भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 765, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 765

गजानन ॥२६॥ ओमित्युक्त्वा गणाधीशस्ततोऽन्तर्धानगोऽभवत् । सूर्य्यस्तं चिंत्य स्वस्थानं जगाम प्रियया सह ॥२७॥ सूर्य्यः सत्तासमायुक्तो ज्ञानवान्निर्ममे परम् । असङ्ग्रह्म ततः सर्वं नानारूपम कल्पयत् ॥२८॥ गणेशवरदानेन मोहहीनो बभूव ह । अभजतं सदा भानुर्भक्त्या योगींद्रवंदितः ॥२९॥ एकदा प्रियया युक्तः सस्मार गणनायकम् । तामिस्रासुरगर्वेण पीडितो बलवत्तरम् ॥३०॥ स्मृत्या समागतं तत्र गणेशं पुत्ररूपिणम् । बालं शुंडाधरं वीक्ष्य तं पप्रच्छ विभावसुः ॥३१॥ सूर्य उवाच । कोऽसि त्वं वद मां बाल गणेशाकृतिधारक । किमर्थमिह चायातः किं गणेशो भवान् परः ॥३२॥ सूर्य्यस्य वचनं श्रुत्वा तं जगाद गजाननः । स्मृतिजोऽहं सुतो भानो तव विघ्नेश्वरः स्वयम् ॥३३॥ पुरा दत्तो वरस्तेन पुत्रोऽहं ते समागतः । पालयस्व पितर्मां त्वं संज्ञया सह मानद ॥३४॥ तस्य तद्वचनं श्रुत्वा संज्ञया सह चार्य्यमा । प्रणम्यापूज्य तुष्टाव अथर्वशिरसा प्रभुम् ॥३५॥ एतस्मिन्नंतरे तत्राऽऽजगाम सुरसत्तमः । तामिस्रस्तं विलोक्यैव पपाल सविता भयात् ॥३६॥ उत्थाय गणनाथस्तं जघान मुष्टिघाततः । पातयामास भूम्यां स निर्जीवं दैत्यपुंगवम् ॥३७॥ मृतं दैत्यं विलोक्यैवाऽऽजगाम सविता पुनः । तं प्रणम्य स्थितो दूरे गणेशेन विमोहितः ॥३८॥ मोहितः संज्ञया सार्धं भानुस्तं गृह्य पुत्रकम् । लालयामास हर्षेण पुत्रभाव- परायणः ॥३९॥ गणेशमायया तत्र संज्ञा स्तनमपाययत् । वरं दत्वा गतं पुत्रं वरदाख्यं चकार तम् ॥४०॥ ततः सोऽन्तर्हित पुत्रो भानुः संमूर्च्छितोऽभवत् । संज्ञया च तयोर्हृद्धिर्हृदि संस्थो बभूव ह ॥४१॥ मा शोकं कुरुतं तातौ न वियोगश्च मे क्वचित् । मूर्तिं कृत्वा सदा तत्र पूजयेथां निरंतरम् ॥४२॥ ततस्तौ सावधानौ तु तथा चक्रतुरादरात् । भक्त्या गणपतिं नित्यं भजतः परमेश्वरौ ॥४३॥ शक्तय ऊचुः । कोऽसौ तामिस्रसंज्ञश्चासुरस्तस्य चरित्रकम् । वद शक्ते यदर्थं तु वरदः संबभूव ह ॥४४॥ आदिशक्तिरुवाच । सूर्य्योऽहंकारसंयुक्तो बभूवे जीवनात्मकः । सर्वेषां दीप्तिदाताऽहं मम दीप्तिकरो न च ॥४५॥ एवं बहौ गते काले विस्मृतो गणनायकम् । छायायां तस्य जज्ञेऽयं तामिस्रः पुरुषाकृतिः ॥४६॥ तं दृष्ट्वा हर्षितो भानुः पुत्रं मेने हितावहम् । अंधकारकरं पूर्णं वरदस्तमुवाच ह ॥४७॥ भानुरुवाच । त्रिगुणान्नभयं पुत्र भविष्यति कदाचन । त्रैलोक्यराज्यमुग्रं ते मया दत्तं विशेषतः ॥४८॥ यद्यदिच्छसि तत्तत्ते सफलं सर्वदा किल । भविष्यति च तामिस्र नाम भव सुभाग्यवान् ॥४९॥ तं प्रणम्य महादैत्यः पातालमगमन्मुदा । शुक्रेण प्रेरितैर्देत्यैः कृतो राजा सुरद्विषाम् ॥५०॥ सह तैर्मदसंयुक्तो जिग्ये ब्रह्मांडमंडलम् । राज्यं चकार दैत्यैश्र्चर्महाबलयुतो बभौ ॥५१॥ रविं तेजस्विनं दृष्ट्वा वैरभावेन