भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 766, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 766

खं. ६ अ. ४५ पान १२५ संयुतः । अंधकारेण नित्यं संछादयामास शक्तयः ॥५२॥ निरर्थकं चकारासौ सूर्य तेजस्विनां वरम् । नानायत्नपरः सूर्यस्तं जेतुं न शशाक ह ॥५३॥ ततोऽहंकारहीनः स संस्मार गणनायकम् । गणेशेन हतो दैत्यः सूर्यभावप्ररक्षणात् ॥५४॥ एतत् सर्वं समाख्यातं सूर्यपुत्रस्य चेष्टितम् । वरदस्य महादेव्यः सर्वसिद्धिकरं परम् ॥५५॥ शृणुयादिदमाख्यानं पठेद्वा तस्य सर्वदम् । भविष्यति सदा चांते ब्रह्मभूयप्रदायकम् ॥५६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एवं नानावताराश्च धृतास्तेन महात्मना । विकटेन महादेव्यः संख्यातुं नैव शक्यते ॥१॥ भक्तिप्रियस्वभावेन भक्तानां विघ्ननाशनात् । कुरुते स्वावतारान् स विकटः परमेश्वरः ॥२॥ मयूरक्षेत्रमधुना गच्छध्वं तत्र चाप्यहम् । संस्थिता पूर्णरूपेणात्र कलांशात्मिका मुदा ॥३॥ तत्र विघ्नेश्वरं भक्त्या सेवेध्वं शक्तयः पराः । तेन योगींद्रवंद्याश्च भविष्यथ न संशयः ॥४॥ विषयादिषु भावेषु मा चित्तं कुरुत प्रियाः । गाणेशमार्गमाश्रित्य भजध्वं विकटं परम् ॥५॥ वेदादिषु गणेशस्य प्रीतिदं कर्म चोत्तमम् । तदेव भक्तिसंयुक्ताः कुरुध्वं नित्यमादरात् ॥६॥ गणेशमूर्तेश्च हृदि चिंतनं कुरुत प्रियाः । मानसीं बाह्यपूजां च गणेशप्रीणनाय ताम् ॥७॥ विषयेषु विरक्तत्वाद्विकटा भक्तिरुत्तमा । गणेशे सक्तचित्ता सा कर्तव्या नित्यमादरात् ॥८॥ मुद्गल उवाच । एवमुक्त्वा ददौ ताभ्यो मंत्रमेकाक्षरं परम् । सविधिं गणराजस्य ततो मौनं समादधे ॥९॥ प्रणम्य शक्तयः सर्वास्ततस्तां भक्तिसंयुताः । महाकालीमुखा दक्ष ययुः क्षेत्रं मयूरकम् ॥१०॥ मयूरके तत्र देवीं ददृशुस्ताः सुहर्षिताः । प्रणम्यापूज्य तां ढुंढिं ततस्तेपुस्तपो महत् ॥११॥ शतवर्षे गते तासां पुरतो मयूरेश्वरः । समाययौ ततस्तां ताः प्रणेमुर्हर्षसंयुताः ॥१२॥ पूज्य नानाविधैर्देवमुपचारैर्मनोरमैः । पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसंपुटाः ॥१३॥ महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः । मयूरेशाय विघ्नेशाय भक्तविघ्नहारिणे । विघ्नदात्रे ह्यभक्तेभ्यो गणेशाय नमो नमः ॥१४॥ लंबोदराय देवाय मूषकध्वजिने नमः । अनाथानां सनाधाय नमो नाथाय ते नमः ॥१५॥ परेशाय महेशेभ्यः सिद्धिदाय गजानन । अनंताय सदा स्वेभ्यः सर्वदाय नमो नमः ॥१६॥ ब्रह्मणां पतये तुभ्यं सदा