मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 767, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. ४५ | पान १२६
शांतिमयाय च । शांतीनां शांतिरूपाय परात्मने नमो नमः ॥१७॥ हेरंबाय नमस्तुभ्यं कवये कविरूपिणे । कविभ्यः पददात्रे च कवीशाय नमो नमः ॥१८॥ सिद्धिवुद्धिवरायैव सिद्धिवुद्धिप्रदायिने । सिद्धिवुद्धिप्रचालाय तद्रूपाय नमो नमः ॥१९॥ मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे । योगशांतिस्वभावाय शांतिदाय नमो नमः ॥२०॥ शक्तये भानवे तुभ्यं विष्णवे शंकरात्मने । नानारूपधरायैव खेलकाय नमो नमः ॥२१॥ किं स्तुमस्त्वां गणाधीश यत्र शांतिं प्रलेभिरे । वेदादयः शिवाद्याश्च नमामो मयूरध्वज ॥२२॥ भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके । तथेति ता गणाधीशो ह्यगदद्भक्तियंत्रितः ॥२३॥ इदं स्तोत्रं पठेद्यस्तु शृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाप्नुयात् ॥२४॥ एवं दक्ष महच्चित्रं चरितं कथितं मया । विकटस्य समासेन सर्वसिद्धिप्रदायकम् ॥२५॥ नानेन सदृशं किंचित् सर्वदं कुत्र वर्तते । साक्षाद्ब्रह्मप्रदं पूर्णं तत्र किं वर्णयाम्यहम् ॥२६॥ इदं विकटमाहात्म्यं शृणुयाद्यो नरोत्तमः । श्रावयेच्च पठेत्सोऽपि सर्वसिद्धिमवाप्नुयात् ॥२७॥ एकमावर्तनं नित्यं यः कुर्यात् स मतो परः । साक्षाद्विकटरूपः स दर्शनात् पावनो नृणाम् ॥२८॥ यावंति साधना- न्येव साधयेत् परमादृतः । शतवारं लभेत् पुण्यं खंडस्यास्य श्रवाच्च तत् ॥२९॥ इष्टापूर्तादिकं यस्तु कुर्याद्भक्तिसमन्वितः । तस्माच्छतगुणं पुण्यं श्रवणादस्य संलभेत् ॥३०॥ पुराणोपपुराणानि सेतिहासानि नित्यशः । शृणुयाच्च ततः पुण्यमनेन स्याच्छताधिकम् ॥३१॥ बहुनात्र किमुक्तेन यत्र ब्रह्मपतिः परः । वर्णितो विकटस्तेन समं किं संभवेद्वद ॥३२॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हर्षयुतोऽत्यंतं प्रणाम च मुद्गलम् ॥३३॥ मया संपूर्णभावेन कथितं ते द्विजोत्तम । कामनाशकरं पूर्णं विकटस्य चरित्रकम् ॥३४॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । नानेन सदृशं किंचित् किं भूयः श्रोतुमिच्छसि ॥३५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटचरितसमाप्तिवर्णनं नाम पंचचत्वारिंशत्तमोऽध्यायः ॥
॥ इति श्रीमुद्गलपुराणे षष्ठः खंडः समाप्तः ॥ ॥ श्रीगजाननार्पणमस्तु ॥