मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 764, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. ४४ पान १२३
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एकमेवाद्वितीयं यद्ब्रह्म वेदेषु शक्तयः । तदेव विकटः प्रोक्तस्तेन माया प्रकाशिता ॥१॥ मायायां बिंबितं ब्रह्म विकटस्य महात्मनः। आत्माकारं च सर्वत्र भ्रमस्थं जीववाचकम् ॥२॥ संज्ञा जाता ततस्तस्य विकटस्य परात्मनः । सा संज्ञाऽभूद्रवेर्भार्या माया खेलकरी परा ॥३॥ तस्यां बिंबमयाद्वीर्यान्नाना जीवा बभूविरे । तेषां सूतिकरः सोऽपि सूर्य इत्यभिधीयते ॥४॥ संज्ञया संयुक्तः सूर्यो ज्ञानहीनो बभूव ह । तपस्तताप घोरं स गणेशस्य महात्मनः ॥५॥ दिव्यवर्षसहस्रेणैकाक्षरेण सुतोषितः । प्रसन्नस्तं ययौ सोऽपि भक्तवात्सल्यकारणात् ॥६॥ उवाच तं रविं देवो वरं ब्रूहि हृदीप्सितम् । दास्यामि तपसा तुष्टो भवेदद्यपि दुर्लभम् ॥७॥ ततो भानुर्गणेशानं दृष्ट्वा हर्षसमन्वितः । संज्ञया सहसोत्थाय प्रणनाम गजाननम् ॥८॥ पुनः पुनर्ननामाथ तं संपूज्य महायशाः । कृत्वा करपुटं संज्ञायुतः स्तोतुं प्रचक्रमे ॥९॥ सूर्य उवाच । नमस्ते विकटायैव मायामायिकरूपिणे । वामांगे संज्ञया युक्त दक्षिणांगे च भानवे ॥१०॥ तयोर्योगे गणाधीश सिद्धिवृद्धिपतिर्मतः । गजाननादिचिह्नैश्र्च संयुतस्ते नमो नमः ॥११॥ एकमेवाद्वितीयं यद्ब्रह्म तदूर्णये कथम् । धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥१२॥ गजाननाय सर्वादिपूज्याय परमात्मने । हेरंबाय सदा ज्येष्ठराजाय ते नमो नमः ॥१३॥ परेशाय महाविघ्ननाशनाय महात्मने । दुरात्मभ्यो महाविघ्नदायकाय नमो नमः ॥१४॥ अनाधाय सनाथानां नाथाय सर्वदायिने । अनाथानां प्रणार्थाय नाथनाथाय ते नमः ॥१५॥ अनंतविभवायैवानंतमायाप्रधारिणे । ब्रह्मणस्पतये तुभ्यं कवये ते नमो नमः ॥१६॥ मूषकवाहनायैव सर्वांतरप्रचारिणे । मूषकध्वजिने तुभ्यं मयूरेश नमोस्तु ते ॥१७॥ किं स्तौमि त्वां गणाधीश पंचचित्तप्रचालक । अतोऽहं प्रणमाम्येव तेन तुष्टो भव प्रभो ॥१८॥ एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् । रुद्धकंठं प्रनृत्यंतं गणेशस्तं जगाद ह ॥१९॥ श्रीगणेश उवाच । मदीयस्तवनं चेदं सर्वदं संभविष्यति । त्वया कृतं पठेद्यश्र्च शृणुयात्तस्य सर्वदा ॥२०॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । संतुष्टोऽते ब्रह्ममयं करिष्यामि महामते ॥२१॥ दास्यामि त्वं वरान् ब्रूहि ह्यधुना भक्तिमोहितः । सस्त्रीकस्तान् महाभानो मम भक्ततरो मतः ॥२२॥ भानुरुवाच । प्रसन्नोऽसि यदा ढुंढे देहि भक्तिं त्वदीयिकाम् । ज्ञानं स्वाभाविकं देहि नानाकार्यकरं प्रभो ॥२३॥ परं सामर्थ्यमतुलं देहि सर्वात्मधारकम् । मां कुरुष्व गणेशान गाणपत्यप्रियं सदा ॥२४॥ त्वं मे पुत्रो भव स्वामिन् संसारे तारणात्मकः । तत्र त्वां पुत्रभावेन भजिष्यामि निरंतरम् ॥२५॥ हृदये चित्तसंस्थं त्वां मूर्तौ देवस्वरूपिणम् । तेनाहं कृतकृत्यश्र्च भविष्यामि