भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 760, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 760

खं. ६ अ. ४२ पान ११९ ॥श्रीगणेशाय नमः॥ आदिशक्तिरुवाच । विकटेन महादेव्यो रचितं मायया परम् । नानाभेदयुतं ब्रह्माऽसद्रूपं विविधे रतम् ॥१॥ तेन नानाविधं ब्रह्म जगन्नानाविधं तथा। सृष्टं तानि विशेषेण जीवहीनानि मेनिरे ॥२॥ ततस्तैर्विकटस्यैव तपस्तप्तं सुदारुणम् । एकाक्षरविधानेन दिव्यवर्षसहस्रकम् ॥३॥ तुष्टस्तानि ययौ देवो वरदानार्थमादरात् । रथस्थः सूर्यरूपेण सर्वात्मा सर्वभावनः ॥४॥ तं दृष्ट्वा तानि हर्षेण युक्तानि नेमुरादरात् । तद्दर्शनजबोधेन ज्ञानयुक्तानि शक्तयः ॥५॥ आत्माकारो- ऽयमेकश्च विकटः सूर्यरूपधृक् । न कुत्रचित् प्रदृश्येत भेदो विकटसूर्ययोः ॥६॥ तान्याऽऽपूज्य प्रणेमुस्तं पुनस्तोतुं प्रचक्रमुः । स्तोत्रं नानाविधान्येव ब्रह्माणि विश्वपालकैः ॥७॥ नानाब्रह्माण्यूचुः । विकटाय परेशाय सर्वजीवनधारिणे । आत्माकाराय सूर्याय भानवे ते नमो नमः ॥८॥ सप्ताश्वरथसंस्थाय विघ्नेशाय परात्मने । हेरंबाय जगन्नाथ ब्रह्मनाथाय ते नमः ॥९॥ संज्ञापते नमस्तुभ्यं साक्षिरूपाय साक्षिणे । छायानाथाय देवेश देवदेवेश ते नमः ॥१०॥ अनामयाय नित्याय सहस्रकर- धारिणे । अनंतभेदहीनायाऽद्वितीयाय नमो नमः ॥११॥ सर्वाद्ये सदा सर्वाधाराय विश्वमूर्तये । कर्माधाराय सर्वेषां पालकाय नमो नमः ॥१२॥ आदित्याय परेशाय परात्परतराय ते । दिनस्य पतये नाथ दिनपालाय वै नमः ॥१३॥ अर्यम्णे काश्यपायैव तेजसां पतये नमः । अनाधाराय वृष्ट्यास्तु चालकाय नमो नमः ॥१४॥ किं स्तुमस्त्वां रवे यत्र वेदाः संकुंठिता बभुः । योगिनं सततं सर्व आत्माकारं परात्परम् ॥१५॥ एकमेवाद्वितीयं त्वां वदंति वेदवादिनः । वयं भिन्नानि तेन त्वं विकटोऽसि न संशयः ॥१६॥ एवं स्तुत्वा तं ब्रह्माणि प्रणेमुर्हर्षभावतः । तान्युत्थाप्यार्यमा वाक्यं जगाद भक्तवत्सलः ॥१७॥ सूर्य उवाच । वरान् ब्रूत च ब्रह्माणि दास्यामि भक्तियंत्रितः । भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ॥१८॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । ब्रह्मभूयप्रदं मेऽस्तु स्तोत्रं मद्भक्तिवर्धनम् ॥१९॥ सूर्यस्य वचनं श्रुत्वा हर्षेण संयुतानि तु । जगुस्तं ब्रह्ममुख्यानि भक्तियुक्तानि शक्तयः ॥२०॥ ब्रह्माण्यूचुः । तुष्टश्चेद्व्रह्मब्रह्मेश जीवयुक्तानि नित्यदा । कुरुष्व सर्वभावेन स्वस्य सौख्यपराणि तु ॥२१॥ भक्तिं देहि सदा नाथ तव पादांबुजे पराम् । मायामोहविनाशार्थं योगं देहि परात्परम् ॥२२॥ तथेति सविता तेभ्य उक्त्वा ज्ञानं जगाद ह । मायामोहविनाशार्थं गाणेशं योगशांतिदम् ॥२३॥ सूर्य उवाच । असत् सत् समनेतीनां संयोगे योग उच्यते । स्वसंवेद्यात्मकश्चैव गकाराक्षरवाचकः ॥२४॥ स्वस्वरूपेण हीनोऽयमयोगो योग उच्यते । णकाराक्षरगः सोऽपि वेदेषु कथितोऽभवत् ॥२५॥ तयोर्योगे गणेशानः शांतीनां शांति-