह्मभूता न संदेहो बभूवुः शास्त्रसंमतम् ॥५२॥ भाद्रशुक्लचतुर्थ्यां तु सा मूर्तिः स्थापिताऽभवत् । विकटस्य ततो मुख्या सा बभूव तिथिः परा ॥५३॥ भाद्रशुक्लचतुर्थ्यां तु महोत्सवः प्रकीर्तितः । वार्षिकस्तत्र कुर्वंति देवाद्या भक्तिसंयुताः ॥५४॥ मध्याह्ने पूजनं प्रोक्तं सर्वसिद्धिप्रदायकम् । स्वल्पसिद्धिदमाद्यं ते ज्ञातव्यं शास्त्रमार्गतः ॥५५॥ धन्यास्ते पुरुषा लोके पश्यंति विकटं परम् । कृतकृत्या महादेव्यो मता वेदेषु नित्यदा ॥५६॥ तत्र देवर्षयो नानाऽन्ये क्षेत्रे वासकारकाः । भजंते विकटं नित्यं हर्षयुक्ताः स्वभावतः ॥५७॥ विकटस्य चरित्राणि कथयंति परस्परम् । साश्रुनेत्राः स रोमांचा भवंते भक्तिभावतः ॥५८॥ नरदेहं समासाद्य न दृष्टो विकटो जनैः । निष्फलं जीवितं तेषां पशुतुल्यस्वभाविनाम् ॥५९॥ एतत् संक्षेपतः प्रोक्तं माहात्म्यं क्षेत्रसंभवम् । विस्तरेणायुतैर्वर्षैर्न समर्थो भवाम्यहम् ॥६०॥ अन्ये देवमुखा देव्यो योगिनो वेदमुख्यकाः । न समर्था वर्णयितुं भवंते वर्षकोटिभिः ॥६१॥ एवं नानाऽवतारान् स धृत्वा धर्मधरः प्रभुः । विकटः कलया देव्यो रक्षति स्म चराचरम् ॥६२॥ एतद्विकटमाहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा स लभेत् सर्वमंते ब्रह्ममयो भवेत् ॥६३॥ न कामस्य भयं तस्य भवेद्वैव्यः कदाचन । कामहीनः स्वभावेन लभेत् कामान् विशेषतः ॥६४॥ एवं कामं निगृह्यैव स्ववशं तं चकार ह । विकटस्तत् समाख्यातं किं भूयः श्रोतुमिच्छथ ॥६५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ॥
[header] खं. ६ अ. ३७ | पान १०५ [/header]
॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । विकटस्य च माहात्म्यं श्रुत्वा शक्ते वयं परम् । हर्षं प्राप्ता विशेषेण योगामृतमयं किल ॥१॥ तथापि देवि तृप्तिं न प्रयामो रसवर्धिनीम् । कथां श्रुत्वा पुनस्तां च वद विघ्नेश्वरीं पराम् ॥२॥ विकटेन जगन्मातरवतारा धृताः परे । तेषां संक्षेपतो ब्रूहि चरित्रमवतारजम् ॥३॥ आदिशक्तिरुवाच । गंडकी नगरीपालश्चक्रपाणि- र्नृपोऽभवत् । उग्रा पत्नी च तस्यासीत् पातिव्रत्यगुणान्विता ॥४॥ धर्मशीलो वदान्यश्च राजा नीतिपरायणः । देवविप्रा- तिथिप्रेप्सुः पंचयज्ञकरोऽभवत् ॥५॥ जित्वा भूमंडलं सर्वं चकार वशवर्तिनम् । संपत्तिं बुभुजे सोऽपि देवमान्यां विशेषतः ॥६॥ अपत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् । वांध्यदोषसमायुक्तौ दंपती संबभूवतुः ॥७॥ तदर्थं व्रतदानादींश्चकार विधिसंयुतः । तथापि संततिं राजा न प्राप परमेश्वरात् ॥८॥ ततो राज्यममात्येषु निक्षिप्याऽभवदुद्यतः । वनं गंतुं महादेव्यः सस्त्रीकः शोकसंयुतः ॥९॥ एतस्मिन्नंतरे तत्र शौनको मुनिसत्तमः । यहच्छया ययौ योगी तं नृपं विचरन् परः ॥१०॥ भानोस्तेनोपदिष्टं स व्रतं चक्रे नराधिपः । तुष्टस्तेन रविः स्वप्ने राज्ञ्यां गर्भ समादधे ॥११॥ सूर्यतेजोयुतं गर्भं न क्षमा संबभूव ह । धर्तुं दाहयुतोग्रा सा समुद्रे तं ततोऽत्यजत् ॥१२॥ तत्र पुत्रो बभूवापि त्रिनेत्रश्चक्रधारकः । जलं संशोषयामास समुद्रस्य विशेषतः ॥१३॥ ततो ब्राह्मणरूपेण चक्रपाणि समाययौ । समुद्रः कथयामास वृत्तांतं पुत्रसंभवम् ॥१४॥ दत्वा पुत्रं समुद्रस्त्वंतर्दधे हर्षितोऽभवत् । नृपः सर्वजनैः सार्धं जातकर्मऽकरोद् द्विजैः ॥१५॥ सिंधुर्नाम्ना द्विजैः पुत्रः कृतस्तस्य विशेषतः । अपारवीर्ययुक्तत्वात् सोऽपि बलयुतोऽभवत् ॥१६॥ आज्ञां गृह्य वनायैव तपोऽर्थं मार्गमध्यगः । काण्वः सौरं ददौ मंत्रं विधियुक्तं तु सिंधवे ॥१७॥ एकपादमधिष्ठाय तताप तप उत्तमम् । निराहारः स्वभावेन तोषयामास काश्यपम् ॥१८॥ द्विसहस्रे तु वर्षेषु सविता वरदोऽभवत् । त्रैलोक्यविभवं तस्मै ददावमृतपानकम् ॥१९॥ त्रिगुणैर्हीनभावेन तिष्ठति ब्रह्मशास्त्रगम् । देहं धृत्वाऽमृतं सोऽपि निष्काश्य त्वां हनिष्यति ॥२०॥ एवमुक्त्वा स्वभक्तं तु सवितांतर्दधे तदा । हर्षयुक्तः स्वयं सिंधुः स्वगृहं प्रत्यपद्यत ॥२१॥ पितृभ्यां मानितोऽत्यंतं शुशुभे तेजसा युतः । तस्मै राज्यं ददौ राजा सस्त्रीको वनगोऽभवत् ॥२२॥ ततः सिंधुर्धरां जिग्ये सप्तद्वीपवतीं पराम् । वरदानबलेनैवं ज्ञात्वा दैत्यास्तमाययुः ॥२३॥ शुंभोतिशुंभभ्रातृत्तौ च कमलः शंख एव च । कोलासुरादयश्चान्ये तदाज्ञागा बभूविरे ॥२४॥ तैर्युतो देवराजेंद्रान् जिग्ये शंभुमुखान् किल । पपाल शंकरः सद्यस्त्यक्त्वा कैलासमात्मनः ॥२५॥ विष्णुं सूर्य विधींद्रादीन्
खं. ६ अ. ३७ पान १०६ संगृह्य स्वपुरं ययौ । कारागारे स चिक्षेप देवेन्द्रान् बलसंयुतः ॥२६॥ एवं जित्वा त्रिलोकान् स राज्यं चक्रे महासुरः । दैत्येन्द्रान् स्थापयामास देवस्थानेषु सर्वतः ॥२७॥ ततो बहुगते काले क्रोधयुक्तो महासुरः । देवतीर्थादिकान् भङ्क्त्वा दैत्यः कर्म त्वलोपयत् ॥२८॥ स्वकीयां प्रतिमां कृत्वा स्थापयद्भूमिमंडले । देशे देशे पुरे ग्रामे पूजयत्तां स मानवैः ॥२९॥ ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः । स्वाहा स्वधादिकं कर्म नष्टं सर्वत्र शक्तयः ॥३०॥ अधुना तद्वधोपायं वदामि शृणुत प्रियाः । शंकरो गणसंयुक्तस्त्रिसंध्याक्षेत्रमागमत् ॥३१॥ गौतमाद्यैर्युतस्तत्र वासं सस्त्रीक आकरोत् । ध्यानमास्थाय विघ्नेशमभजद्भक्तिसंयुतः ॥३२॥ एकदा संशयाविष्टा पार्वती तं प्रणम्य च । जगाद शंकरं देव्यो विनयेन समन्विता ॥३३॥ पार्वत्युवाच । ईशस्त्वं सर्वदेवानां तेनेशो विद्यते न च । तेनेशो वेदवादेषु कथितोऽसि महेश्वर ॥३४॥ तथापि ध्यानसंयुक्तो भजसे कं विशेषतः । वद मां पादपद्मस्य दासीं संशयसंयुताम् ॥३५॥ शिव उवाच । अनीशाश्चैव देवेशि ईशा येन विनिर्मिताः । तं गणेशं भजाम्येव भक्त्या ब्रह्मपतिं सदा ॥३६॥ अनीशश्च गकारो णकार ईशमयः स्मृतः । तयोः स्वामी गणेशानः पश्य वेदे शुचिस्मिते ॥३७॥ तस्य तद्वचनं श्रुत्वा पार्वती विनयान्विता । जगाद तस्य प्राप्त्यर्थं वचनं शंकरं प्रति ॥३८॥ पार्वत्युवाच । एतादृशं गणेशं चेन्न जानामि कदाचन । प्राप्त्यर्थं वद मुख्यं मे चोपायं साधयाम्यहम् ॥३९॥ शिव उवाच । एकाक्षरं गृहाण त्वं सविधिं च तपः कुरु । ध्यात्वा गजाननं देवं ततः सिद्धिमवाप्स्यसि ॥४०॥ एवमुक्त्वा ददौ तस्यै मंत्रं गणपतेः परम् । तं प्रणम्य ययौ देवी लेखनाद्रिं मनोहरम् ॥४१॥ अवायुभक्षणेनैव तपसा ध्यानशालिना । तया संराधितो ढुंढिर्वरदश्च बभूव ह ॥४२॥ ययौ वर्षशते देवीं वरं याचेति सोऽब्रवीत् । तया संयाचितो देव्या पुत्रो मे भव विघ्नप ॥४३॥ तत्र ते सेवनं नाथ करिष्यामि विशेषतः । माता पिता भविष्यावो बंधहीनौ सुते त्वयि ॥४४॥ तथेति पार्वतीं दत्वा वरं सोऽन्तर्हितोऽभवत् । देवी विघ्नेश्वरं तत्र स्थापयामास विप्रपैः ॥४५॥ पूजयित्वा गणेशानं ययौ सा शंकरं ततः । वृत्तांतं कथयामास सोऽपि संहर्षितोऽभवत् ॥४६॥ ततः सा तन्मना जाता सस्मार वरदं प्रभुम् । सर्वत्र गणराजं तं ददर्श भाग्यगौरवात् ॥४७॥ ततो भाद्रपदे मासि कृत्वा मूर्तिं पुपूज ह । शंकरेण युता देवी मध्याह्ने शुक्लपक्षगे ॥४८॥ चतुर्थ्यां सोमवारे तु स्वातीनक्षत्रसंयुते । सचेतनाऽभवन् मूर्तिर्विकटस्य वरप्रदा ॥४९॥ तेजसा धर्षितौ देवौ किंचित् द्रष्टुं न शेकतुः । स्तुतस्ताभ्यां ततः सौम्यतेजोयुक्तो बभूव ह ॥५०॥ शिवो ददर्श तं तत्र षड्भुजं
खं. ६ अ. ३८ पान १०७ शशिसन्निभम् । जातकर्मादिकं सर्वं चक्रतुर्ब्राह्मणैः परौ ॥२१॥ एकादशदिने नाम गुणेश इति चक्रिरे । द्विजाः शिवौ हर्षयुक्तौ पूजयामासतुर्द्विजान् ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे विकटचरिते गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततः सिंधुचरास्तत्र गुप्तरूपेण संस्थिताः । ज्ञात्वा संकथयामासुर्वृत्तांतं सिंधवे परम् ॥१॥ एतस्मिन्नंतरे वाणी बभूवे तत्र शक्तयः । अशरीरा च तां सिंधुं शुश्राव भयदायिनीम् ॥२॥ अयं वै दैत्यनाथाशु त्वां हनिष्यति वेगतः । स्वस्वधर्मयुतं सर्वं करिष्यति चराचरम् ॥३॥ श्रुत्वा संमूर्च्छितो दैत्यः सावधानो बभूव ह । मुहूर्तेन महायत्नैस्ततः शुशोच मंदधीः ॥४॥ तं हंतुं प्रेषयामास दैत्येंद्रान् दैत्यनायकः । गुप्तरूपेण ते सर्वे त्रिसंध्या- क्षेत्रमाययुः ॥५॥ नानामायां समाश्रित्य तं हंतुं तान् समागतान् । पशुपक्ष्यादिरूपस्थान् जघान शिवनंदनः ॥६॥ ततः सा पार्वती देवी शुशोच बहुधा सती । अह्ना संख्यातिगा दैत्या हताः पुत्रेण नित्यदा ॥७॥ तथापि दैत्या राजानः किं करिष्यंति मे सुतम् । हनिष्यंति गुणाधीशं न जानामि विचारतः ॥८॥ साक्षाद्ब्रह्मपतिः पूर्णः पुत्रो मे प्रबभूव ह । भाग्यहीनप्रभावेण गमिष्यति मिषेण किम् ॥९॥ ततो मायां गुणेशानश्चकार मोहिनीं पराम् । तया मोहयुता देवी पुत्रं मेने गणेश्वरम् ॥१०॥ एतस्मिन्नंतरे योगी मरीचिर्गणपं भजन् । प्रार्थयामास देवेशं दर्शनं देहि विघ्नप ॥११॥ ततः सोऽपि महायोगी शुश्राव खवचोऽमलम् । शिवपुत्रत्वमापन्नो गणेशस्तं विलोकय ॥१२॥ श्रुत्वा समागतं हर्षात् पार्वती तं ददर्श ह । प्रणम्यापूज्य संभोज्य प्रार्थयामास तं मुनिम् ॥१३॥ त्वं साक्षाद्ब्रह्मभूतश्च न गच्छसि ममाश्रमम् । त्यक्त्वा तीर्थादिकं विप्र गणेशभजने रतः ॥१४॥ यथा विघ्नहरो देवस्तथा त्वमपि निश्चितम् । अतस्त्वां प्रार्थये स्वामिन् पुत्रं मे रक्ष रक्षया ॥१५॥ दैत्यादीनां समूहश्च सर्वदा कालधिक् कृताम् । समायाति गणेशानं हंतुं भवंति ते मृताः ॥१६॥ अस्माकं कुलदेवस्तु विघ्नेशो नात्र संशयः । स रक्षति मुने पुत्रं मम नो चेन् मृतो भवेत् ॥१७॥ शंकरेण गणेशानः सेवितोऽभून्
ख. ६ अ. ३८ पान १०८ महामुने। तस्य पुण्यं सुतं मे तु रक्षत्यत्र न संशयः ॥१८॥ पार्वतीवचनं श्रुत्वा विस्मितोऽभून् महामुनिः। साक्षाच्छक्ति- रियं भ्रांता सुतं जानाति विघ्नरपम् ॥१९॥ गणेशकवचं तस्मै ददौ शंभुसुताय सः। तं प्रणम्य च संस्तूय ययौ स्वस्याश्रमं मुनिः ॥२०॥ तथापि दैत्यराजान् स तं हंतुं नित्यमागतान्। नानावेषधरान् वीक्ष्य जघ्ने वै बालखेलतः ॥२१॥ एकदा पार्वती प्रातः समुत्थाय शिवे रता। मूर्तिं लिंगमयीं कृत्वा वामहस्ते दधार ताम् ॥२२॥ आवाह्य शंकरं तस्यां पूजने संरताऽभवत् । एतस्मिन्नंतरे तत्र गुणेशोऽभवदुत्थितः ॥२३॥ स्तन्यं देहि जगादाऽसौ पार्वतीं सा तमब्रवीत्। पूजयित्वा महेशानं दास्यामि स्तनपानकम् ॥२४॥ ततस्तां स जगादैव किमर्थं पूजने रता। मां त्यक्त्वा तेऽधिकं देवि ददते शंकरः कुतः ॥२५॥ स्तन्यं देहि च मे मातस्तत्रानंतशिवादयः । संतुष्टाः प्रभविष्यंति ब्रह्माणि शैलनंदिनि ॥२६॥ तथापि हास्यसंयुक्ता न ददौ स्तनपानकम्। ततो रोषसमाविष्टो मयूरेशो बभूव ह ॥२७॥ तलाघातेन देव्याः स हस्तस्थं शिवलिंगकम् । पातयामास भूम्यां तद्भग्नं बभूव शक्तयः ॥२८॥ ततोऽतिदुःखसंयुक्ता पार्वती विकटं पुनः। जघान तलघातेन महा- क्रोधवती परम् ॥२९॥ ततो गणेश्वरः क्रुद्धः समागत्य स्वमातरम्। ददंशांगुलिकां तस्या रक्तं सुस्राव चोल्बणम् ॥३०॥ हाहाकाररवां तां स त्यक्त्वा पपाल भीतितः। भीतीनां भयदाताऽपि बालक्रीडां प्रदर्शयन् ॥३१॥ दृष्ट्वा रुरोदातिदुःख- संयुक्ता शंकरप्रिया । प्राणप्रतिष्ठया युक्तं भग्नं लिंगं शिवस्य च ॥३२॥ शिवहत्यासमं पापं मया प्राप्तं न संशयः। अन्यत्पतिवधे जातं तदेवाप्यधुना कृतम् ॥३३॥ अयं पुत्रो गुणेशो मे नरकस्य प्रदो मतः। वंध्याहं चेत्तदा दैवं धन्यं मे नात्र संशयः ॥३४॥ अधुना दुःखिताऽहं वै स्मृत्वा हृदि गजाननम् । देहत्यागं करिष्यामि विघ्नराज नमोऽस्तु ते ॥३५॥ गणेशस्मरणेनैव बुद्धिभेदो बभूव ह। ददर्श गणराजं तं समीपे पुत्ररूपिणम् ॥३६॥ यष्टिहस्ता ययौ देवी हंतुं पुत्रं परात्परम्। पपाल भयसंयुक्तो गणेशस्तां विलोक्य च ॥३७॥ सा जग्राह स्वपुत्रं तं धावयित्वा शिवप्रिया। मायां चकार विघ्नेशः शिवरूपो बभूव ह ॥३८॥ मोहिना शंकरं देवी मायया दृश्य दुःखिता । किमर्थं यष्टिहस्ताऽहं महेशं हंतुमुद्यता ॥३९॥ त्यक्त्वा तं दुःखिताऽत्यंतं देहत्यागे समुद्यता। बभूव गणराजोऽपि पुनः पुत्रस्वरूपधृक् ॥४०॥ पलं तं भयसंयुक्तं देवी हंतुं समुद्यता। ययौ तमनु वै सोऽपि पपाल वनगोऽभवत् ॥४१॥ एतस्मिन्नंतरे तत्र दैत्यः कर्दमसंज्ञितः। शैवो द्विजस्वरूपेण बालं जगाद चागतः ॥४२॥ किमर्थं पुत्र पलसि रक्षामि त्वां न संशयः। यत्र माता न जानाति तत्र तस्मात् स्थिरो भव
खं. ६ अ. ३८ पान १०९
॥४३॥ तथेति बालभावेन गुणेशेन कृतं वचः । बालं जिगेल गृह्यासौ हर्षयुक्तो बभूव ह ॥४४॥ अहो सिंधोर्महाशत्रुर्मया संभक्षितोऽभवत् । सर्वेषां दैत्यमुख्यानां भयमद्य प्रणाशितम् ॥४५॥ एतस्मिन्नंतरे तत्र जगदंबा तमाययौ । शैवं द्विजं प्रहस्यैव प्रणनाम जगाद च ॥४६॥ पार्वत्युवाच । स्वामिन् मम सुतः कुत्र गुप्तो बभूव सन्निधौ । त्वदीये नात्र संदेहः पादं पश्यामि नो पुरः ॥४७॥ पादमार्गेण तं विप्र गृहीतुं चागताऽभवम् । परश्वादिकचिह्नेन वद सत्यं महामते ॥४८॥ द्विज उवाच । न दृष्टः शैलजे पुत्रो मया तव न संशयः । शिवस्य शपथं कृत्वा वदामि पश्य पुत्रकम् ॥४९॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । ततस्तस्य मुखांभोजान्निःसृतो गणनायकः ॥५०॥ निःसृत्य मुष्टिघातेन गुणेशेन हतोऽसुरः । स ममार महादुष्टोऽष्टादशयोजनोऽभवत् ॥५१॥ ततः सा हर्षिताऽत्यंतं क्रोधहीना बभूव ह । पुत्रं गृह्य ययौ देवी स्वाश्रमं गृहगा- ऽभवत् ॥५२॥ पुत्रः पपात भूपृष्ठेऽलोडयत्तत्र शक्तयः । पुनः पुनः स जृंभां च चकार विकटाननः ॥५३॥ तं तादृशं निरीक्ष्यैव पार्वती दुःखसंयुता । किं जातं मे सुतस्याद्य किं भविष्यति विघ्नप ॥५४॥ ततः सा तन्मुखे विश्वं ददर्श भयसंकुला । अनंतांडसमायुक्तं पपात धरणीतले ॥५५॥ स्वगुरुं शंकरं सा तु सस्मार स्वेष्टदेवकम् । गणेशं तेन मोहेन हीना बभूव पार्वती ॥५६॥ विचारमकरोद्देवी गणेशोऽयं सुतोऽभवत् । तं त्यक्त्वा लिंगसेवायां निरता मूर्खवत् किल ॥५७॥ पतिभावेन देवेशं शंकरं देहधारिणम् । भजामि देवभावेन गणेशं तच्च विस्मृतम् ॥५८॥ स्तनपानं गणेशाय न दत्तं मूढभावतः । अनंता वै मया यत्र संस्थिताः शंकरादयः ॥५९॥ तेन तुष्टेन सर्वे ते संतुष्टाः संभवंति च । गणेशो ब्रह्मणां नाथः सोऽपि संतुष्ट एव वै ॥६०॥ अहोऽयं शिवरूपश्च मया दृष्टः प्रसन्निधौ । गृहीतस्तत्र चित्रं तु मया न ज्ञायते कथम् ॥६१॥ अतः परं गणेशानं पुत्रभावेन चागतम् । सर्वभावेन नित्यं तं भजिष्यामि हितावहम् ॥६२॥ अयं पतिरयं तातो माता पुत्रः सुहृत्तथा । देवो ब्रह्म न संदेहो गुणेशो मे सुशांतिदः ॥६३॥ एवं निश्चित्य सा देवी समुत्थाय प्रणम्य तम् । तुष्टाव हर्षसंयुक्ता भक्तिनम्रात्मकंधरा ॥६४॥ स्तुवंतीं तां समालोक्य गणेशो मोहमादधे । ततः संमोहिता देवी विस्मृतिं परमां ययौ ॥६५॥ पुत्रभावेन विघ्नेशं लालयामास गृह्य तम् । गृहकार्यरता देवी बभूवे पूर्ववद्यथा ॥६६॥ शक्तय ऊचुः । बालक्रीडार्थमुद्युक्तो गणेशो ब्रह्मनायकः । पुत्रभावं समासाद्य पुत्रतुल्यः समाचरत् ॥६७॥ किमर्थमखिलं विश्वं नाना- ब्रह्मांडसंयुतम् । शिवरूपं किमर्थं स दर्शयामास शक्तये ॥६८॥ दर्शयित्वा किमर्थं स लोपयामास तद्भवम् । ज्ञानं कुतूहलं
खं. ६ अ. ३९ पान ११० चेदं वद संशयनाशनात् ॥ ६९॥ आदिशक्तिरुवाच । पुत्रभावमयी भक्तिग्रहणे लालसः सदा । वरदानप्रभावेण तपः- फलप्रदोऽभवत् ॥७०॥ कार्यं कृत्वा सुरर्षीणामंतर्धानं करिष्यति । तदा ज्ञानस्य देव्यास्तु स्मरणं संभविष्यति ॥७१॥ गणेशः पुत्रभावेनागतो मे नात्र संशयः । अज्ञानेन युताऽहं तं सुतं जानामि निश्चितम् ॥७२॥ पुत्रवन्नरदेहस्थो गणेशो मे त्वदर्शयत् । ब्रह्मसामर्थ्यमाहात्म्यं तथापि ज्ञायते न सः ॥७३॥ तेनातिभक्तिसंयुक्ता भजिष्यति गजाननम् । तदर्थं गणराजोऽपि कौतुकं तत्र चाकरोत् ॥७४॥ एवं नानाविधान् दैत्यान् स्वयं हत्वा च शक्तयः । शिवयोः सेवनं चक्रे पुत्रभावप्रभावतः ॥७५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । गौतमादिमुनीनां स सुतैर्नित्यं गणेश्वरः । चिक्रीड बालमध्यस्थो बालवन्नात्र संशयः ॥१॥ तेषां मुनिसुतानां स तिरस्कारादिकं कदा । असहद्धर्षसंयुक्तो मित्रभावप्रदर्शनात् ॥२॥ तेपुः ये सख्यभक्त्यर्थं तपस्ते सततं नराः । सेवार्थमभवन् सर्वे मुनिपुत्रस्वभावतः ॥३॥ कश्यपस्य सुतो जज्ञे मयूरो विष्णुरव्ययः । यज्ञः सेवार्थमुद्युक्तो युयुधे गणपेन सः ॥४॥ सुतो विनतया सोऽपि बोधितः प्रणनाम तम् । गणेशं याचते स्तुत्वा मयूरः स्म वरं परम् ॥५॥ आदौ मयूरनाम्ना संयुक्तं नाम त्वदीयम् । भवेत्तु सर्वविख्यातं सर्वसिद्धिप्रदायकम् ॥६॥ तथेत्यभून् मयूरेशो नाम्ना सर्वत्र शक्तयः । सोऽपि वाहनभावेन सेवायामास विघ्नपम् ॥७॥ कदाचित् द्विजपुत्रैश्च मज्जितोऽभूद् गजाननः । जलस्थं नागकन्यास्तं निन्युः कामप्रपीडिताः ॥८॥ पुरा गणेशमाहात्म्यं श्रुत्वा तेपुः तपो महत् । ब्राह्मण्यः पतिभावेन गणेशो भवतु प्रभुः ॥९॥ गणेशमंत्रसंयुक्ता नानाऽनुष्ठानतत्पराः । ता एव नागकन्याश्च बभूवुस्तपसा युताः ॥१०॥ शेषवासुकि- मुख्यैस्ता लालिताः परमादरात् । पत्यर्थं प्रार्थिताः सर्वा जगुस्तान्नागमुख्यकान् ॥११॥ गणेशं भावसंयुक्ता वृणीमहि पतिं वरम् । नान्यं कदा महाराज इच्छामो ह्यसमर्थकम् ॥१२॥ तच्छ्रुत्वा शेषमुख्यास्ता जगुः किं हठसंयुताः । ब्रह्मेशो
खं. ६ अ. ३९ पान १११
गणनाधस्तु स्वानंदस्थो बभूव ह ॥१३॥ स कथं भवतां पुत्र्यो भविष्यति पतिः परः। अभिमानं परित्यज्य समानं वृणुत प्रभुम् ॥१४॥ तेषां वचनमाकर्ण्य क्रोधयुक्ताः कुमारिकाः। जगुस्तांश्च वयं ताता ब्रह्मचर्यं वृणीमहे ॥१५॥ पूर्वसंस्कारयोगेन मयूरेशं जलस्थितम्। ददृशुर्नागकन्यास्तं मेनिरे गणनायकम् ॥१६॥ नारदस्य मुखाच्छ्रुत्वा शिवपुत्रं गजाननम् । अत्रागतं प्रगृह्यैव वृणीत वरमुत्तमम् ॥१७॥ स्वगृहे गणनार्थं ताः समानाय्य सुविह्वलाः । पूपुजुर्भक्तिसंयुक्ताः पतिभावेन शक्तयः ॥१८॥ ततः सोऽपि हृदा चक्रे ददौ योगं सुशांतिदम् । ताभ्यः तां कामहीनास्तं सिषेविरे विशेषतः ॥१९॥ अकृत्रिमं सुखं ताभ्यो ददौ भक्तिप्रभावतः । दिवानक्तं बुभुजिरे ह्यत्यंतं पौरुषं सुखम् ॥२०॥ एवं कृत्वा स्वयं शेषं गर्विष्ठं मदसंयुतम् । मर्दयित्वा ययौ तत्राभवन् द्विजसुताः पुरा ॥२१॥ एवं नानाविधान्येव चरित्राणि चकार ह । स सर्वं गौतमस्यान्नं बुभुजे नादरेण च ॥२२॥ भक्तेभ्यो भक्तिदानार्थं प्रभुः किं किं गजाननः । न करोति महादेव्यो दासदास्यपरायणः ॥२३॥ भक्तैर्यद्यत्कृतं चैव तदेवामृतरूपकम्। अभक्तैः सादरतया स कृतं मन्यते विषम् ॥२४॥ तिरस्कारादिकं देव्यस्ताडनादिक- मुत्तमम्। सौख्यदं गणनांथस्य बभूवे भक्तिमोहतः ॥२५॥ पार्वतीशिवमुरुख्यैश्चादितिकश्यपमुख्यकैः । तिरस्कृतस्ताडितः सोऽमृतं मेने गजाननः ॥२६॥ भक्तस्य वचनार्थं स दैत्यमस्तकधारकः । स्वांगच्छेदकरश्चैव मलजोऽपि बभूव ह ॥२७॥ इत्यादि विविधं चैव नीचवद्गणनायकः। चकार कर्म भक्त्या संमोहितो मोहनाशनः ॥२८॥ ततो गौतममुख्याश्च गणेश- मायया युताः । आययुः शंकरं देवं जगुस्तं मोहिता भृशम् ॥२९॥ गौतमाद्या ऊचुः। मयूरेशायुतः शंभो गच्छ त्वं यत्र ते रुचिः। वयं पीडायुता नित्यं भवामो दैत्यसंगमात् ॥३०॥ नित्यं दैत्येंद्रमुख्यास्तं मयूरेशं समाययुः । प्रहता मायया युक्ता मयूरेशेन तत्क्षणात् ॥३१॥ मृता दैत्या बभूवुश्च स्वस्वरूपधराः प्रभो । दश द्वादश पंचत्रिंशद्विंशतियोजनम् ॥३२॥ तेषां देहप्रपातेन गृहवृक्षाश्रमादिकम्। भंजते नित्यमेवातोऽस्माकं किं करवामहै ॥३३॥ अतस्त्वं सर्वसंयुक्तो गच्छ यत्र च ते रुचिः। अथवा वयमीशान त्वां त्यक्त्वा किं व्रजामहे ॥३४॥ तेषां वचनमाकर्ण्य शिवश्चिंतातुरोऽवदत् । मुनीन् सर्वान् महादेव्यो देवानां पालकः प्रभुः ॥३५॥ श्रीशिव उवाच । भवतामाश्रमेष्वद्याहं विप्रा ह्यागतोऽभवम् । मदीयसंगदोषेण पीडिता मुनयः परम् ॥३६॥ स्वाश्रमेषु सदा विप्राः स्थीयतां सुखभोगिनः । गमिष्यामि स्थलेऽन्यत्र सर्वैः साकं न संशयः ॥३७॥ मयूरेशस्य विप्रेक्षा नित्यं दुःखादिकं परम् । दैत्येंद्रैः क्रियते दैत्या हतास्तेन महाबलाः ॥३८॥ निर्विघ्नार्थं गणेशस्य स्थानं
खं. ६ अ. ३९ | पान ११२
ब्रूत महर्षयः। तत्राहं ससुतो नित्यं स्थास्यामि ध्यानसंयुतः॥३९॥ गौतमाद्या ऊचुः। क्षेत्रं दक्षिणभागे तु वैघ्रेशं सर्वसिद्धिदम्। भूस्वानंदं वदंते तद्ब्रह्मसायुज्यदायकम् ॥४०॥ मूर्तिर्गणपतेस्तत्र सिंधुदूतैः प्रखंडिता । सिंधोश्च प्रतिमा दुष्टैः स्थापिता हर्षसंयुतैः ॥४१॥ जनैस्त्यक्तं महादेव दैत्यसंत्रासतापितैः । तत्र गच्छ सपुत्रस्त्वं विघ्नहीनो भविष्यसि ॥४२॥ तथेति शंकरः सर्वैर्गणैर्विघ्नेशसंयुतः । निर्ययौ तं महादेव्यो ब्राह्मणाः प्रययुः किल ॥४३॥ एतस्मिन्नंतरे तत्र सिंधुना प्रेषितो महान् । कमलासुरनामा यो दैत्यपैरागतोऽभवत् ॥४४॥ ब्रह्मविष्णुशिवादीनामजेयं दैत्यसंयुक्तम् । महामायं च तं दृष्ट्वा प्रपेलुर्मुनयस्ततः ॥४५॥ अहो शिवं परित्यज्य न स्थातुं शक्यते कदा । मुनयो दैत्यनाथैश्च हताः कुत्र व्रजामहे ॥४६॥ एवं विचार्य ते सर्वे पुनः शंकरमाययुः । जगुस्तं भयभीताश्च रक्ष नो दैत्यनायकात् ॥४७॥ मयूरेशेन संयुक्तो तिष्ठ नित्यं महेश्वर । नोचेदत्रानुगाः सर्वे वयं ते प्रभवामहे ॥४८॥ तेषां वचनमाकर्ण्य भयभीतः सदाशिवः । जगाद तान् वचो रम्यं द्विजपालनकारकः ॥४९॥ श्रीशिव उवाच । कमलासुरनामाऽयं दैत्यनाथैर्महाबलैः । समायातश्च तं जेतुं न क्षमोऽहं कदाचन ॥५०॥ अधुना मां समागृह्य कारागारे महाबलः । क्षेपयिष्यति नूनं मां यत्र विष्ण्वादयः सुराः ॥५१॥ शिवस्य वचनं श्रुत्वा मयूरेशस्तमब्रवीत् । मा भयं कुरु तात त्वं हनिष्यामि महासुरम् ॥५२॥ त्वं साक्षाद्गणनाथस्य कलांशो भक्त- नायकः । ब्राह्मणा गाणपत्याश्च तेषां विघ्नः कथं भवेत् ॥५३॥ मरीचिना गणेशस्य कवचं मे महेश्वर । रक्षणार्थं प्रदत्तं तु न भयं मे भविष्यति ॥५४॥ एवमुक्त्वा महादैत्यं ययौ विघ्नविदारणः । मयूरोपरि संस्थाय पर्शोः शूलस्य धारकः ॥५५॥ कृत्वा युद्धं महाघोरं त्रिशूलेन महासुरम् । चिच्छेद त्रिविधं कृत्वा पातयामास चासुरम् ॥५६॥ मस्तकं मयूरक्षेत्रे तदाकारं बभूव ह । उदरं राजसदने प्रवाले जघनं तथा ॥५७॥ त्रिषु स्थानेषु दैत्येंद्रः पपात त्रिविधोऽभवन् । गणेश्वरश्चैव तेषु संस्थितोऽभूत् प्रतापवान् ॥५८॥ शिवेन मुनिभिः सार्धं मयूरेश्वर आययौ । क्षेत्रे मयूरसंज्ञे तु तत्रसंस्था बभूविरे ॥५९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥
[शीर्षक] खं. ६ अ. ४० | पान ११३
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । तत्रागत्य मयूरेशो दृष्ट्वा मूर्तिस्थितं प्रभुः । सिंधुं क्रोधसमायुक्तश्चूर्णयामास तत्क्षणात् ॥१॥ ततोतिभयसंयुक्ता मुनयः शंकरादयः । किं भविष्यति दैत्येभ्यः श्रुत्वा वार्तां बभूविरे ॥२॥ तत्रापि मायया युक्ता दैत्येंद्राश्च समाययुः । हंतुं शिवसुतं नित्यं तान् जघान मयूरपः ॥३॥ ततो विघ्नविनाशार्थमिंद्रयज्ञं समारभत् । शांकरस्तं मयूरेशो बभंज क्रोधसंयुतः ॥४॥ तत इंद्रः सुरेशानैर्मयूरेशमयोधयत् । तं जित्वा गणराजस्तु स्वपुरस्थो बभूव ह ॥५॥ शक्तय ऊचुः । कारागारे स्थिता देवाः सिंधोस्ते योद्धुमाययुः । कथं देवि वदाशु त्वं संशयस्यापनुत्तये ॥६॥ आदिशक्ति- रुवाच । मेरुसंस्था महेशाना दैत्यैः संप्रधृताः पुरा । निराधारेषु संस्थास्ते पुरेषु गणपं ययुः ॥७॥ तान् ग्रहीतुं न शक्ताश्च भवंते केऽपि शक्तयः । तेषां मार्गं प्रवक्ष्यामि संशयच्छेदनाय वः ॥८॥ देवाश्च त्रिविधाः प्रोक्तास्तत्त्वाकाराश्च शक्तयः । तथा कर्ममया शास्त्रे देहरूपा न संशयः ॥९॥ दीव्यंति सर्वभावेषु तेन देवाः प्रकीर्तिताः । देवत्वं त्रिविधं तेषु ज्ञातव्यं वेदवादिभिः ॥१०॥ शताश्वमेधयज्ञानां कर्तैंद्रो भवति प्रियाः । तिष्ठंति कर्मजा देवास्तादृशाः कांचनाचले ॥११॥ मंदारादिषु सर्वत्र नगराणि दिवौकसाम् । तान् जयंति समर्थाश्चासुरादयो न संशयः ॥१२॥ ब्रह्मणो दिवसांते ते मन्वंतर- परायणाः । लयं गच्छंति यज्ञानां फलं भुक्त्वा न संशयः ॥१३॥ पुनर्जन्मधराः सर्वे भवंति नरजातिषु । कुर्वते यादृशं कर्म लभंते तादृशं फलम् ॥१४॥ अन्ये कर्ममया देवा व्याप्य ते संस्थिताः पराः । कुर्वते स्वाधिकारंश्च सदा कर्मपरा- यणाः ॥१५॥ जठराग्निस्तथा बाह्याग्निरित्यादि दिवौकसाम् । अधिकाराः समाख्याता यमस्य यातनादयः ॥१६॥ दैत्या धर्षयितुं शक्तास्तान् भवंति न कर्मणा । सदाऽधिकारसंयुक्तांस्तान् देवान् प्रवदंति च ॥१७॥ योगबलेन योगीशास्तान् देवांश्चालयंति च । नान्यबलेन देवेशाश्चलंति स्वाधिकारिणः ॥१८॥ ब्रह्मणो दिवसांते ते न मृत्युं देवसत्तमाः । लभंते वै निराधाराः कर्मरूपप्रधा- रकाः ॥१९॥ महालये लयं देवा गच्छंत्यत्र न संशयः । सलोकपरिवारास्ते पुनर्देहधरा मताः ॥२०॥ मृत्युलोके नराः सर्वे भवंते कर्मयंत्रिताः । यादृशं कुर्वते कर्म लभंते तादृशं फलम् ॥२१॥ तत्त्वरूपा महादेव्यो देवा वेदे प्रकीर्तिताः । ते तत्त्वैर्विश्वमानंदाद्भावयंति चराचरम् ॥२२॥ उत्पत्तिस्थितिसंहारकर्तारः सर्वरूपकाः । ब्रह्माकारस्वभावेन तिष्ठंति जगदी- श्वराः ॥२३॥ महाप्रलयवेलायां स्वविहारं समाप्य ते । योगनिद्रां प्रकुर्वंति योगाकारा विशेषतः ॥२४॥ पुनः क्रीडंति सृष्ट्वा च ब्रह्मांडं देवनायकाः । न तान् योगबलेनैव समो धर्षयितुं भवेत् ॥२५॥ योगोऽयं द्विविधः प्रोक्तः शास्त्रेषु विबुधोत्तमैः ।
यहाँ दिए गए पृष्ठ का संपूर्ण पाठ्य (अनुलेखन) प्रस्तुत है:
खं. ६ अ. ४० | पान ११४ वायुसाधनजश्चैकः प्राणायामेन लभ्यते ॥२६॥ तेन योगेन तत्त्वस्था देवास्तद्वशवर्तिनः । न भवंति कदा देव्यो ज्ञातव्यं शास्त्रमार्गतः ॥२७॥ संप्रज्ञाताऽसंप्रज्ञातमयो योगः प्रकीर्तितः । द्वितीयो ब्रह्मभूताख्यो योगिभिः साध्यते सदा ॥२८॥ तेन योगबलेनैव तान् जयंति सुरान्नराः । साध्याः सर्वे भवंत्येव देवास्तद्वशवर्तिनः ॥२९॥ यं यमिच्छति योगींद्रस्तं तं कुर्वंति देवपाः । प्रारब्धं चालयंत्येव योगिवश्यपरायणाः ॥३०॥ यदा तेषां विहारेषु संसक्ता योगिनोऽभवन् । योगभ्रष्टा भवंत्येव जन्ममृत्युपरायणाः ॥३१॥ योगिनां योगभावेन भयं गच्छंति देवताः । तत्स्वरूपा न संदेहो ज्ञातव्यं वेद- वादतः ॥३२॥ कर्मैकं त्रिविधस्थानामेकैकाश्रितरूपिणाम् । सेवनाद्रंजनात्तस्य द्वंद्वयुक्ता भवंन्ति ते ॥३३॥ अधुना प्रकृतं देव्यः शृणुध्वं त्वेकचेतसः । अवतारचरित्रं तु विकटस्य महात्मनः ॥३४॥ प्रद्रष्टुं स कदाचित्तं विधिः क्षेत्रे मयूरके । समाययौ स तं दृष्ट्वा मोहयुक्तो बभूव ह ॥३५॥ विचारमकरोचित्ते शिवपुत्रोऽयमुच्यते । अस्मै न नमनं कार्यं मया ज्येष्ठेन शक्तयः ॥३६॥ अयं गणेश्वरः साक्षात् कथितो नात्र संशयः । परीक्षां गणराजस्य कृत्वा पश्चान्नमाम्यहम् ॥३७॥ एवं विचार्य ब्रह्मांडं शिवशक्तिसमन्वितम् । अंतर्धाय स्थितो ब्रह्मा गुप्तरूपेण सर्वगः ॥३८॥ मयूरेशस्ततस्तच्च ज्ञात्वा चराचरं जगत् । निर्ममे ब्रह्मदेवस्तं जगाम शरणं पुनः ॥३९॥ ततः श्वासेन विघ्नेशो ब्रह्माणं स्वोदरे नयत् । तत्रानंतांडकं दृष्ट्वा बभ्राम यत्र तत्र सः ॥४०॥ गते वर्षसहस्रे च ब्रह्माणं श्वासवायुना । बहिर्निःष्कासयामास मयूरेशो महा- यशाः ॥४१॥ बहिरागत्य वेधाः स क्षणमेकं ददर्श ह । ततोऽतिविस्मितो भूत्वा पुनस्तं प्रणतोऽभवत् ॥४२॥ स्तुत्वा तं स जगामैव स्वस्थलं हर्षसंयुतः । मयूरक्षेत्रे तदादि स्थिता ब्रह्मकमंडलुः ॥४३॥ एवं विधेर्मदं हत्वा चिक्रीड द्विजबालकैः । मयूरेशो जगत्स्रष्टा भक्तेभ्यः सर्वदायकः ॥४४॥ ततः कदाचिद्भाद्री सा चतुर्थी शुक्लपक्षगा । समागता च तस्यां ते मृण्मयीं चक्रुरादृताः ॥४५॥ स्वे स्वे गृहे तु सर्वे ते मुनयः शंकरादयः । गणा गणेश्वरं कृत्वा पूजयामासुरादरात् ॥४६॥ मयूरेशः स्वयं चक्रे मूर्तिं शुंडादिचिह्निताम् । संपूज्यानम्य तुष्टाव कृत्वा करपुटं पुरः ॥४७॥ मयूरेश उवाच । नमस्ते गण- नाथाय सर्वविघ्नविदारिणे । भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥४८॥ ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने । अमेयमायया युक्ताय नमो ढुंढये नमः ॥४९॥ वक्रतुंडाय वक्राणां नाशकार परात्मने । लंबोदराय सर्वेषां जठरस्थाय ते नमः ॥५०॥ चिंतामणिस্বরূপाय पंचचित्तप्रधारिणे । हेरंबाय परेशानां दीनानां बीजरूपिणे ॥५१॥ योगेशाय सदा शांति-
दात्रे शांतमयाय च । शांतीनां शांतिरूपाय गणेशाय नमो नमः ॥५२॥ ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते । ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥५३॥ अनादये च सर्वेषामादिरूपाय विघ्नप । विघ्नानां विघ्नरूपाय सर्वसत्ता- त्मने नमः ॥५४॥ स्वानंदवासिने तुभ्यं संयोगायोगमूर्तये । सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥५५॥ महोद- राय भीमाय पापिनां दंडधारिणे । स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥५६॥ मयूरवाहनायैव मयूरेश्वर ते नमः । आखुवाहाय सर्वेश परात्पराय वै नमः ॥५७॥ किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् । शिवादयो न संस्तोतुं समर्था वेदमुख्यकाः ॥५८॥ रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् । यया माया न बाध्यते बुद्धीश ते नमो नमः ॥५९॥ एवं स्तुत्वा मयूरेशं मयूरेशो नतोऽभवत् । पूजाविधिं समाप्यैव भक्तियुक्तो बभूव ह ॥६०॥ एवं शिवादयः सर्वे पुपूजुर्गणनायकम् । मुनयश्चैव सर्वेशं मृन्मूर्तिस्थं विशेषतः ॥६१॥ एतस्मिन्नंतरे तत्र विश्वदेवो महायशाः । समाययौ च तीर्थानि भ्रममाणो यदृच्छया ॥६२॥ एकनिष्ठतया सोऽपि नारायणपरायणः । पुपूज नित्यमानंदाच्छेषशायिनमादरात् ॥६३॥ अव्याहतगतिः सोऽपि तपसा दग्धकिल्बिषः । गत्वा समुद्रमध्यस्थं तं पुपूज जनार्दनम् ॥६४॥ पश्चाज्जलादिकं विप्रो बुभुजे भक्तिसंयुतः । अत्यंतभक्तियोगेन गाणेशे योग्यतां गतः ॥६५॥ मायया च मयूरेशस्तं ज्ञात्वा शेषशायिनः । ज्ञानं संछादयामास विश्वदेवस्य संस्मृतिम् ॥६६॥ विश्वदेवस्य नित्यं तु बुद्धिमोहेन विघ्नपः । अकारयत्तद्योगेशो विस्मृतं योग- मायया ॥६७॥ आगत्य विश्वदेवस्तु पार्वतीं सर्वभाविनीम् । अयाचत स भिक्षां तां सा ददौ पायसादिकम् ॥६८॥ अपोशनं स कृत्वा च सस्मार शेषशायिनम् । महादुःखयुतस्तत्र संस्थितोऽभूद् द्विजोत्तमः ॥६९॥ ततस्तं गणराजस्तु खेदयुक्तं विशे- षतः । दृष्ट्वा नारायणो भूत्वा सांत्वयामास भावतः ॥७०॥ चतुर्वर्षात्मको मूर्तिं स पुपूज पराशरः । मृन्मयैरुपचारैस्तां दर्शयामास भक्तितः ॥७१॥ गाणेशाख्यं ददौ ज्ञानं विश्वदेवाय शांतिदम् । गाणपत्यस्वभावेन स ननाम गुणेश्वरम् ॥७२॥ विश्वदेवो ययौ स्थानं स्वकीयं शांतिसंयुतः । एकनिष्ठतया विप्रो मयूरेशं तमाभजत् ॥७३॥ एवं विस्मृतभावेन ज्ञान- संछादनेन च । विष्णोः पराक्रमं हृत्वा चिक्रीड द्विजबालकैः ॥७४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः ॥
Here is the complete line-by-line Devanagari transcription of the page:
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचित् सुखमासीनं गणैः सर्वैः समावृतम् । शिवं दृष्ट्वा मयूरेशो मायामाविश्च- कार ह ॥१॥ समागत्य महेशानं तस्य भालस्थितं प्रभुः। चंद्रं गृह्य गणेशानः प्रययौ क्रीडनोत्सुकः ॥२॥ मायया मोहिताः सर्वे शिवमुख्या विशेषतः । न जानंति स्म देवेशं चंद्रतास्कर्यकारिणम् ॥३॥ ततः शिवः स्वभाले तं न ददर्श निशाकरम् । क्रोधयुक्तो गणान् प्राह कथं चंद्रो गतो गणाः ॥४॥ ततो मुनिसुताः प्रोचुः समागत्य महेश्वरम् । चंद्रं गृह्य मयूरेशः खेलत्यस्माभिरादरात् ॥५॥ ततः क्रोधसमाविष्ट उवाच ह शिवो गणान् । बद्ध्वा गणेश्वरं ताड्यानयध्वं मेऽद्य सन्निधौ ॥६॥ ततो गणा ययुस्तं ते तेन निःश्वासवायुना । निक्षिप्ताः शंकरस्याग्रे शुष्कपत्रसमप्रभाः ॥७॥ एवं क्रमेण सर्वान् स मयूरेशो गणेश्वरान् । भग्नदर्पांश्चकारैव शिवश्चिन्तातुरोऽभवत् ॥८॥ ततो मायां समाश्रित्य शिवभाले निशाकरम् । मयूरेशः समागत्याऽऽस्थाप्य भ्रांतांश्चकार ह ॥९॥ स्वभालस्थं महेशानो दृष्ट्वा चंद्रं गणास्तथा। मेनिरे तं सदा तत्र संस्थितं तं गतागतम् ॥१०॥ एवं शिवं पराधीनं कारयामास विघ्नपः। ततः कदाचिदैत्येंद्रं वनं हंतुं जगाम ह ॥११॥ व्याघ्ररूपधरं दृष्ट्वा शार्दूलोऽभूद्गजाननः । न तं जानंति विप्राणां सुताः शार्दूलरूपिणम् ॥१२॥ यत्र तत्र भ्रमंति स्म बालास्तद्दर्शनोत्सुकाः । ते सर्वे सुष्वपुः श्रांता निद्रां लेभुः श्रमान्विताः ॥१३॥ पादं दक्षिणदिक्संस्थं दृष्ट्वा तेषां च भानुजः। तान् गृह्य निगडैर्बद्ध्वा चिक्षेपे स्वपुरे यमः ॥१४॥ हत्वा दैत्यं मयूरेशः स्वपुरं पुनराययौ । न तत्र मुनिपुत्रान् स ददर्श विस्मतोऽभवत् ॥१५॥ गत्वा स्वर्गे यमं जित्वा ययौ तैर्मुनिबालकैः । एवं नानाविधां क्रीडां चकार मयूरध्वजः ॥१६॥ दशपंच वयोवर्षाण्यतिक्रम्य गणेश्वरः। शुशुभे खेलसंयुक्तो दैत्यान् हत्वा विशेषतः ॥१७॥ अथ तत्राऽऽययौ योगी नारदो गणपं स्मरन् । उवाच शंकरं सोऽपि हर्षयुक्तेन चेतसा ॥१८॥ नारद उवाच । तपसाऽऽराधितौ देव्यौ सिद्धिबुद्धी तु वेधसा । वरदानेन ते पुत्र्यौ बभूवतुः प्रजापते ॥१९॥ तदर्थं सदृशं ब्रह्मा नावाप वरमुत्तमम् । मयूरेशाय अधुना दातुमिच्छति स प्रभुः ॥२०॥ तथेति तमुवाचाथ शंकरस्तेन संयुतः । मयूरेशं समागृह्य निर्ययौ स गणः स्वयम् ॥२१॥
खं. ६ अ. ४१ पान ११७ मयूरेशार्थमेवं स विचार्य शरणं ययौ ॥२५॥ त्यक्त्वा सर्वं गणेशे स लालसो भक्तिसंयुतः । बभूव तं स्वपुर्यां तु समानाय्य पुपूज ह ॥ २६ ॥ कारागृहाच्चक्रपाणिर्निष्कास्य विष्णुमुख्यकान् । देवान् देवेंद्रयुक्तांश्चापूजयद्भक्तिसंयुतः ॥२७॥ तत्र ब्रह्मा प्रहर्षेण सस्मार तनये स्वके । सिद्धिबुद्धी समायाते रूपलावण्यसंयुते ॥२८॥ ते दृष्ट्वा कामसंतप्ता देवेंद्रायश्च बभूविरे । देवास्तं प्रार्थयामासुः प्रत्येके विधिमादरात् ॥२९॥ अस्मभ्यो देहि देवेश कन्ये परमसंदरे । न दृष्टे सदृशे कुत्र कामिनीनां गणेषु च ॥३०॥ ततो ब्रह्मा जगादैव न सदृशः सुरेश्वराः। आभ्यां तस्मान् मयूरेशाय दास्यामि मदात्मजे ॥३१॥ ततोऽतिप्रार्थयामासुर्देवाः सर्वे पितामहम् । जगाद वचनं युक्तं सपुत्र्यौ खेदसंयुतः ॥३२॥ सिद्धिबुद्धी सुरेंद्रेषु वृणुतं वरमीप्सितम् । ते ऊचतुर्विधातारं चित्तस्थं तं वृणीवहे ॥३३॥ ततो मात्रां समागृह्य चिंतामणिं प्रदश्य ते । सिद्धिबुद्धी मयूरेशं त्यक्त्वा देवांश्च जग्मतुः ॥३४॥ मालां गले गणेशस्य ततश्चिक्षिपतुर्विधिः । तस्मै समर्पयामास सिद्धिं बुद्धिं विधानतः ॥३५॥ ततः सर्वे प्रणेमुस्तं देवेंद्रादय आदरात् । सिंधोर्वधात् प्रहर्षेण युक्ताः संपूज्य तुष्टुवुः ॥३६॥ देवर्षय ऊचुः । नमस्ते शिखिवाहय मयूरध्वजधारिणे । मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥३७॥ अनाथानां प्रणार्थाय गताहंकारिणां पते । मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥३८॥ सर्वानंदप्रदात्रे ते सदा स्वानंदवासिने । स्वस्वधर्मरतानां च पालकाय नमो नमः ॥३९॥ अनादये परेशाय दैत्यदानवमर्दिने । विधर्मस्थस्वभावानां हन्त्रे विकट ते नमः ॥४०॥ शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । पार्वतीनंदनायैव स्कंदाग्रज नमो नमः ॥४१॥ नानावताररूपैस्तु विश्वसंस्थाकराय ते । काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥४२॥ सिंधुहंत्रे च हेरंबाय परशुधराय ते । देवदेवेश पालाय ब्रह्मणां पतये नमः ॥४३॥ योगेशाय सुशांतिभ्यः शांतिदात्रे कृपालवे । अनंताननबाहो तेऽनंतोदर नमो नमः ॥४४॥ अनंतविभवायैव चित्तवृत्तिप्रचालक । सर्वहृत्स्थाय सर्वेषां पूज्याय ते नमो नमः ॥४५॥ सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः । गणानां पतये चैव सिद्धिवुद्धिवराय च ॥४६॥ किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो । योगिनः शांतिमापन्ना अतो नमामहे वयम् ॥४७॥ तेन तुष्टो भव स्वामिन् दयाघन प्रवर्तक । त्वदीयांगसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥४८॥ एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् । वरान् वृणुत देवेशा मुनिभिश्च समन्विताः ॥४९॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागा मम प्रीतिविवर्धनम्