भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 759, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 759

॥ ५० ॥ यः पठेच्छृणुयाद्वापि श्रावयेत्स लभत् पराम् । भुक्तिं मुक्तिं मदीयां तु नरो भक्तिं न संशयः ॥५१॥ मयूरेशवचः श्रुत्वा देवाः सर्षिगणाश्च तम् । प्रत्यूचुस्ते प्रणम्येदं वचनं हर्षसंयुताः ॥५२॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरान् दास्यसि विघ्नप । त्वदीयामचलां भक्तिं देहि नाथ नमोस्तु ते ॥५३॥ हतः सिंधुर्महावीर्यस्तेन सर्वे कृतार्थकाः । अधुना स्वाधिकारेषु गमिष्यामस्त्वदाज्ञया ॥५४॥ तथेति तानुवाचाथ मयूरेशः प्रतापवान् । दत्त्वा भक्तिं स्वकीयां तु राज्ञे सर्वैर्जगाम ह ॥५५॥ चक्रपाणिर्गणेशस्य पंचायतनमार्गतः । अभजत्तं मयूरेशमंते स्वानंदगोऽभवत् ॥५६॥ मयूरेशः समायातो मयूरे सर्वसंयुतः । सर्वान् संस्थाप्य देवेशान् जगाद मुनिसत्तमान् ॥५७॥ यदर्थमागता देवास्तत् सर्वं सुकृतं मया । अधुना निजलोकेऽहं गमिष्यामि मुनीश्वराः ॥५८॥ एवमुक्त्वांतर्दधेऽसौ मयूरेशः स्वलीलया । देवर्षयश्च खेदेन युक्तास्तत्रैव संस्थिताः ॥५९॥ पार्वतीशंकरौ तत्र मूर्च्छितौ स बभूवतुः । तयोर्हृदि मयूरेशः प्रकटोऽभूद् जगाद तौ ॥६०॥ भवतोर्हृदि संस्थोऽहं चित्तवृत्तिप्रचालकः । न वियोगः कदा मे वां पितरौ नात्र संशयः ॥६१॥ बर्हिर्मूर्तिं समास्थाप्यापूज्य तत्रैव भक्तितः । सेवेथां मां विशेषेण तेन तुष्टौ भविष्यथः ॥६२॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो गणवल्लभः । ब्रह्मा मूर्तिं द्विजैस्तस्य स्थापयामास हर्षतः ॥६३॥ ततो हर्षयुताः सर्वे स्वांशेन स्वस्थलेषु ते । संस्थिताः कार्यसिद्ध्यर्थं स्वस्वकर्मपरायणाः ॥६४॥ पूर्णभावेन तत्रैव मयूरेशं सिषेविरे । क्षेत्रवासपराः सर्वे भक्तियुक्ताश्च शक्तयः ॥६५॥ विकटस्यावतारोऽयं मयूरेश्वरसंज्ञितः । भक्तानां कथितः सर्वसिद्धिदः प्रीतिवर्धनः ॥६६॥ यः पठेत् शृणुयाच्चेद्व्वा स लभेदीप्सितं फलम् । अंते स्वानंदगो भूत्वा मोदते ब्रह्मतत्परः ॥६७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 759, कुल 1023 में से · BharatKosha