मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ६ अ. ४२ | पान १२१
तेनायं तस्य ज्येष्ठो न विद्यते ॥१०॥ असन्नानाविधा शक्तिस्तत्राहं चात्मवाचकः । तयोः समानभावे त्वाऽऽनंदो विष्णुः प्रकीर्तितः ॥११॥ आनंदाच्च परो व्यक्तः शंकरस्तुर्यसंज्ञितः । तेषां योगे गणेशानः स्वानंदारुयः प्रकीर्तितः ॥१२॥ सर्व- संयोगकर्तृत्वान् मायायुक्तो गणेश्वरः । स्वसंवेद्येन योगेन लभ्यतेऽरुण निश्चितम् ॥१३॥ तस्मात्परो ह्ययोगश्च स्वसंवेद्य- विवर्जितः । तयोर्योगे गणेशानो वेदे पश्य विचक्षण ॥१४॥ ब्रह्मणस्पतिवाच्योऽसौ वयं ब्रह्ममयाः किल । अस्माकं गणराजस्तु स्वामी तस्माद्भजामहे ॥१५॥ एवं तस्य वचः श्रुत्वाऽनूरुस्तं प्रणनाम ह । जगाद भक्तिसंयुक्तः सूर्यं तेजस्विनां पतिम् ॥१६॥ अरुण उवाच । गणेशप्राप्तये नाथ वदोपायं सुसौख्यदम् । भवामि गाणपत्यश्च येनाऽहं देवनायकः ॥१७॥ सूर्य उवाच । एकाक्षरविधानेन तं भजस्व तु काश्यप । हृदि चिंतामणिं दृष्ट्वा योगिवंद्यो भविष्यसि ॥१८॥ एवमुक्त्वा ददौ तस्मै मंत्रं गणपतेः प्रभुः । स विधिं तं प्रणम्याऽसौ जगाम वनमुत्तमम् ॥१९॥ तताप तप उग्रं स गणेशध्यान- तत्परः । योगमार्गेण विघ्नेशं साधयामास भक्तितः ॥२०॥ ततो योगींद्रवंद्यः स बभूवे योगसेवया । चित्तं पंचविधं त्यक्त्वा रसयुक्तं जपे रतः ॥२१॥ एवं वर्षशतेष्वेवं गतेषु द्विरदाननः । आययौ वरदानार्थं भक्तिसंभावितः प्रभुः ॥२२॥ ततः सोऽपि गणेशानं न बुबोध महायशाः । हृदिध्यानेऽस्य संलीनस्तत्र चित्रं बभूव ह ॥२३॥ संज्ञायुक्तं गणेशानं रथस्थं स ददर्श ह । पुनः सिद्ध्या च बुद्ध्या च युक्तं दृष्ट्वा सुविस्मितः ॥२४॥ हृदि ध्यानं परित्यज्य नेत्रे उन्मील्य चारुणः । अपश्यत्तं बहिः सोऽपि गणेशं वरदायकम् ॥२५॥ ततोऽतिहर्षसंयुक्तः समुत्थाय ननाम तम् । पुपूज विधिसंयुक्तस्तुष्टावानम्य हर्षतः ॥२६॥ यावत् स्तोतुं समारेभे तावत्तं रथसंस्थितम् । रविं संज्ञायुतं दृष्ट्वा विस्मयं परं ययौ ॥२७॥ गणेशकृपया तेन ज्ञातं सर्वं सुबुद्धिना । गणेशोऽयं रविः प्रोक्तो विकटत्वान्न संशयः ॥२८॥ नानाभेदमयी माया तत्रात्मा भेदवर्जितः । अतो विकटसंज्ञोऽयमात्माकारो गजाननः ॥२९॥ विकटरूपिणं सूर्यं भजिष्यामि निरंतरम् । कलांशं गणराजस्य तेन तुष्टोऽयमंजसा ॥३०॥ एतदर्थं गणेशेन रूपं सूर्यात्मकं परम् । स्वकीयाभेदभावार्थं दर्शितं मेऽत्र सांप्रतम् ॥३१॥ ततोऽतिभक्तिसंयुक्तः साश्रुनेत्रो बभूव ह । नियम्यात्मानमानंदयुक्तस्तोत्रं प्रचक्रमे ॥३२॥ अरुण उवाच । नमस्ते गणनाधाय तेजसां पतये नमः । अनामयाय देवेश आत्मने ते नमो नमः ॥३३॥ ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः । आखु- वाहनगायैव सप्ताश्वाय नमो नमः ॥३४॥ स्वानंदवासिने तुभ्यं सौरलोकनिवासिने । चतुर्भुजधरायैव सहस्रकिरणाय
[header] खं. ६ अ. ४३ पान १२२ [/header]
च ॥३५॥ सिद्धिवुद्धिपते तुभ्यं संज्ञानाथाय ते नमः । विघ्नहंत्रे तमोहंत्रे हेरंबाय नमो नमः ॥३६॥ अनंतविभवायैव नामरूपप्रधारिणे । मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥३७॥ ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने । गणेशाय परेशाय विघ्नेशाय नमो नमः ॥३८॥ विवस्वते भानवे ते रवये ज्योतिषां पते । लंबोदरैकदंताय महोत्कटाय ते नमः ॥३९॥ यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा । भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥४०॥ किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् । चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥४१॥ एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे । वामांगे संज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥४२॥ तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः । तं जगाद गणा- धीशो वरं वृणु हृदीप्सितम् ॥४३॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न संदेहश्चिंतितं स लभेत् परम् ॥४४॥ शृणुयाद्वा जपेद्वाऽपि तस्य किंचिन्न दुर्लभम् । भविष्यति महापक्षिन् मम संतोषकारकम् ॥४५॥ गणेशवचनं श्रुत्वाऽनूरुस्तं प्रणिपत्य च । जगाद साश्रुनेत्रः सन् सरोमांचो गजाननम् ॥४६॥ अनूरुरुवाच । भक्तिं देहि गणाधीश तव पादांबुजाश्रिताम् । गाणपत्यप्रियत्वं मे सदा संगं महात्मनाम् ॥४७॥ तथेति तमथोक्त्वाऽसौ विकटोऽतर्दधे स्वयम् । अनूरुः खेदसंयुक्तोऽभवत्तत्रैव संस्थितः ॥४८॥ ततः संस्थापयामास मूर्तिं गणपतेर्द्विजैः । भानुविनायक इति नाम चक्रे सुहर्षितः ॥४९॥ पूजयित्वा गणेशानं सूर्यं समागतोऽभवत् । अरुणस्तं प्रणम्यैव वृत्तांतं कथयत् परम् ॥५०॥ तेनैवं स्थापितं तत्रारुणो गणपतिं परम् । अभजद्रथसंस्थश्च योगशांतिपरोऽभवत् ॥५१॥ एवं विकटमाहात्म्यं भानुविघ्नेशगं परम् । तदीयांशावतारस्थं कथितं सर्वसिद्धिदम् ॥५२॥ शृणुयाद्यः पठेद्वापि श्रावयेद्वा नरः किल । स ईप्सितफलं प्राप्यंांते स्वानंदमवाप्नुयात् ॥५३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥
खं. ६ अ. ४४ पान १२३
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एकमेवाद्वितीयं यद्ब्रह्म वेदेषु शक्तयः । तदेव विकटः प्रोक्तस्तेन माया प्रकाशिता ॥१॥ मायायां बिंबितं ब्रह्म विकटस्य महात्मनः। आत्माकारं च सर्वत्र भ्रमस्थं जीववाचकम् ॥२॥ संज्ञा जाता ततस्तस्य विकटस्य परात्मनः । सा संज्ञाऽभूद्रवेर्भार्या माया खेलकरी परा ॥३॥ तस्यां बिंबमयाद्वीर्यान्नाना जीवा बभूविरे । तेषां सूतिकरः सोऽपि सूर्य इत्यभिधीयते ॥४॥ संज्ञया संयुक्तः सूर्यो ज्ञानहीनो बभूव ह । तपस्तताप घोरं स गणेशस्य महात्मनः ॥५॥ दिव्यवर्षसहस्रेणैकाक्षरेण सुतोषितः । प्रसन्नस्तं ययौ सोऽपि भक्तवात्सल्यकारणात् ॥६॥ उवाच तं रविं देवो वरं ब्रूहि हृदीप्सितम् । दास्यामि तपसा तुष्टो भवेदद्यपि दुर्लभम् ॥७॥ ततो भानुर्गणेशानं दृष्ट्वा हर्षसमन्वितः । संज्ञया सहसोत्थाय प्रणनाम गजाननम् ॥८॥ पुनः पुनर्ननामाथ तं संपूज्य महायशाः । कृत्वा करपुटं संज्ञायुतः स्तोतुं प्रचक्रमे ॥९॥ सूर्य उवाच । नमस्ते विकटायैव मायामायिकरूपिणे । वामांगे संज्ञया युक्त दक्षिणांगे च भानवे ॥१०॥ तयोर्योगे गणाधीश सिद्धिवृद्धिपतिर्मतः । गजाननादिचिह्नैश्र्च संयुतस्ते नमो नमः ॥११॥ एकमेवाद्वितीयं यद्ब्रह्म तदूर्णये कथम् । धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥१२॥ गजाननाय सर्वादिपूज्याय परमात्मने । हेरंबाय सदा ज्येष्ठराजाय ते नमो नमः ॥१३॥ परेशाय महाविघ्ननाशनाय महात्मने । दुरात्मभ्यो महाविघ्नदायकाय नमो नमः ॥१४॥ अनाधाय सनाथानां नाथाय सर्वदायिने । अनाथानां प्रणार्थाय नाथनाथाय ते नमः ॥१५॥ अनंतविभवायैवानंतमायाप्रधारिणे । ब्रह्मणस्पतये तुभ्यं कवये ते नमो नमः ॥१६॥ मूषकवाहनायैव सर्वांतरप्रचारिणे । मूषकध्वजिने तुभ्यं मयूरेश नमोस्तु ते ॥१७॥ किं स्तौमि त्वां गणाधीश पंचचित्तप्रचालक । अतोऽहं प्रणमाम्येव तेन तुष्टो भव प्रभो ॥१८॥ एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् । रुद्धकंठं प्रनृत्यंतं गणेशस्तं जगाद ह ॥१९॥ श्रीगणेश उवाच । मदीयस्तवनं चेदं सर्वदं संभविष्यति । त्वया कृतं पठेद्यश्र्च शृणुयात्तस्य सर्वदा ॥२०॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । संतुष्टोऽते ब्रह्ममयं करिष्यामि महामते ॥२१॥ दास्यामि त्वं वरान् ब्रूहि ह्यधुना भक्तिमोहितः । सस्त्रीकस्तान् महाभानो मम भक्ततरो मतः ॥२२॥ भानुरुवाच । प्रसन्नोऽसि यदा ढुंढे देहि भक्तिं त्वदीयिकाम् । ज्ञानं स्वाभाविकं देहि नानाकार्यकरं प्रभो ॥२३॥ परं सामर्थ्यमतुलं देहि सर्वात्मधारकम् । मां कुरुष्व गणेशान गाणपत्यप्रियं सदा ॥२४॥ त्वं मे पुत्रो भव स्वामिन् संसारे तारणात्मकः । तत्र त्वां पुत्रभावेन भजिष्यामि निरंतरम् ॥२५॥ हृदये चित्तसंस्थं त्वां मूर्तौ देवस्वरूपिणम् । तेनाहं कृतकृत्यश्र्च भविष्यामि
गजानन ॥२६॥ ओमित्युक्त्वा गणाधीशस्ततोऽन्तर्धानगोऽभवत् । सूर्य्यस्तं चिंत्य स्वस्थानं जगाम प्रियया सह ॥२७॥ सूर्य्यः सत्तासमायुक्तो ज्ञानवान्निर्ममे परम् । असङ्ग्रह्म ततः सर्वं नानारूपम कल्पयत् ॥२८॥ गणेशवरदानेन मोहहीनो बभूव ह । अभजतं सदा भानुर्भक्त्या योगींद्रवंदितः ॥२९॥ एकदा प्रियया युक्तः सस्मार गणनायकम् । तामिस्रासुरगर्वेण पीडितो बलवत्तरम् ॥३०॥ स्मृत्या समागतं तत्र गणेशं पुत्ररूपिणम् । बालं शुंडाधरं वीक्ष्य तं पप्रच्छ विभावसुः ॥३१॥ सूर्य उवाच । कोऽसि त्वं वद मां बाल गणेशाकृतिधारक । किमर्थमिह चायातः किं गणेशो भवान् परः ॥३२॥ सूर्य्यस्य वचनं श्रुत्वा तं जगाद गजाननः । स्मृतिजोऽहं सुतो भानो तव विघ्नेश्वरः स्वयम् ॥३३॥ पुरा दत्तो वरस्तेन पुत्रोऽहं ते समागतः । पालयस्व पितर्मां त्वं संज्ञया सह मानद ॥३४॥ तस्य तद्वचनं श्रुत्वा संज्ञया सह चार्य्यमा । प्रणम्यापूज्य तुष्टाव अथर्वशिरसा प्रभुम् ॥३५॥ एतस्मिन्नंतरे तत्राऽऽजगाम सुरसत्तमः । तामिस्रस्तं विलोक्यैव पपाल सविता भयात् ॥३६॥ उत्थाय गणनाथस्तं जघान मुष्टिघाततः । पातयामास भूम्यां स निर्जीवं दैत्यपुंगवम् ॥३७॥ मृतं दैत्यं विलोक्यैवाऽऽजगाम सविता पुनः । तं प्रणम्य स्थितो दूरे गणेशेन विमोहितः ॥३८॥ मोहितः संज्ञया सार्धं भानुस्तं गृह्य पुत्रकम् । लालयामास हर्षेण पुत्रभाव- परायणः ॥३९॥ गणेशमायया तत्र संज्ञा स्तनमपाययत् । वरं दत्वा गतं पुत्रं वरदाख्यं चकार तम् ॥४०॥ ततः सोऽन्तर्हित पुत्रो भानुः संमूर्च्छितोऽभवत् । संज्ञया च तयोर्हृद्धिर्हृदि संस्थो बभूव ह ॥४१॥ मा शोकं कुरुतं तातौ न वियोगश्च मे क्वचित् । मूर्तिं कृत्वा सदा तत्र पूजयेथां निरंतरम् ॥४२॥ ततस्तौ सावधानौ तु तथा चक्रतुरादरात् । भक्त्या गणपतिं नित्यं भजतः परमेश्वरौ ॥४३॥ शक्तय ऊचुः । कोऽसौ तामिस्रसंज्ञश्चासुरस्तस्य चरित्रकम् । वद शक्ते यदर्थं तु वरदः संबभूव ह ॥४४॥ आदिशक्तिरुवाच । सूर्य्योऽहंकारसंयुक्तो बभूवे जीवनात्मकः । सर्वेषां दीप्तिदाताऽहं मम दीप्तिकरो न च ॥४५॥ एवं बहौ गते काले विस्मृतो गणनायकम् । छायायां तस्य जज्ञेऽयं तामिस्रः पुरुषाकृतिः ॥४६॥ तं दृष्ट्वा हर्षितो भानुः पुत्रं मेने हितावहम् । अंधकारकरं पूर्णं वरदस्तमुवाच ह ॥४७॥ भानुरुवाच । त्रिगुणान्नभयं पुत्र भविष्यति कदाचन । त्रैलोक्यराज्यमुग्रं ते मया दत्तं विशेषतः ॥४८॥ यद्यदिच्छसि तत्तत्ते सफलं सर्वदा किल । भविष्यति च तामिस्र नाम भव सुभाग्यवान् ॥४९॥ तं प्रणम्य महादैत्यः पातालमगमन्मुदा । शुक्रेण प्रेरितैर्देत्यैः कृतो राजा सुरद्विषाम् ॥५०॥ सह तैर्मदसंयुक्तो जिग्ये ब्रह्मांडमंडलम् । राज्यं चकार दैत्यैश्र्चर्महाबलयुतो बभौ ॥५१॥ रविं तेजस्विनं दृष्ट्वा वैरभावेन
खं. ६ अ. ४५ पान १२५ संयुतः । अंधकारेण नित्यं संछादयामास शक्तयः ॥५२॥ निरर्थकं चकारासौ सूर्य तेजस्विनां वरम् । नानायत्नपरः सूर्यस्तं जेतुं न शशाक ह ॥५३॥ ततोऽहंकारहीनः स संस्मार गणनायकम् । गणेशेन हतो दैत्यः सूर्यभावप्ररक्षणात् ॥५४॥ एतत् सर्वं समाख्यातं सूर्यपुत्रस्य चेष्टितम् । वरदस्य महादेव्यः सर्वसिद्धिकरं परम् ॥५५॥ शृणुयादिदमाख्यानं पठेद्वा तस्य सर्वदम् । भविष्यति सदा चांते ब्रह्मभूयप्रदायकम् ॥५६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एवं नानावताराश्च धृतास्तेन महात्मना । विकटेन महादेव्यः संख्यातुं नैव शक्यते ॥१॥ भक्तिप्रियस्वभावेन भक्तानां विघ्ननाशनात् । कुरुते स्वावतारान् स विकटः परमेश्वरः ॥२॥ मयूरक्षेत्रमधुना गच्छध्वं तत्र चाप्यहम् । संस्थिता पूर्णरूपेणात्र कलांशात्मिका मुदा ॥३॥ तत्र विघ्नेश्वरं भक्त्या सेवेध्वं शक्तयः पराः । तेन योगींद्रवंद्याश्च भविष्यथ न संशयः ॥४॥ विषयादिषु भावेषु मा चित्तं कुरुत प्रियाः । गाणेशमार्गमाश्रित्य भजध्वं विकटं परम् ॥५॥ वेदादिषु गणेशस्य प्रीतिदं कर्म चोत्तमम् । तदेव भक्तिसंयुक्ताः कुरुध्वं नित्यमादरात् ॥६॥ गणेशमूर्तेश्च हृदि चिंतनं कुरुत प्रियाः । मानसीं बाह्यपूजां च गणेशप्रीणनाय ताम् ॥७॥ विषयेषु विरक्तत्वाद्विकटा भक्तिरुत्तमा । गणेशे सक्तचित्ता सा कर्तव्या नित्यमादरात् ॥८॥ मुद्गल उवाच । एवमुक्त्वा ददौ ताभ्यो मंत्रमेकाक्षरं परम् । सविधिं गणराजस्य ततो मौनं समादधे ॥९॥ प्रणम्य शक्तयः सर्वास्ततस्तां भक्तिसंयुताः । महाकालीमुखा दक्ष ययुः क्षेत्रं मयूरकम् ॥१०॥ मयूरके तत्र देवीं ददृशुस्ताः सुहर्षिताः । प्रणम्यापूज्य तां ढुंढिं ततस्तेपुस्तपो महत् ॥११॥ शतवर्षे गते तासां पुरतो मयूरेश्वरः । समाययौ ततस्तां ताः प्रणेमुर्हर्षसंयुताः ॥१२॥ पूज्य नानाविधैर्देवमुपचारैर्मनोरमैः । पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसंपुटाः ॥१३॥ महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः । मयूरेशाय विघ्नेशाय भक्तविघ्नहारिणे । विघ्नदात्रे ह्यभक्तेभ्यो गणेशाय नमो नमः ॥१४॥ लंबोदराय देवाय मूषकध्वजिने नमः । अनाथानां सनाधाय नमो नाथाय ते नमः ॥१५॥ परेशाय महेशेभ्यः सिद्धिदाय गजानन । अनंताय सदा स्वेभ्यः सर्वदाय नमो नमः ॥१६॥ ब्रह्मणां पतये तुभ्यं सदा
खं. ६ अ. ४५ | पान १२६
शांतिमयाय च । शांतीनां शांतिरूपाय परात्मने नमो नमः ॥१७॥ हेरंबाय नमस्तुभ्यं कवये कविरूपिणे । कविभ्यः पददात्रे च कवीशाय नमो नमः ॥१८॥ सिद्धिवुद्धिवरायैव सिद्धिवुद्धिप्रदायिने । सिद्धिवुद्धिप्रचालाय तद्रूपाय नमो नमः ॥१९॥ मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे । योगशांतिस्वभावाय शांतिदाय नमो नमः ॥२०॥ शक्तये भानवे तुभ्यं विष्णवे शंकरात्मने । नानारूपधरायैव खेलकाय नमो नमः ॥२१॥ किं स्तुमस्त्वां गणाधीश यत्र शांतिं प्रलेभिरे । वेदादयः शिवाद्याश्च नमामो मयूरध्वज ॥२२॥ भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके । तथेति ता गणाधीशो ह्यगदद्भक्तियंत्रितः ॥२३॥ इदं स्तोत्रं पठेद्यस्तु शृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाप्नुयात् ॥२४॥ एवं दक्ष महच्चित्रं चरितं कथितं मया । विकटस्य समासेन सर्वसिद्धिप्रदायकम् ॥२५॥ नानेन सदृशं किंचित् सर्वदं कुत्र वर्तते । साक्षाद्ब्रह्मप्रदं पूर्णं तत्र किं वर्णयाम्यहम् ॥२६॥ इदं विकटमाहात्म्यं शृणुयाद्यो नरोत्तमः । श्रावयेच्च पठेत्सोऽपि सर्वसिद्धिमवाप्नुयात् ॥२७॥ एकमावर्तनं नित्यं यः कुर्यात् स मतो परः । साक्षाद्विकटरूपः स दर्शनात् पावनो नृणाम् ॥२८॥ यावंति साधना- न्येव साधयेत् परमादृतः । शतवारं लभेत् पुण्यं खंडस्यास्य श्रवाच्च तत् ॥२९॥ इष्टापूर्तादिकं यस्तु कुर्याद्भक्तिसमन्वितः । तस्माच्छतगुणं पुण्यं श्रवणादस्य संलभेत् ॥३०॥ पुराणोपपुराणानि सेतिहासानि नित्यशः । शृणुयाच्च ततः पुण्यमनेन स्याच्छताधिकम् ॥३१॥ बहुनात्र किमुक्तेन यत्र ब्रह्मपतिः परः । वर्णितो विकटस्तेन समं किं संभवेद्वद ॥३२॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हर्षयुतोऽत्यंतं प्रणाम च मुद्गलम् ॥३३॥ मया संपूर्णभावेन कथितं ते द्विजोत्तम । कामनाशकरं पूर्णं विकटस्य चरित्रकम् ॥३४॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । नानेन सदृशं किंचित् किं भूयः श्रोतुमिच्छसि ॥३५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटचरितसमाप्तिवर्णनं नाम पंचचत्वारिंशत्तमोऽध्यायः ॥
॥ इति श्रीमुद्गलपुराणे षष्ठः खंडः समाप्तः ॥ ॥ श्रीगजाननार्पणमस्तु ॥
श्रीभूस्वानंद मोरेश्वर उर्फ मोरगांव दक्षिण अथ नित्य यात्रा ॥ नित्य यात्रां प्रवक्ष्यामि मयूर क्षेत्र वासिनाम् ॥ अन्यथा सर्वदा पुण्यान्नृणां भवेत्सुसमाहिताः ॥१॥ मयूरेशं समभ्यर्च्य परिवार समन्वितम् । ततो ऽष्टगणपान्पूज्य कुंडं नदीं प्रपूजयेत् ॥२॥ शमी मंदारकं दुर्वां चतुर्थीत्वचितः परम् ॥ मुद्रलं शुक योगींद्रं ततो मंडपगोभवेत् ॥३॥ चतुर्दिक्षु पूर्वादि क्रमेण संस्थितान्नरः ॥ तत्र धर्मार्थकामान् श्रुत्वाथथावकाश मागतः ॥४॥ पुनर्गणेश्वरं पूज्य गच्छेत्स्वंगृहंकृतः ॥ एवं कुर्यान्नित्ययात्रां सगणेशप्रियो भवेत् ॥ नित्ययात्रानरो यस्तु नकुर्याद्यदि देवपाः ॥ क्षेत्र वासफलं तस्य न भवेत्तूर्णं मंश्रसा ॥६॥ यातना सलभेदैर्ता संपूर्णा नैन्वी परौ ॥
[उजवीकडील उभा मजकूर / Right Border]
॥ इतिस्तव्ययात्रा ॥ ॥ अथ गया तीर्थमाहात्म्यम् ॥ तत्र सिद्ध प्रचेतेन ब्रह्म भूताः पितामहाः ॥ पितरश्च तयांत्येवं गदाधरेति भाविते ॥ क्षेत्रकाणनानो ऽष्टगाः सर्ववित्तिर्बुधुकः सर्वैगणेशतत्तः परम् ॥ द्वितीया यात्रा ॥ द्वारद्वि भुज गणेश आश्रव्या दक्षिणे विद्या- मार्कंडेय. मुकंड. अगस्त्य त्रैध्रुव. कौशिश दुर्वासा गालव पराशर षष्ठिदश कन्याः २१ वीस प्रजाः पतीतितीर्थं धनुष्ये ८०० दशप्रजा बभ्रुव्यादित्येवरून कुंतिकेस नाग धनुष्ये कार्तिकेय कुण्ड शक्ति. लांगूलगणेश. दंडि षडपदकोमारी. मातुका विद्यालक्ष्मी देवी विष्णू विष्णू धनुष्ये ८०० कुंड. स्वानन्दतीर्थ गणेश क्षेत्र मध्य भागीं कुंड चामुंडा शक्ति ब्राह्मि माहेश्वरी कौमारी वैष्णवी वाराहि इंद्राणी बुद्धिश सरस्वंती शेष. कऱ्हा नदी गणेश गया तीर्थ पांडवेश्वर. देवी रति कंदर्प धनुष्ये १००० परसाधिश्रिऋक्षर.
[डावीकडील उभा मजकूर / Left Border]
॥ अथपंचमी तीर्था ॥ अन्दोस्वात्वालु गणेशो मेचे चर्चितः परं ॥ कीर्ते व्यासतीर्थेच नाहिती क्रमनेरतः ॥ दृष्टिपंचथी थी यात्रा कुर्यातं ॥४॥ अथ सप्तमीतीर्था यात्रा॥ आंदोस्वान्यास गणंगेशे भौमे भर्विच्यमके ॥ पुष्येदा देव्या तो नैर्ऋत्ये कपिले गाणेषे पुनः॥ इति सप्तम्य याञा ॥ मार्जारी देवी लक्ष्मी नारायण २१५० दिगधर्व. अप्सरा. वल्क्य. शौनक. धाता. च्यवन. भृगुऋषीतितीर्थं. श्री ब्रह्म कमंडलू गंगा द्वार द्वि भुज गणेश विश्वावस्वा उर्वश्यादि याज्ञ पराशर भार्गव. विधाता. धनुष्य २०० चंद्र. हयव्याह.
[मध्यवर्ती भाग / Central Diagram - Outer & Inner Details]
वरचा भाग (दक्षिण द्वार व परिसर)
अथ मौद्दल पुराणोक्त मयूरेश्वर क्षेत्रवर्णनम्. द्वार द्विभुज गणेश विरजादेवी पार्वती शंकर धनुष्यें ७,५०० गौतम सिद्ध वारण. भरद्वाज जमदग्नि पिशाच भुतेश. मेधातिथि. रैवत. त्रित ऋषि. द्विजऋषि. जेमिनि. कण्व. वसिष्ठ ऋषयः धनुष्य ४०० वसिष्ठ. ऋषीत तीर्थः पौलस्त्य ऋषयः पुलस्त्य ऋषीत तीर्थः पौलाह ऋषी. पुलह ऋषीत तीर्थः अत्रेय ऋपयः अत्रि ऋषीत तीर्थ. अंगिरस ऋषयः अंगिरस ऋषीत तीर्थ.
मध्य-उत्तर/दक्षिण चौक व शिवलिंगे
केदारेश्वर. नीलकंठ धनुष्यें २५०० ममलेश्वर नर्मदा तीर्थ. गौरी स्कंद आय मादि पितर. घुष्णेश्वर. कैलास लोक महागणपति पार्वती सदाशिव. ॐ कार तीर्थ. उर्कटेश. मायापुरी दक्षयज्ञ. वैद्यनाथ. छिंडीश्वर. त्र्यंबक कपिल गणेश गंगा द्वार कुंड. गोदावरी कुंड. मल्लिकार्जुन सोमनाथ. सोमेश्वर तत्र समुद्र कुंड. महाकाल क्षिप्रा नदि कुंड धनुष्ये ४०० काशितत्र ढुंढिराज. विश्वेश्वर भागीरथी कुंडमनकर्णिका हिकुंड.
अंतर्भाग व सभामंडप (Yantra Precincts)
यमप्रमोदादिगण धनुष्ये ८५० चंड भैरव गरिमा ज्ञानेश. भालचंद्र महोदर दत्तात्रय. अर्थमंडप. शंभू कामदा आधारी भासुरी दृष्ट भोग वदि श्रीमयूरेश्वर सिद्धि- लक्ष कमलासुर लाभ मूषक ढुंढू सागर मयूर मुद्रल शुक. गणेशतीर्थं. कपिलातीर्थं व्यासतीर्थं अंदोतीर्थ. लघिमा महिमा प्राप्ति कामरुषि सिद्धि. प्राकाम्या विनायक गजानन मयूरासन गिरि विनायक बाल सूर्य श्री राम कृष्ण यजुने. तीर्थं संनकादिक. कपिल. शेष कल्की प्रभुभूत परशूराम हयग्रीव अनिरुद्ध गोमती तीर्थ. अक्षिणेशे धनुष्ये १७७, भैरव. सिद्धिविनायक विष्णू हयग्रीव. नर नारायण ऋषि. व्यास बुद्ध.
खालील भाग व नद्यांचे प्रवाह
द्वार नग्न भैरव वैकुंठ लोकतत्र विष्णु मत्सय वामन नरसिंह धनुष्ये १० धनुष्य ९० द्वारकानत्र प्रद्युम्न. धनुष्ये १०५ सत्यतीर्थ. मोहिनी. ऋभु. यक्ष. अग्नि. नारद. अयोध्या तत्र हेरंब. गणेश राम लक्ष्मण भरत शत्रुघ्न अनिरुद्ध. अतिविनायक गर्भास्ति रवि सूर्य क्षेत्र विनायक दिवो काशि शक्ति शिव हेरंब सोम. भार्गव. उग्रेश्वर. सूर्य लोक तत्र सूर्य वरद गणेश. बुध. जीव. भौमेश्य धनुष्ये ४३२४ भैरव. भानुदेवस्त्यर्क सूर्य. धनुष्यें ४०० द्विक. चिंतामणि सिद्धि. बुद्धि पति सरस्वती नदि कुंड. महाकाली सिद्धीआश्रम तीर्थं. महाकाय. प्राकाम्या. उग्रमेघ. विनायक नारद. कुण्ड २५०० गोदातीर्थं क्षिप्रातीर्थं भागीरथीतीर्थं. १५०० भैरव आमोदी शक्तिर्क बोद्ध. चित्रा. शांकबरी. नार सिंही. मारिच ऋषयः मारिची ऋषीत तीर्थ. असित देव कीततीर्थं मार्कंडेय. क्रतव ऋषी. क्रतव ऋषीत तीर्थ. सौद्रल कामधेनू तीर्थ. धनुष्यें ५०० अष्टी वस्युत तीर्थं. साध्या. वामदेव. विश्वकेतु. अरूण. विश्वेदेवाः दिव्य गार्ग्य चाक्र-वाशि वाल्मिक कंकटेश. सुभद्रं क्षेत्रपालन. जाटाभि ऋषि. पर्वत. पेल ऋषयरेणु कामेश्र्वरी भांडयन्त गुह्यक. द्वार द्विभुज गणपुकुटी मष्ठी वराह धनुष्ये ८७५० हनूमान यज्ञरक्षोगण. सरद्वाणादि नग्न भैरवांचे दूत. प्रभावाकृती सरोवर तत्र ॐ कार गणेश क्षेत्र.
[तळाकडील उलटा मजकूर / Bottom Inverted Text]
उत्तर अथ हरा याना प्रारभः॥ प्रातः स्नात्वा महानाद्यां गणेशां प्रति पूजयेत् ॥१॥ ततः स्नानं नरः कुर्याद्धरदादौसमत्स्येव ॥२॥ पुनः स्नानं ततः कृत्वा गणेशंपूजयेत्स्वयम् ॥ पुष्पेण घृर्तधूपैश्च सद्य तिस्तैलप्रदीपयाः ॥३॥ नियमस्य स्व गावेन गृहोहास्तरणगादिकम् ॥ मासे माघतुवे चैव शुचे पदे विहेष च ॥ भौमेयादौरेन ह्यरायाचा प्रकीर्तिता ॥३॥ अष्टधा प्रति मास्तेषु शूलू पक्षे मयूरेशम् ॥ द्वार यात्रा मयोनित्यं नरः सर्वाथसिद्धये ॥४॥ अथ श्वथागणराजय स्वामदारुणानदीतीरे ॥ तावत्तनिरुकं त्वा वैयरा कर्तुं सतोमहान्नरैः॥५॥ वृद्धनीरोग युक्तानांनियमोनाविवद्यते ॥ बालान्तरेसर्वथा तत्र याञा मोक्ता मनीषिभिः ॥६॥ हुर रूपा स्वयंतत्र वाइनस्तौ गतिं चरेत् ॥ एवं माधवर्यन्तः ॥ इति हरयात्रा ॥
[तळाचा तळटीप मजकूर / Footer]
(श्री. डॉ. के. श्री. जावळे यांचे कडून प्राप्त.) चित्रशाळा प्रेस, पुणे २
निजे भूस्वानंदे जडभरत भूम्यां पर तरे । तुरीयायास्तीरे परम सुखदे त्वं निवसन् ॥ मयूरानाथः त्वमसिच मयूरेश भगवान् । अतस्त्वां संध्याये शिव हरि रवी ब्रह्म जनकम् ॥१॥
पत्ता : श्री अनिरुद्ध साबाजी राज्याध्यक्ष १६४, लक्ष्मी निवास, हिंदु कॉलनी, दादर, मुंबई नं. १४. श्रावण शु॥ चतुर्थी शनिवार शके १८८५ ता. ३१ जुलै १९६५ नकल केली असे.
॥ इति श्रीमुद्गलपुराणे षष्ठः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे सप्तमः खंडः प्रारभ्यते ॥
खं ७ अ. १ पान १
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । विकटस्य चरित्रं वै श्रुत्वा सूत महामते । हर्षितोऽहं विशेषेण ब्रह्मभूयप्रकाशकम् ॥१॥ यत्किंचिद्गणराजस्य चेष्टितं व्यासशिष्यक । तदेव ब्रह्मसायुज्यदायकं नाऽत्र संशयः ॥२॥ धन्यं भाग्यं मुनींद्राणां मदीयं येन ते द्विज । दर्शनं साधुरूपस्य जातं योगप्रदस्य च ॥३॥ योगवृष्टिमयीं गाथां च्युतां त्वन्मुखमेघतः । पीत्वा न यामि तृप्तिं च सुधां पीत्वा यथा नरः ॥४॥ अधुना कृपया ब्रूहि विघ्नराजस्य चेष्टितम् । ममासुरविनाशार्यं ब्रह्मप्राप्तिकरं परम् ॥५॥ सूत उवाच । मुद्गलस्य मुखात् पुण्यां कथां श्रुत्वा प्रजापतिः । विकटस्य पुनस्तं च जगादैव स हर्षितः ॥६॥ दक्ष उवाच । धन्यं मे जन्म कर्मादि येन तेऽभूत्समागमः । वदसे योगदां पूर्णां कथां योगींद्रवंदित ॥७॥ आंगिरसकुले साक्षाद्योगरूपधरः प्रभो । त्वं जातोऽसि न संदेहः कुलतारक एव च ॥८॥ अधुना वद माहात्म्यं विघ्नराजस्य सर्वदम् । श्रुतं विकटमाहात्म्यं न तृप्तोऽहं तु मुद्गल ॥९॥ कीदृशं ब्रह्म तस्याऽपि किमर्थं देहधारकः । किं कर्मा कुत्र वासः संतिष्ठते विघ्ननायकः ॥१०॥ कस्य दैत्यस्य हंताऽसौ चरित्रं वद सर्वपम् । विघ्नराजस्य सर्वं तु विचारेण महात्मनः ॥११॥ मुद्गल उवाच । दक्ष त्वं योगिवंद्यश्च भविष्यसि न संशयः । कथां श्रुत्वा गणेशस्य प्रीतिः संवर्धते यतः ॥१२॥ समासेन प्रवक्ष्यामि विघ्नराजस्य सौख्यदम् । चरित्रं शृणु भावेन सर्वसिद्धिप्रदायकम् ॥१३॥ अत्र ते कथयिष्यामि पुरातनभवं परम् । इतिहासं कश्यपस्य दित्याः संवादसंयुक्तम् ॥१४॥ महासुरोऽदितेः पुत्रो हिरण्यकशिपुर्महान् । हिरण्याक्षो हतो पूर्वं विष्णुना मायया परौ ॥१५॥ ततोऽतिशोकसंयुक्ता दितिः कश्यपमाययौ । सेवायां निरता तस्य नित्यं भक्तिपरायणा ॥१६॥ एवं बहौ गते काले काश्यपस्तोषमाययौ । तामुवाच वरं ब्रूहि ततस्तं सा जगाद ह ॥१७॥ दितिरुवाच । मम पुत्रौ हतौ तेन विष्णुना मघवार्थतः । अत इंद्रघ्नपुत्रं मे देहि तुष्टोऽसि कश्यप ॥१८॥ तस्यास्तद्वचनं श्रुत्वा शोकयुक्तो बभूव ह । अहो साधुचरित्राऽपि स्त्री विश्वास्या न केनचित् ॥१९॥ अधुना किं करिष्यामि धर्मपालकमुत्तमम् । साधुं गुणयुतं पुत्रमिंद्रं रक्षामि वै कथम् ॥२०॥ अतो विघ्नेश्वरं स्मृत्वा तां जगाद प्रजापतिः । व्रतं कुरु प्रयत्नेन वर्षमात्रं महाखले ॥२१॥ तदा ते भविता पुत्रो हंतेद्रस्य न संशयः । छिद्रं मा कुरु भावेन व्रते विघ्नयुताऽपि चेत् ॥२२॥ एवमुक्त्वा गणेशं स ध्यात्वा रेमे तया सह । तस्यां वीर्यं समाधाय व्रतं ददौ सुपुत्रदम् ॥२३॥ प्रणम्य स्वगृहं सा तमाययौ हर्षसंयुता । व्रतं चकार यत्नेन नियमस्था प्रजापते ॥२४॥ तत इंद्रेण वृत्तांतो ज्ञातो नारदवाक्यतः । गणेशं मनसि ध्यात्वा निःश्वासं स मुमोच ह ॥२५॥
खं. ७ अ. १ पान २
ततस्तस्य हृदिस्थो वै विघ्नराजो मतिं ददौ । इंद्रस्तामाययौ देवीं मातरं सेवनोत्सुकः ॥२६॥ दितिं सिषेवे नित्यं स व्रतयुक्तां प्रणम्य ह । छिद्रदर्शी प्रजानाथ भक्तियुक्तः प्रतापवान् ॥२७॥ नवमासा गतास्तत्र तथापि छिद्रकं परम् । किंचिन्न ददृशे सोऽपि विह्वलोऽभूत् सुरेश्वरः ॥२८॥ विघ्नराजं हृदि ध्यात्वा चिंतायुक्तः सुराधिपः । तां सिषेवे युतो भक्त्या सदा तन्मयचेतसा ॥२९॥ दशभिर्दिवसैन्यूनं वर्षं तत्र गतं किल । ततोऽतितापसंयुक्तः किं भविष्यति विह्वलः ॥३०॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वयं सा मोहिता देवी भ्रांता जाता सहर्षतः ॥३१॥ विचारमकरोचित्ते व्रते संवत्सरो गतः । किंचिन्न्यूना च मे वाञ्छा सिद्धा जाता न संशयः ॥३२॥ हित्वा त्रिलोकगं राज्यं सुत ऐंद्रं करिष्यति । ममोदरात् समुत्पन्नः कृतकृत्याऽस्मि सांप्रतम् ॥३३॥ ततोऽतिनिद्रया देवी पीडिता मस्तकं मुदा । जानुमध्ये समाकृत्य सुष्वाप मोहसंयुता ॥३४॥ दिवसे निद्रया तस्या व्रतं भग्नं बभूव ह । जानुमध्ये शिरस्तेन द्वे छिद्रे संबभूवतुः ॥३५॥ इंद्रस्तां तादृशीं दृष्ट्वा हर्षितोऽभूद्गजाननम् । स्मृत्वा वज्रं समागृह्योदरं विवेश मायया ॥३६॥ तत्र तेजोधुतं गर्भं ददर्श देवनायकः । चकार तस्य वज्रेण सप्त खंडानि वैरुतः ॥३७॥ तपसोग्रेण दित्याः स न ममार तथाप्यहो । रुरोद सप्तदेहस्थो गर्भस्तेजस्विनां वरः ॥३८॥ दृष्ट्वा विस्मितचित्तः स स्मृत्वा विघ्नेश्वरं पुनः । एकैकं सप्तधा कृत्वा संस्थितो वज्रधारया ॥३९॥ तथापि न ममराऽसौ गर्भः परमपावनः । तावद्देहधरो भूत्वा रुरोद भयविह्वलः ॥४०॥ जगाद मघवंतं स गर्भो हंसि सुरेश्वर । किमर्थं भ्रातरस्ते वै वयं सर्वे न संशयः ॥४१॥ तेषां तद्वचनं श्रुत्वा पुनरिन्द्र उवाच तान् । वैरभावं परित्यज्य भविष्यथ दिवौकसः ॥४२॥ तथेति तैः कृतं तत्र बहिरिंद्रः समाययौ । ततो दितिः प्रजानाथ जगागार शुशोच ह ॥४३॥ एतस्मिन्नंतरे तत्र पुत्रान् सा सुषुवे परान् । एकोनपंचाशत्कांस्तु वीक्ष्य चंद्रमुवाच सा ॥४४॥ दितिरुवाच । इंद्र किं बहवः पुत्रा एकः संकल्पितोऽभवत् । वद सत्यं महाभाग चेज्जानासि सुरेश्वर ॥४५॥ इंद्र उवाच । मया ज्ञातं त्वदीयं यच्चेष्टितं मेऽत्र नाशकम् । मातस्तदर्थमायातः सेवार्थं ते न संशयः ॥४६॥ छिद्रं दृष्टं व्रते मातस्तत एतत् कृतं मया । वज्रेण जठरे गत्वा गर्भं छित्त्वा बहिर्गतः ॥४७॥ तपोबलेनैव नव न मृतास्ते सुता इमे । स्वयं प्राणधरा जाता वायवश्च भवंतु हि ॥४८॥ तान् गृह्य मघवा स्वर्गं जगाम न शशाप सा । सत्यभाषणसंयुक्तमिंद्रं तुष्टा बभूव ह ॥४९॥ कदा दैत्यान् समालोक्य
खं. ७ अ. २ पान ३ 業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業 दीनान् शोकपरायणा । पुनः कश्यपमागत्य प्रणनाम पतिव्रता ॥५०॥ जगाद तं सुदुःखेन युक्ता प्रजापतिं वचः । विनयेन समायुक्ता स्वार्थमोहयुता परा ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते दितिशोकवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दितिरुवाच । स्वामिन् पुत्रौ मृतावादौ पुनस्त्वद्वरदानतः । पुत्रो जातो महेंद्रस्य मित्रं नानास्वरूप- धृक् ॥१॥ दैत्या दुःखयुता नाथ तदर्थं किं करोम्यहम् । निष्फलो मे समारंभो भवति स्म निरंतरम् ॥२॥ मूर्धनि त्वयि मे नाथ समर्थे दुःखमीदृशम् । मया प्राप्तं विशेषेण किं करोमि वदस्व माम् ॥३॥ पुत्रपौत्रादिसंयुक्तः संसारः परिकीर्तितः । स एव त्वयि संस्थे मे निष्फलः प्रबभूव ह ॥४॥ मुद्गल उवाच । तस्यास्तद्वचनं श्रुत्वा खिन्नायास्तां प्रजापतिः । जगाद स्मयमानः स योगींद्रः परमार्थवित् ॥५॥ कश्यप उवाच । मा खेदं कुरु कल्याणि कर्मणां गतिरीदृशी । संसारो दुःख- मोहादियुक्तः शास्त्रे निगद्यते ॥६॥ दैत्याः पापसमाचारा देवाः पुण्यतमा मताः । पापिनां न सुखं देवि शाश्वतं वेद- वादतः ॥७॥ कथितं वेदवादेषु वचनं सत्यमेव तत् । भविष्यति न संदेहो ममतां तत्र मा कुरु ॥८॥ पुत्रा जाताः प्रिये ते ये तेषां पुत्रादयः स्मृताः । एवं परंपरा जाता भविष्यति निरंतरम् ॥९॥ न वंशच्छेदिता ते तु भविष्यति कदाचन । दैत्या मृत्युयुताः प्रोक्ताः किमर्थं श्राम्यसे वृथा ॥१०॥ कश्यपस्य वचः श्रुत्वा दितिस्तं पुनरब्रवीत् । शोकसंतप्तगात्रा सा पतिं तेजस्विनां वरम् ॥११॥ दितिरुवाच । सृष्टिकर्ता स्वयं साक्षात्त्वं समर्थो न संशयः । अकर्तुं कर्तुमीशश्चान्यथा कर्तुमपि प्रभो ॥१२॥ ममतां सर्वभावेषु त्यक्त्वा त्वं योगिसत्तम । संस्थितोऽसि यथा वेदवादं ज्ञात्वा महामते ॥१३॥ अहं मोहसमायुक्ता सदा तापत्रयान्विता । दहामि ममतात्यागमार्गं मे ब्रूहि मानद ॥१४॥ येन शांतिं समालभ्य स्थास्यामि दाहवर्जिता । तत्सुखेनैव भवतु भावि यत्तादृशीं कुरु ॥१५॥ तस्यास्तद्वचनं श्रुत्वा कश्यपो दयया युतः । शांतिमार्गार्थमेवं तां जगाद हर्षसंयुतः ॥१६॥ कश्यप उवाच । अत्र तेऽहं वदिष्यामीतिहासंच पुरातनम् । तं ज्ञात्वा शांतियुक्ता त्वं भजि-
खं. ७ अ. २ पान ४ ष्यसि गजाननम् ॥१७॥ हिमाचलसुता जाता पार्वती भगिनी च ते । तपसाऽऽराधिता तेन महामाया परात्परा ॥१८॥ हिमाचलं समाश्रित्य शिवो ध्यानपरायणः । तताप तप उग्रं स गणेशं चिंत्य सर्वदा ॥१९॥ अत्रागत्य महेशानं पार्वती सेवनोत्सुका । पतिं ज्ञात्वा विशेषेण सिषेवे यत्नसंयुता ॥२०॥ महादेवो विदित्वा तां मनसि क्रोधमादधे । मामुलंघ्य गता दक्षाध्वरे चेयं विशेषतः ॥२१॥ स्वाज्ञाहीना न योग्या वै पत्नी वेदे प्रकीर्तितम् । अतः पत्नीविहीनः सन् भजेऽहं विघ्नपं सदा ॥२२॥ एवं मनसि संधार्य न तां मेने महेश्वरः । समागतां तया सोऽपि भाषणं न चकार ह ॥२३॥ ततोऽति- खेदसंयुक्ता पार्वती तं महेश्वरम् । सिषेवे भक्तिसंयुक्ता नियमस्था सुरूपिणी ॥२४॥ हावभावसमायुक्तां नित्यं सेवा- परायणाम् । जगाम पर्वताद्वीक्ष्य पतिभावकरीं शिवः ॥२५॥ गतं सदाशिवं वीक्ष्य पार्वती शोकसंयुता । देहत्यागे समारब्धा सस्मार द्विरदाननम् ॥२६॥ तस्य स्मरणमात्रेण स्फूर्तिर्जाता परा हृदि । विचारमकरोचित्ते शिवा दुःख- समन्विता ॥२७॥ मां त्यक्त्वा शंकरो देवो गतो मानसमन्वितः । न वृणोति कदाचित् स निश्चितं शंकरेण तत् ॥२८॥ वेदे संकथितं वाक्यं तपसा दुर्लभं कदा । किंचिद्भवेन्न तं देवं तपसाऽऽराधयाम्यहम् ॥२९॥ एवं निश्चित्य सा देवी तताप तप उत्तमम् । ध्यात्वा सदाशिवं नित्यं वनस्था सखिसंयुता ॥३०॥ पंचाक्षरविधानेन तोषयामास शंकरम् । लिंगपूजापरा देवी नानातपःपरायणा ॥३१॥ एवं बहौ गते काले न तुतोष सदाशिवः । क्रोधयुक्तः स्वभावेन न तां मेने कदाचन ॥३२॥ ततो विघ्नेश्वरं देवी मंत्रेणैकाक्षरेण च । तोषयामास तं ध्यात्वा नित्यं पूजापरायणा ॥३३॥ त्यक्त्वा सदाशिवं देवी गणेशभजने रता । ततः स्वल्पेन कालेन शिवबुद्धिश्चचाल ह ॥३४॥ श्रावणे शुक्लपक्षे सा चतुर्थ्यां मृन्मयं परम् । कृत्वा गणेश्वरं नित्यं पूजयामास भक्तितः ॥३५॥ वायुमात्राशना देवी तां मूर्तिं भावसंयुता । पूज्य ध्यानपरा भूत्वा जजाप मंत्रमुत्तमम् ॥३६॥ पुरश्चरणमार्गेण मंत्रं जजाप नित्यदा । ततस्तां शंकरो देवो मनसा संगतोऽभवत् ॥३७॥ शिवश्चिन्तां चकारैवं देवी तपसि संस्थिता । अधुना तां गमिष्यामि मदर्थं नियमान्विताम् ॥३८॥ देहभृदपराधैश्च संयुक्तो जायते कदा । अतः क्षमापनं कृत्वा वरिष्यामि न संशयः ॥३९॥ एवं विचार्य देवेशस्तां ययौ पार्वतीपतिः । दृष्ट्वा श्रमयुतां देवीं विस्मितो मोहितोऽभवत् ॥४०॥ ब्रह्मचारिस्वरूपेण निंदयामास शंकरम् । सा तं क्रोधयुता भर्त्स्य निर्ययौ वनगाचरत् ॥४१॥ ततोऽतितोषसंयुक्तः शंकरो रूपमादधे । स्वकीयं तद्विलोक्यैव ननाम जगदंबिका ॥४२॥ तुष्टाव तं महादेवं ततः स
खं. ७ अ. ३ पान ५ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ वरदोऽभवत् । जगाद मोहसंयुक्तः पार्वतीमीश्वरेश्वरः ॥४३॥ शिव उवाच । वरं वृणु महाभागे तपसा विजितस्त्वया । दास्यामि नात्र संदेहस्त्वदधीनोऽहमादरात् ॥४४॥ त्वदाज्ञावशगो भूत्वा स्थास्यामि नित्यमंजसा । भार्या मे भव कल्याणि पतिस्तेऽहं पुरातनः ॥४५॥ पार्वत्युवाच । यदि प्रसन्नभावेन वरं दास्यसि शंकर । तदा मे पितरं गत्वा भार्यार्थं याचयस्व माम् ॥४६॥ पतिव्रतात्मकं धर्मं देहि मे विघ्नहीनकम् । तेन तुष्टा महादेव त्वयि नित्यं परायणा ॥४७॥ शिव उवाच । त्वयोक्तं सफलं सर्वं भविष्यति न संशयः । पितरं याचयित्वा ते त्वां वरिष्यामि निश्चितम् ॥४८॥ अहो तपो ह्यहो धैर्यमतस्ते देहजो मलः । सर्वपूज्यो महादेवि भविष्यति न संशयः ॥४९॥ कश्यप उवाच । तस्मिन् दिने तृतीया तु भाद्री शुक्ला बभूव ह । शिवेन संयुता देवी गणेशानं पुपूज ह ॥५०॥ ततश्चतुर्थिकायां सा होमं चकार हर्षिता । पंचम्यां ब्राह्मणैः सार्धं पारणं जगदंबिका ॥५१॥ महोत्सवयुता देवी मूर्तिं तां गृह्य हर्षिता । जले चिक्षेप विघ्नेशं प्रार्थयामास यत्नतः ॥५२॥ ततः शिवो जगामैव स्वस्थानं हर्षसंयुतः । गत्वा प्रणम्य पितरं पार्वती संस्थिताऽभवत् ॥५३॥ ॥ ओमिति मदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः ॥ ➔★🠔 ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । गणेशव्रतपुण्येन मोहितः शंकरः सदा । तन्मना अभवद्देवो विप्रवेषधरो बभौ ॥१॥ हिमाचलं समागम्य स्मृत्वा विघ्नेश्वरं शिवः । नानाकलां प्रदर्शयैव मोहयामास तं क्षणात् ॥२॥ हिमाचलो जगादैव वरं वृणु यमिच्छसि । दास्यामि मदधीनं चेन्नात्र कार्या विचारणा ॥३॥ द्विज उवाच । उमां देहि नगाधीश नान्यं याचे वरं परम् । ततः स खेदसंयुक्तस्तूष्णीमेवाऽभवद्गिरिः ॥४॥ तं चातिशोकसंयुक्तं दृष्ट्वोवाच जगन्मयी । उमा तं देहि मां तात शिवोऽयं नात्र संशयः ॥५॥ ततः स हर्षितोऽत्यंतं ददौ तस्मै सुतां प्रिये । शिवः स्वस्थानमागम्य देवैः संमानितोऽभवत् ॥६॥ लग्नं शुभं समालोक्य पूजयित्वा गजाननम् । देवाद्विभिः समायुक्तः पर्वतेशं ययौ शिवः ॥७॥ हिमाचलः प्रसन्नात्मा विवाहमकरोत्ततः । शिवयोर्भक्तिसंयुक्तो ब्राह्मणैर्वेदपारगैः ॥८॥ शिवां गृह्य महेशानः कैलासमगमत् स्वयम् । तया रेमे ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
ख. ७ अ. ३ पान ६ महायोगी ततः स्कंदो बभूव ह ॥९॥ गणेशानं समाराध्य तारकं दैत्यनायकम् । जघान सुखसंयुक्तं चकार सचराचरम् ॥१०॥ शिवः शक्त्या समायुक्तो मोहितो मायया भृशम् । तदधीनस्वभावेनाऽतिष्ठन्नित्यं महासती ॥११॥ कदाचित् पार्वती देवी सखीभिः संवृता स्थिता । मनसा धारयामास धन्याऽहं सर्वभावतः ॥१२॥ शिवं त्यक्त्वा दक्षगृहे गताऽहं मानसंयुता । देहं त्यक्त्वा पुनर्जाता हिमाचलगृहे सुता ॥१३॥ देवोशो मां ततस्त्यक्त्वा शंकरः पर्वतांतरे । गतः स्वयं स याचित्वाऽवृणोन् मां पितरं प्रभुः ॥१४॥ किं त्यक्त्वा मां गतः शंभुः किं पुनर् याचिता ह्युत । अधुना मदधीनः स वर्तते नात्र संशयः ॥१५॥ मदीया ममता सर्वा पूर्णा जाता विशेषतः । मानिनीनां रहस्यं तु मया संरक्षितं भवेत् ॥१६॥ एवं मनसि हर्षेण धन्यात्मानं नगात्मजा । मेने नित्यं ततः सर्वाः सख्यस्तां वचनं जगुः ॥१७॥ सख्य ऊचुः । धन्या त्वं मानिनीमध्ये मानो जित्वा तु शंकरम् । तपसा रक्षितो देवि त्वदधीनः शिवोऽभवत् ॥१८॥ तच्छ्रुत्वा जगदंबा साऽतीव मानयुताऽभवत् । हास्यं चकार तत्रैव चित्रं देवि बभूव ह ॥१९॥ तस्या हास्यात् समुत्पन्नः पुरुषः कामसन्निभः । ममनामा महाभागो महान् पर्वतसन्निभः ॥२०॥ सा दृष्ट्वा विस्मिता देवी सखीभिस्तमुवाच ह । कस्त्वं कस्मादिहायातः कस्य किं च चिकीर्षसि ॥२१॥ पुरुष उवाच । तव हास्यात् समुत्पन्नं पुत्रं मां विद्धि मानदे । आज्ञां कुरु करिष्यामि त्वदीयां सर्वभावतः ॥२२॥ पार्वत्युवाच । मया मानः कृतः पूर्णः तस्मात् त्वं निर्गतः स्वयम् । ममनामा भवस्वाद्य पुत्र मानपरायणः ॥२३॥ गणेशं भज भक्त्या त्वं स ते सर्वं प्रदास्यति । तेन सर्वत्र विश्वस्मिन् विख्यातः प्रहविष्यसि ॥२४॥ ततस्तस्मै महादेवी ददौ मंत्रं षडक्षरम् । गणेशस्य प्रहर्षेण विधियुक्तं सुताय सा ॥२५॥ स तां प्रणम्य देवेशीं तपसे वनमाययौ । तत्राऽऽजगाम दैत्येशः शंबरः कालचोदितः ॥२६॥ पप्रच्छ पार्वतीपुत्रस्तं दृष्ट्वा को भवानिति । किमर्थमिह संप्राप्तो वद मे कारणं महत् ॥२७॥ शंबर उवाच । विद्यां दातुं महाभाग समायातोऽहमादरात् । समर्थस्त्वं तया नित्यं भविष्यसि न संशयः ॥२८॥ एवमुक्त्वा महादैत्यो विद्यां नानाविधां ददौ । आसुरीं तां ममो नाम साधयामास यत्नतः ॥२९॥ साधयित्वा स्वयं विद्यां कामरूपो बभूव ह । नानासामर्थ्यसंयुक्तस्ततो वै हर्षितोऽभवत् ॥३०॥ शंबरं प्रणिपत्यैव जगाद वचनं हितम् । भक्तियुक्तस्वभावेन कृतांजलिरुदारधीः ॥३१॥ ममासुर उवाच । त्वया कृतं महाभाग महत् कार्यं मदीय कम् । अधुना शिष्यभूतं ते शाधि मां किं करोम्यहम् ॥३२॥ शंबर उवाच । गणेशं शक्तिदत्तेन मंत्रेणाराध्य मानद । ब्रह्मांडराज्यमुग्रं तं याचयस्व महाप्रभुम् ॥३३॥
[Header] खं. ७ अ. ३ पान ७
तत्त्वैश्च तत्त्वसंभूतैर्न मे मृत्युर्भवेत् प्रभो । याचस्व सर्वभावेन नान्यं कंचिद्वरं परम् ॥३४॥ वरान् लब्ध्वा महाभाग मद्गेहे संगतो भव । पश्चात् किंचित् कुरुष्व त्वमिति याचेऽहमादरात् ॥३५॥ तथेति शंबरं सोऽपि ममनामा जगाद ह । शंबरः स्वगृहं गत्वा हर्षयुक्तो बभूव ह ॥३६॥ ममस्तत्र समासीनस्तपस्तेपे सुदारुणम् । वायुमात्राशनो देवि ध्यात्वा हृदि गजाननम् ॥३७॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । प्राणशेषं ममं तत्र ययौ दातुं वरान् स्वयम् ॥३८॥ आगतं गणनाथं स न बुबोध महासुरः । ध्यानसंस्थं गणाधीशस्तमुवाच दयायुतः ॥३९॥ श्रीगणेश उवाच । वरान् ब्रूहि महाभाग मम ते हृदि संस्थितान् । दास्यामि तपसा तुष्टो मंत्रसेवनतः परम् ॥४०॥ गणेशवचनं श्रुत्वा मम उन्मील्य लोचने । पश्यन् विघ्नेश्वरं सोऽपि सत्तायुक्तो बभूव ह ॥४१॥ उत्थाय तं नमस्कृत्य पूजयामास भक्तितः । पुनः प्रणम्य तं स्तोतुं स्तोत्रं सोऽपि समारभत् ॥४२॥ ममासुर उवाच । नमस्ते गणनाधाय गणानां पतये नमः । गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥४३॥ विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे । भक्तानां विघ्नहर्त्रे ते इतरेषां प्रहारिणे ॥४४॥ अनाथानां प्रणानाथ नाथाय नाथदायिने । नाथानां नाथरूपायानाथाय तु नमो नमः ॥४५॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्राह्मणानां च पालकाय नमो नमः ॥४६॥ अमेयशक्तये चैव शक्तिरूपधराय ते । शक्तिभ्यः शक्तिदात्रे ते शक्तिशक्ते नमो नमः ॥४७॥ परेशाय परेभ्यस्तु परपदप्रदायिने । पराय पररूपाय परात्पर नमोऽस्तु ते ॥४८॥ ज्येष्ठराजाय ज्येष्ठेभ्यः परपदप्रदायिने । ज्येष्ठाय ज्येष्ठहीनाय मात्रे पित्रे नमो नमः ॥४९॥ विघ्नेश्वरानंतविहारकारिन् स्वानंददात्रे सकलानुगोप्त्रे । सिद्धेश्च बुद्धेः पतये परात्मन् हेरंब सर्वत्र नमो नमस्ते ॥५०॥ किं स्तौमि योगप्रदमेकदंतं योगस्वरूपं परमार्थभूतम् । स्तोतुं न शक्ताः प्रभवंति वेदाः शंर्भादयो योगिन एव ढुंढिम् ॥५१॥ धन्योऽहं सर्वभावेभ्यो दृष्ट्वा देवं गजाननम् । अगम्यं योगिनां साक्षात् कृतकृत्योऽहमंजसा ॥५२॥ वरदोऽसि गणाधीश तदा मे तत्त्वभिः कदा । न भवेत्तद्भवैभ्यो वै मरणं त्वत्प्रसादतः ॥५३॥ यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो । आरोग्यादि समायुकतं मां कुरुष्व गजानन ॥५४॥ राज्यं ब्रह्मांडगोलस्य देहि मे वाञ्छितप्रद । संग्रामे न समं तत्र किंचिद्भवतु विघ्नप ॥५५॥ सदा विजयसंयुक्तमजेयं शंकरादिभिः । मां कुरुष्व गणाधीशामोघशस्त्रप्रधारिणम् ॥५६॥ श्रीगणेश उवाच । दुर्घटं कथितं सर्वं त्वया दैत्येंद्रनायक । तुष्टस्तथापि
दास्यामि त्वयोक्तं ते भविष्यति ॥५७॥ स्तोत्रं भवत्कृतं मे च कामदं काममिच्छते । भविष्यति न संदेहो भुक्तिमुक्तिप्रदं तथा ॥५८॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मणां पतिः । ममासुरः प्रसन्नात्माऽभवच्छंबरगेहगः ॥५९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरवरप्रदानं नाम तृतीयोऽध्यायः ॥ ॥श्रीगणेशाय नमः॥ कश्यप उवाच । शंबरं प्रणिपत्यादौ कथयामास विस्तरात् । वृत्तांतं ममनामाऽसौ हर्षितं तं चकार ह ॥१॥ मोहिनीं प्रददौ तस्मै स्वपुत्रीं शंबरासुरः । तया च संस्थितो रेमे प्रिये तत्र ममासुरः ॥२॥ ततः स्वल्पे गते काले शंबरः शुक्रमयायौ । तं प्रणम्य महाभागं वृत्तांतं प्रजगाद ह ॥३॥ ततः शुक्रेण दैत्येंद्राः प्रेरिताः सर्व आययुः । स्वयं शंबरसंयुक्तो जगाम ह ममासुरम् ॥४॥ शुक्रं समागतं दृष्ट्वा ममासुरः प्रतापवान् । तं प्रणम्य महाभागं कृतांजलिः पुरः स्थितः ॥५॥ पूजयामास तं विप्रं हर्षयुक्तेन चेतसा । प्रणम्य चाऽऽज्ञया तस्याऽऽसनेऽसौ संस्थितोऽभवत् ॥६॥ ततो दैत्यगणास्तत्र समाजग्मुः प्रहर्षिताः । तान् सर्वान् मानयामास यथाविधि ममासुरः ॥७॥ ततः सर्वमतं गृह्य काव्यो नीतिविशारदः । ब्राह्मणैस्तं चाभिषिच्य दैत्याधीशं चकार ह ॥८॥ प्रधानाः पंच तस्यापि बभूवुर्बलसंयुताः । प्रेतः कालः कलापश्च कालजित् धर्महा प्रिये ॥९॥ दैत्या दानवभूपाश्च राक्षसादय आदरात् । हर्षयुक्ता बभूवुस्ते ततः स्वस्वगृहे गताः ॥१०॥ चिंतानाशं ममो भूम्यां निर्ममे नगरं परम् । सर्वशोभासमायुक्तं परिखावलयांकितम् ॥११॥ तत्र नाना जना जग्मुर्वासार्थं विषयप्रियाः । वर्णाश्रमयुताः सर्वे वासं चक्रुः प्रहर्षिताः ॥१२॥ दैत्याद्यास्तत्र संरेजुर्विशेषेण निवासकाः । राजा ममासुरस्तान् वै पालयामास हर्षितः ॥१३॥ पुत्रौ द्वौ समशीलौ तु मोहिन्यां संबभूवतुः । ममासुरान् महातेजो युक्तौ दैत्यविवर्धनौ ॥१४॥ धर्माधर्मौ तयोर्नाम चक्रिरे ब्राह्मणादयः । ताभ्यां ममासुरोऽत्यंतं रेजे तेजोयुतो महान् ॥१५॥ एकदा श्वशुरेणाऽसौ समानाय्य महामुनिम् । उशनसं प्रणम्याऽऽदौ जगाद वचनं परम् ॥१६॥ ममासुर उवाच । तव स्वामिन् प्रसादेन समर्थोऽहं न संशयः । प्रजेष्यामि विशेषेण ब्रह्मांडं लोकसंकुलम् ॥१७॥ आज्ञापय महायोगिन्
खं. ७ अ. ४ पान ९ त्वदाज्ञावशवर्तिनम् । दासं मां शाधि विप्रेन्द्र तवेच्छा कीदृशी भवेत् ॥१८॥ कश्यप उवाच । ममासुरस्य वाक्यं स श्रुत्वा वेदविदां वरः । शुक्रस्तं भक्तिसंयुक्तं दृष्ट्वोवाच सुरूपिणम् ॥१९॥ शुक्र उवाच । गणेशवरदानेन समर्थोऽसि महासुर । गणेशभक्तिसंयुक्तो जय त्वं विश्वमंजसा ॥२०॥ कदाचिदपि दैत्येश द्वेषं विघ्नेश्वरस्य च । मा कुरुष्व तदा राज्यं करिष्यसि विशेषतः ॥२१॥ तथेति दैत्यमुख्यस्तं जगाद हर्षसंयुतः । ततोऽसुरान् समाहूय वृत्तमकथयत्परम् ॥२२॥ ते सर्वे हर्षसंयुक्ताः साधु साध्वब्रुवन् वचः । द्विजैर्मुहूर्तमवलोक्य निर्ययौ च ममासुरः ॥२३॥ अपारसेनया युक्तश्चतुरंग- प्रभूतया । नानावाहनगा दैत्या दैत्येंद्रा रेजुरंजसा ॥२४॥ सन्नद्धा वीरमुख्याश्च समाजग्मुर्महासुरम् । महाबला महा- वीर्याः पर्वतोन्मूलने क्षमाः ॥२५॥ प्रधानैर्युद्धमार्गज्ञैः पुत्राभ्यां संयुतः स्वयम् । ममासुरो रथे संस्थः शुशुभे तेजसा युतः ॥२६॥ पृथ्वीं जेतुं महावीरा जग्मुर्द्दीपसमन्विताम् । जित्वा क्षत्रगणान् सर्वान् स्ववशे तांस्तु चक्रिरे ॥२७॥ ततः पातालगाः सर्वे शेषं जित्वा महाबलम् । ययुः स्वर्गेषु दैत्येंद्रा इंद्रं क्रोधसमन्विताः ॥२८॥ इंद्रः सुरगणैः सार्धं योद्धुं समुद्यतोऽभवत् । ऐरावतसमारूढो ययौ संग्राममंडलम् ॥२९॥ दैत्येंद्रा शस्त्रसंघातैर्मर्दयित्वा सुरेंद्रकान् । ममासुरं ययुः सर्वे धृतेंद्रं ते प्रहर्षिताः ॥३०॥ इंद्रासनसमारूढो ममासुरः प्रतापवान् । शुशुभे दानवेंद्रैः स सेव्यमानः सदारुणैः ॥३१॥ सत्यलोकागतं वीक्ष्य दूतं संप्रेष्य दारुणम् । योद्धुं समुद्यतं ज्ञात्वा वेधाः पपाल तद्भयात् ॥३२॥ विष्णुं गत्वा विधाताऽसौ रक्ष रक्षेति चाब्रवीत् । विष्णुस्तं गृह्य शंभुं वै शरणं प्रजगाम ह ॥३३॥ ज्ञात्वा वृत्तांतमेवं स ममासुरः प्रतापवान् । कैलास- माययौ दैत्यैर्योद्धुं महेश्वरेण ह ॥३४॥ शिवलोके समायातो भानुः शक्तिस्तथा भयात् । विचार्य देवपाः सर्वे दैत्येंद्रं जग्मुरावृताः ॥३५॥ मरणे निश्चयं कृत्वा शंभुमुख्याः सुरेश्वराः । ममासुरं तं सन्नद्धाः प्रययुस्ते सुलोचने ॥३६॥ ममासुरस्य सैन्यं तु सन्नद्धं क्रोधसंयुक्तम् । देवेंद्रान् योद्धुमायातं नानावीरप्रपालितम् ॥३७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते शिवममासुरसमागमो नाम चतुर्थोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । समागतान् पुरो देवान् दृष्ट्वा क्रोधसमन्विताः । दैत्याः प्रहरणैर्जघ्नुः शस्त्रास्त्रैर्मर्म- भेदिभिः ॥१॥ देवाः क्रोधयुतास्तद्वज्जघ्नुस्तान् दैत्यपुंगवान् । अन्योन्यं मिलिताः सर्वे एकीभूता यथाऽभवन् ॥२॥ रज- स्तिमिरभावेन स्वपरज्ञानवर्जिताः । पुरोगाञ्जघ्निरे सर्वे स्वान् परानपि दुर्मदाः ॥३॥ दिनैकं दारुणं युद्धं बभूवे वीरमोहनम् । ततः शोणितजा घोरा नदी तत्र प्रसुस्रुवे ॥४॥ ततो रजोऽभवच्छांतं प्रकाशसंयुताः पुनः। दैत्या देवा विवेकेन युयुधुर्जात- संभ्रमाः ॥५॥ ततो दैत्यबलैर्भग्नं देवसैन्यं सुदारुणम् । पपाल दैत्यसंघैस्तद्धतं हर्षसमन्वितैः ॥६॥ ततो भैरवमुख्याश्च विष्वक्सेनादयो ययुः । आदित्याः कालिमुख्याश्च शक्तयः क्रोधसंयुताः ॥७॥ तैः समंतान् महास्त्रैस्तद्वलं संमर्दितं परम् । दैत्यानां भयसंयुक्तं पपाल च दिशो दश ॥८॥ ततः क्रोधसमायुक्ताः प्रधाना ममकस्य ते । जग्मुः प्रहरणैर्वीक्ष्य शस्त्रैर्जघ्नुः सुरेंद्रकान् ॥९॥ दैत्यपैर्भैरवाद्याश्च युयुधुर्जातसंभ्रमाः । युद्धं तत्राऽभवद्धोरं दिनैकं जयमिच्छताम् ॥१०॥ ततो दैत्येंद्रमुख्यास्ते पतिता मूर्च्छया युताः । पपालासुरसैन्यं तद्भययुक्तं दिशो दश ॥११॥ ज्ञात्वा ममासुरस्यैव पुत्रौ द्वौ समुपस्थितौ । प्रणम्य पितरं तौ तु योद्धुं जग्मतुरादरात् ॥१२॥ ततः काव्येन दैत्येंद्रा जीविताः पुनरुत्थिताः । युयुधुस्ते महावीरा देवैः परमदारुणाः ॥१३॥ दैत्यैर्धर्मश्च संक्रुद्धोऽधर्मः शस्त्रास्त्रवर्षिणौ । बभूवतुश्च देवेंद्रान् मूर्च्छितां- श्चक्रतुर्मृधे ॥१४॥ न कोऽपि देवसैन्यस्थस्तयोरस्त्रबलं परम् । असहत्तत्ततो देवाः प्रपेलुर्भयसंयुताः ॥१५॥ ततः शिवः स्वयं क्रुद्धो वृषारूढः समाययौ । अनु तं जगदंबा सा भानुर्विष्णुर्ययौ पुरः ॥१६॥ तेषां युद्धं महाघोरं बभूवे रोमहर्षणम् । न वक्तुं शक्यते देवि ब्रह्मांडभयकारकम् ॥१७॥ अधर्मो विष्णुना सार्धं धर्मः शंकरमाययौ । कालजिह्नानुना सार्धं प्रेतः शक्त्या महाबलः ॥१८॥ कपालः कालरुद्रेण काल्या धर्मघ्न एव च । नियतं युयुधुः सर्वे शस्त्रास्त्रैर्मर्मभेदिभिः ॥१९॥ दिनैकं दारुणं युद्धं बभूवे देवरक्षसाम् । ततः काल्या हतः पापी धर्मघ्नश्च मृतोऽभवत् ॥२०॥ कपालः कालरुद्रेण त्रिशूलेन प्रमूर्च्छितः । प्रेतः शक्त्या हतस्तत्र ममार खड्गघाततः ॥२१॥ त्रिशूलेन हतो धर्मः शिवेनामूर्च्छितोऽभवत् । चक्रेण विष्णुना तद्वदधर्मो मूर्च्छितः कृतः ॥२२॥ चक्रत्रिशूलकाद्यैश्च शस्त्रास्त्रैर्दैत्यसैन्यकम् । हतं सर्वत्र देवेशैर्हाहाकाररवा- कुलम् ॥२३॥ शोणितौघा महानद्यस्तत्र जाता भयानकाः । छिन्नभिन्नाश्च दैत्याद्याः पप्लुः सर्वतोदिशम् ॥२४॥ तत्राऽपि शस्त्रवेगेन मृताः केऽपि सुलोचने । ततो ममासुरः क्रुद्धः संग्रामाय ययौ स्वयम् ॥२५॥ पुरः स्थितं शिवं वीक्ष्य जगाद
खं. ७ अ. ५ पान ११
क्रोधसंयुतः । सर्वसंहारकं सोऽपि महाबलपराक्रमः ॥२६॥ ममासुर उवाच । तिष्ठ तिष्ठ महादेव पश्य मे पौरुषं परम् । दृष्टं त्वदीयं सामर्थ्यं सर्वदेवातिगं मया ॥२७॥ एवमुक्त्वा महादेवं धनुः सज्जमथाऽकरोत् । निष्काश्य सुदृढं बाणं मुमोच दैत्यनायकः ॥२८॥ तावत् त्रिशूलकं शंभुश्चिक्षेप नाशकारकम् । ममासुरं समासाद्य निष्फलं तद्बभूव ह ॥२९॥ बाणेन स हतः शंभुः पपात धरणीतले । मूर्च्छया पीडितोऽत्यंतं सहसा दैत्यपालिनि ॥३०॥ ततो ममासुरः क्रुद्धो बाणेनैकेन वक्षसि । विव्याध माधवं देवं मूर्च्छितं तं चकार ह ॥३१॥ शक्तिः सूर्यस्ततः क्रुद्धौ बाणान् चिक्षिपतुः परान् । ते सर्वे निष्फला बाणाः पेतुः परमदारुणाः ॥३२॥ ततो ममासुरः सूर्य शक्तिं विव्याध वक्षसि । एकैकेन स बाणेन पतितौ धरणीतले ॥३३॥ बाणवृष्टिं महोग्रां स चक्रे क्रोधसमन्वितः । तया देवेंदप्रमुख्यास्र देवाः संमर्दिता मृधे ॥३४॥ ततो देवान् मृतान् वीक्ष्य कांश्चिद्भयसमन्वितान् । पलतो दैत्यराजः स हर्षितोऽभून् महामते ॥३५॥ देवान् शंभुमुखान् गृह्य ययौ स्वस्थानमुत्तमम् । काव्येन जीवितान् दैत्यान् प्रधानपुत्रमुख्यकान् ॥३६॥ ततो धर्मं महादैत्यः कैलासाधिपतिं सुतम् । अधर्मं विष्णुलोकस्य नाथं चकार हर्षितः ॥३७॥ प्रेतं शक्तिपुरस्यापि कपालं स चकार ह । सौरलोकाधिपं वीरं धर्मघ्नं ब्रह्मणस्तथा ॥३८॥ कालजितं महेंद्रस्य यमस्य कालकं परम् । लोकस्य चाधिपं चक्रे तथाऽन्येषां च दानवान् ॥३९॥ ततः स्वपुरमागम्य कारागारे समाक्षिपत् । देवेन्द्रान् शिवमुख्यान् स राज्यं चक्रे महाबलः ॥४०॥ ब्रह्मांडाधिपतिर्दुष्टो बभूव स ममासुरः । कृतकृत्यमिवात्मानं मेने दैत्येंद्रसंयुतः ॥४१॥ स्त्रीमांसमदिरायुक्तो बभूवे भोगलालसः । अविनाशं खमात्मानं मेने देहधरोऽपि सन् ॥४२॥ ततोऽतिमदसंयुक्तो ममासुरः प्रतापवान् । देवांगना नराणां तु कन्या नागोद्भवा बलात् ॥४३॥ समानाय्यासुरेंद्रैः स बुभुजे पापनिश्चयः । ततो बहुगते काले दैत्येंद्रान् प्रेष्य दारुणान् ॥४४॥ खलः खंडनकं चक्रे वर्णाश्रमसुकर्मणाम् । आसुरं कर्म सर्वत्र स्थापयामास दंडतः ॥४५॥ न स्वाहा न स्वधा कुत्र भवति स्म कदाचन । न वषट्कारभावश्च वर्णसंकरभावतः ॥४६॥ ऋषयस्ताडिताः केचित् केचिद्बंधनसंयुताः । देवस्थानानि सर्वाणि खंडितानि च दानवैः ॥४७॥ तीर्थानि पुण्यवृक्षास्ते बभंजुः पापकारकाः । ममासुरात्मकं कर्म चक्रिरे सर्वमानवैः ॥४८॥ प्रतिमा दैत्यनाथस्य स्थापिताः सर्वमंदिरे । इत्यादिकर्मनाशश्च बभूव जगतीतले ॥४९॥ हाहाकारयुताः सर्वे अष्टा जाताः सुलोचने । वर्णाश्रमविहीनास्ते जना दुःखसमन्विताः ॥५०॥ राज्यं चकार दैत्येशो ममासुरः सुहर्षितः । वृष्ट्यादिक-