मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 762, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. ४२ | पान १२१
तेनायं तस्य ज्येष्ठो न विद्यते ॥१०॥ असन्नानाविधा शक्तिस्तत्राहं चात्मवाचकः । तयोः समानभावे त्वाऽऽनंदो विष्णुः प्रकीर्तितः ॥११॥ आनंदाच्च परो व्यक्तः शंकरस्तुर्यसंज्ञितः । तेषां योगे गणेशानः स्वानंदारुयः प्रकीर्तितः ॥१२॥ सर्व- संयोगकर्तृत्वान् मायायुक्तो गणेश्वरः । स्वसंवेद्येन योगेन लभ्यतेऽरुण निश्चितम् ॥१३॥ तस्मात्परो ह्ययोगश्च स्वसंवेद्य- विवर्जितः । तयोर्योगे गणेशानो वेदे पश्य विचक्षण ॥१४॥ ब्रह्मणस्पतिवाच्योऽसौ वयं ब्रह्ममयाः किल । अस्माकं गणराजस्तु स्वामी तस्माद्भजामहे ॥१५॥ एवं तस्य वचः श्रुत्वाऽनूरुस्तं प्रणनाम ह । जगाद भक्तिसंयुक्तः सूर्यं तेजस्विनां पतिम् ॥१६॥ अरुण उवाच । गणेशप्राप्तये नाथ वदोपायं सुसौख्यदम् । भवामि गाणपत्यश्च येनाऽहं देवनायकः ॥१७॥ सूर्य उवाच । एकाक्षरविधानेन तं भजस्व तु काश्यप । हृदि चिंतामणिं दृष्ट्वा योगिवंद्यो भविष्यसि ॥१८॥ एवमुक्त्वा ददौ तस्मै मंत्रं गणपतेः प्रभुः । स विधिं तं प्रणम्याऽसौ जगाम वनमुत्तमम् ॥१९॥ तताप तप उग्रं स गणेशध्यान- तत्परः । योगमार्गेण विघ्नेशं साधयामास भक्तितः ॥२०॥ ततो योगींद्रवंद्यः स बभूवे योगसेवया । चित्तं पंचविधं त्यक्त्वा रसयुक्तं जपे रतः ॥२१॥ एवं वर्षशतेष्वेवं गतेषु द्विरदाननः । आययौ वरदानार्थं भक्तिसंभावितः प्रभुः ॥२२॥ ततः सोऽपि गणेशानं न बुबोध महायशाः । हृदिध्यानेऽस्य संलीनस्तत्र चित्रं बभूव ह ॥२३॥ संज्ञायुक्तं गणेशानं रथस्थं स ददर्श ह । पुनः सिद्ध्या च बुद्ध्या च युक्तं दृष्ट्वा सुविस्मितः ॥२४॥ हृदि ध्यानं परित्यज्य नेत्रे उन्मील्य चारुणः । अपश्यत्तं बहिः सोऽपि गणेशं वरदायकम् ॥२५॥ ततोऽतिहर्षसंयुक्तः समुत्थाय ननाम तम् । पुपूज विधिसंयुक्तस्तुष्टावानम्य हर्षतः ॥२६॥ यावत् स्तोतुं समारेभे तावत्तं रथसंस्थितम् । रविं संज्ञायुतं दृष्ट्वा विस्मयं परं ययौ ॥२७॥ गणेशकृपया तेन ज्ञातं सर्वं सुबुद्धिना । गणेशोऽयं रविः प्रोक्तो विकटत्वान्न संशयः ॥२८॥ नानाभेदमयी माया तत्रात्मा भेदवर्जितः । अतो विकटसंज्ञोऽयमात्माकारो गजाननः ॥२९॥ विकटरूपिणं सूर्यं भजिष्यामि निरंतरम् । कलांशं गणराजस्य तेन तुष्टोऽयमंजसा ॥३०॥ एतदर्थं गणेशेन रूपं सूर्यात्मकं परम् । स्वकीयाभेदभावार्थं दर्शितं मेऽत्र सांप्रतम् ॥३१॥ ततोऽतिभक्तिसंयुक्तः साश्रुनेत्रो बभूव ह । नियम्यात्मानमानंदयुक्तस्तोत्रं प्रचक्रमे ॥३२॥ अरुण उवाच । नमस्ते गणनाधाय तेजसां पतये नमः । अनामयाय देवेश आत्मने ते नमो नमः ॥३३॥ ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः । आखु- वाहनगायैव सप्ताश्वाय नमो नमः ॥३४॥ स्वानंदवासिने तुभ्यं सौरलोकनिवासिने । चतुर्भुजधरायैव सहस्रकिरणाय