भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 761, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 761

खं. ६ अ. ४३ पान १२० दायकः । चित्ते चिंतामणिं दृष्ट्वा भविष्यथ सुयोगिनः ॥२६॥ संयोगायोगरूपं यन्मायामयं विशेषतः । तस्या विकटभावेन भजध्वं विकटं सदा ॥२७॥ स्वस्वब्रह्माणि संस्थ्यं तु कर्म कृत्वा स्वभावजम् । गणेशार्पणभावेन भवद्भिः स्थीयतां सदा ॥२८॥ एवमुक्त्वा स्वयं भानुर्ब्रह्माणि सर्वनायकः । अंतर्दधे महादेव्यः स्वानंदस्थो बभूव ह ॥२९॥ ततो सन्मुख्यब्रह्माणि स्वस्वविश्वयुतानि च । जीवयुक्तानि जातानि खेलां चक्रुः परस्परम् ॥३०॥ यथा सूर्येण संदिष्टो योगो विकटसंज्ञितः । साधयित्वा तथा तानि सुशांतानि बभूविरे ॥३१॥ हृदि चिंतामणिं ज्ञात्वा बहिः कर्माणि कृत्स्नशः । समर्प्य विकटं देव्यो भजन ब्रह्माण रेमिरे ॥३२॥ एवं विकटमाहात्म्यं सूर्यावतारसंज्ञितम् । कथितं विस्तरेणैव समासेन। पि निश्चितम् ॥३३॥ अयं सूर्यात्मकश्चैव विकटस्य महात्मनः । अवतारः समाख्यातः सर्वसिद्धिप्रदायकः ॥३४॥ शृणुयाद्यः पठेद्वापि स सिद्धिं परमां लभेत् । ईप्सितं सर्वमेवं तु परत्रेह लभेत् सुखम् ॥३५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कश्यपस्य च भार्याऽसीद्विनता रूपशालिनी । तस्यामंडे समुत्पन्ने द्वेऽतीव तेजसा युते ॥१॥ ताभ्यां ज्येष्ठोऽरुणो जज्ञे गरुडोऽनुज एव च । अरुणः सूर्यमाराध्य वरं प्राप हितावहम् ॥२॥ सारथिः स रवे- रासीन्नित्यं तद्भक्तिसंयुतः । सेवयाऽनन्यभावेन सूर्य आत्मानमच्युतम् ॥३॥ गणेशं नित्यमानंदात् सूर्यो भेजे विशेषतः । प्रणम्य सोऽपि पप्रच्छारुणस्तं खेदसंयुतः ॥४॥ अरुण उवाच । स्वामिंस्त्वं सर्वभावानामात्माऽमृतमयः सदा । एक एवा- द्वितीयोऽसि भजसे कं गजाननम् ॥५॥ कोऽसौ गणेश्वरः पूर्णो मिथ्यात्मा कश्यपात्मज । मोहं करोषि देवेश स्वरूपच्छा- दनाय ते ॥६॥ योगिनो देवमुख्याश्च त्वां ज्ञात्वा शांतिमादधुः । त्वत्तः परतरं नास्ति किमर्थं भजसे परम् ॥७॥ सूर्य उवाच । त्वयाऽनूरो सत्यमुक्तं वेत्सि मां त्वं विशेषतः । न त्वत्समो मदीये तु योगे कोऽपि विशेषतः ॥८॥ पूर्णभावमविज्ञाय शांतिं धृत्वा त्वमंजसा । संस्थितः किमहं ब्रूयामज्ञानं त्वां महायशः ॥९॥ गणेशादहमुत्पन्नस्तस्यान्ये शंकरादयः । ज्येष्ठराजश्च