मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 774, कुल 1023 में से
संदर्भ में पढ़ेंखं. ७ अ. २ पान ४ ष्यसि गजाननम् ॥१७॥ हिमाचलसुता जाता पार्वती भगिनी च ते । तपसाऽऽराधिता तेन महामाया परात्परा ॥१८॥ हिमाचलं समाश्रित्य शिवो ध्यानपरायणः । तताप तप उग्रं स गणेशं चिंत्य सर्वदा ॥१९॥ अत्रागत्य महेशानं पार्वती सेवनोत्सुका । पतिं ज्ञात्वा विशेषेण सिषेवे यत्नसंयुता ॥२०॥ महादेवो विदित्वा तां मनसि क्रोधमादधे । मामुलंघ्य गता दक्षाध्वरे चेयं विशेषतः ॥२१॥ स्वाज्ञाहीना न योग्या वै पत्नी वेदे प्रकीर्तितम् । अतः पत्नीविहीनः सन् भजेऽहं विघ्नपं सदा ॥२२॥ एवं मनसि संधार्य न तां मेने महेश्वरः । समागतां तया सोऽपि भाषणं न चकार ह ॥२३॥ ततोऽति- खेदसंयुक्ता पार्वती तं महेश्वरम् । सिषेवे भक्तिसंयुक्ता नियमस्था सुरूपिणी ॥२४॥ हावभावसमायुक्तां नित्यं सेवा- परायणाम् । जगाम पर्वताद्वीक्ष्य पतिभावकरीं शिवः ॥२५॥ गतं सदाशिवं वीक्ष्य पार्वती शोकसंयुता । देहत्यागे समारब्धा सस्मार द्विरदाननम् ॥२६॥ तस्य स्मरणमात्रेण स्फूर्तिर्जाता परा हृदि । विचारमकरोचित्ते शिवा दुःख- समन्विता ॥२७॥ मां त्यक्त्वा शंकरो देवो गतो मानसमन्वितः । न वृणोति कदाचित् स निश्चितं शंकरेण तत् ॥२८॥ वेदे संकथितं वाक्यं तपसा दुर्लभं कदा । किंचिद्भवेन्न तं देवं तपसाऽऽराधयाम्यहम् ॥२९॥ एवं निश्चित्य सा देवी तताप तप उत्तमम् । ध्यात्वा सदाशिवं नित्यं वनस्था सखिसंयुता ॥३०॥ पंचाक्षरविधानेन तोषयामास शंकरम् । लिंगपूजापरा देवी नानातपःपरायणा ॥३१॥ एवं बहौ गते काले न तुतोष सदाशिवः । क्रोधयुक्तः स्वभावेन न तां मेने कदाचन ॥३२॥ ततो विघ्नेश्वरं देवी मंत्रेणैकाक्षरेण च । तोषयामास तं ध्यात्वा नित्यं पूजापरायणा ॥३३॥ त्यक्त्वा सदाशिवं देवी गणेशभजने रता । ततः स्वल्पेन कालेन शिवबुद्धिश्चचाल ह ॥३४॥ श्रावणे शुक्लपक्षे सा चतुर्थ्यां मृन्मयं परम् । कृत्वा गणेश्वरं नित्यं पूजयामास भक्तितः ॥३५॥ वायुमात्राशना देवी तां मूर्तिं भावसंयुता । पूज्य ध्यानपरा भूत्वा जजाप मंत्रमुत्तमम् ॥३६॥ पुरश्चरणमार्गेण मंत्रं जजाप नित्यदा । ततस्तां शंकरो देवो मनसा संगतोऽभवत् ॥३७॥ शिवश्चिन्तां चकारैवं देवी तपसि संस्थिता । अधुना तां गमिष्यामि मदर्थं नियमान्विताम् ॥३८॥ देहभृदपराधैश्च संयुक्तो जायते कदा । अतः क्षमापनं कृत्वा वरिष्यामि न संशयः ॥३९॥ एवं विचार्य देवेशस्तां ययौ पार्वतीपतिः । दृष्ट्वा श्रमयुतां देवीं विस्मितो मोहितोऽभवत् ॥४०॥ ब्रह्मचारिस्वरूपेण निंदयामास शंकरम् । सा तं क्रोधयुता भर्त्स्य निर्ययौ वनगाचरत् ॥४१॥ ततोऽतितोषसंयुक्तः शंकरो रूपमादधे । स्वकीयं तद्विलोक्यैव ननाम जगदंबिका ॥४२॥ तुष्टाव तं महादेवं ततः स