मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 758, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. ४१ पान ११७ मयूरेशार्थमेवं स विचार्य शरणं ययौ ॥२५॥ त्यक्त्वा सर्वं गणेशे स लालसो भक्तिसंयुतः । बभूव तं स्वपुर्यां तु समानाय्य पुपूज ह ॥ २६ ॥ कारागृहाच्चक्रपाणिर्निष्कास्य विष्णुमुख्यकान् । देवान् देवेंद्रयुक्तांश्चापूजयद्भक्तिसंयुतः ॥२७॥ तत्र ब्रह्मा प्रहर्षेण सस्मार तनये स्वके । सिद्धिबुद्धी समायाते रूपलावण्यसंयुते ॥२८॥ ते दृष्ट्वा कामसंतप्ता देवेंद्रायश्च बभूविरे । देवास्तं प्रार्थयामासुः प्रत्येके विधिमादरात् ॥२९॥ अस्मभ्यो देहि देवेश कन्ये परमसंदरे । न दृष्टे सदृशे कुत्र कामिनीनां गणेषु च ॥३०॥ ततो ब्रह्मा जगादैव न सदृशः सुरेश्वराः। आभ्यां तस्मान् मयूरेशाय दास्यामि मदात्मजे ॥३१॥ ततोऽतिप्रार्थयामासुर्देवाः सर्वे पितामहम् । जगाद वचनं युक्तं सपुत्र्यौ खेदसंयुतः ॥३२॥ सिद्धिबुद्धी सुरेंद्रेषु वृणुतं वरमीप्सितम् । ते ऊचतुर्विधातारं चित्तस्थं तं वृणीवहे ॥३३॥ ततो मात्रां समागृह्य चिंतामणिं प्रदश्य ते । सिद्धिबुद्धी मयूरेशं त्यक्त्वा देवांश्च जग्मतुः ॥३४॥ मालां गले गणेशस्य ततश्चिक्षिपतुर्विधिः । तस्मै समर्पयामास सिद्धिं बुद्धिं विधानतः ॥३५॥ ततः सर्वे प्रणेमुस्तं देवेंद्रादय आदरात् । सिंधोर्वधात् प्रहर्षेण युक्ताः संपूज्य तुष्टुवुः ॥३६॥ देवर्षय ऊचुः । नमस्ते शिखिवाहय मयूरध्वजधारिणे । मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥३७॥ अनाथानां प्रणार्थाय गताहंकारिणां पते । मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥३८॥ सर्वानंदप्रदात्रे ते सदा स्वानंदवासिने । स्वस्वधर्मरतानां च पालकाय नमो नमः ॥३९॥ अनादये परेशाय दैत्यदानवमर्दिने । विधर्मस्थस्वभावानां हन्त्रे विकट ते नमः ॥४०॥ शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । पार्वतीनंदनायैव स्कंदाग्रज नमो नमः ॥४१॥ नानावताररूपैस्तु विश्वसंस्थाकराय ते । काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥४२॥ सिंधुहंत्रे च हेरंबाय परशुधराय ते । देवदेवेश पालाय ब्रह्मणां पतये नमः ॥४३॥ योगेशाय सुशांतिभ्यः शांतिदात्रे कृपालवे । अनंताननबाहो तेऽनंतोदर नमो नमः ॥४४॥ अनंतविभवायैव चित्तवृत्तिप्रचालक । सर्वहृत्स्थाय सर्वेषां पूज्याय ते नमो नमः ॥४५॥ सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः । गणानां पतये चैव सिद्धिवुद्धिवराय च ॥४६॥ किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो । योगिनः शांतिमापन्ना अतो नमामहे वयम् ॥४७॥ तेन तुष्टो भव स्वामिन् दयाघन प्रवर्तक । त्वदीयांगसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥४८॥ एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् । वरान् वृणुत देवेशा मुनिभिश्च समन्विताः ॥४९॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागा मम प्रीतिविवर्धनम्