मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 763, कुल 1023 में से
संदर्भ में पढ़ें[header] खं. ६ अ. ४३ पान १२२ [/header]
च ॥३५॥ सिद्धिवुद्धिपते तुभ्यं संज्ञानाथाय ते नमः । विघ्नहंत्रे तमोहंत्रे हेरंबाय नमो नमः ॥३६॥ अनंतविभवायैव नामरूपप्रधारिणे । मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥३७॥ ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने । गणेशाय परेशाय विघ्नेशाय नमो नमः ॥३८॥ विवस्वते भानवे ते रवये ज्योतिषां पते । लंबोदरैकदंताय महोत्कटाय ते नमः ॥३९॥ यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा । भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥४०॥ किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् । चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥४१॥ एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे । वामांगे संज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥४२॥ तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः । तं जगाद गणा- धीशो वरं वृणु हृदीप्सितम् ॥४३॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न संदेहश्चिंतितं स लभेत् परम् ॥४४॥ शृणुयाद्वा जपेद्वाऽपि तस्य किंचिन्न दुर्लभम् । भविष्यति महापक्षिन् मम संतोषकारकम् ॥४५॥ गणेशवचनं श्रुत्वाऽनूरुस्तं प्रणिपत्य च । जगाद साश्रुनेत्रः सन् सरोमांचो गजाननम् ॥४६॥ अनूरुरुवाच । भक्तिं देहि गणाधीश तव पादांबुजाश्रिताम् । गाणपत्यप्रियत्वं मे सदा संगं महात्मनाम् ॥४७॥ तथेति तमथोक्त्वाऽसौ विकटोऽतर्दधे स्वयम् । अनूरुः खेदसंयुक्तोऽभवत्तत्रैव संस्थितः ॥४८॥ ततः संस्थापयामास मूर्तिं गणपतेर्द्विजैः । भानुविनायक इति नाम चक्रे सुहर्षितः ॥४९॥ पूजयित्वा गणेशानं सूर्यं समागतोऽभवत् । अरुणस्तं प्रणम्यैव वृत्तांतं कथयत् परम् ॥५०॥ तेनैवं स्थापितं तत्रारुणो गणपतिं परम् । अभजद्रथसंस्थश्च योगशांतिपरोऽभवत् ॥५१॥ एवं विकटमाहात्म्यं भानुविघ्नेशगं परम् । तदीयांशावतारस्थं कथितं सर्वसिद्धिदम् ॥५२॥ शृणुयाद्यः पठेद्वापि श्रावयेद्वा नरः किल । स ईप्सितफलं प्राप्यंांते स्वानंदमवाप्नुयात् ॥५३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥