मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 773, कुल 1023 में से
संदर्भ में पढ़ेंखं. ७ अ. २ पान ३ 業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業 दीनान् शोकपरायणा । पुनः कश्यपमागत्य प्रणनाम पतिव्रता ॥५०॥ जगाद तं सुदुःखेन युक्ता प्रजापतिं वचः । विनयेन समायुक्ता स्वार्थमोहयुता परा ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते दितिशोकवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दितिरुवाच । स्वामिन् पुत्रौ मृतावादौ पुनस्त्वद्वरदानतः । पुत्रो जातो महेंद्रस्य मित्रं नानास्वरूप- धृक् ॥१॥ दैत्या दुःखयुता नाथ तदर्थं किं करोम्यहम् । निष्फलो मे समारंभो भवति स्म निरंतरम् ॥२॥ मूर्धनि त्वयि मे नाथ समर्थे दुःखमीदृशम् । मया प्राप्तं विशेषेण किं करोमि वदस्व माम् ॥३॥ पुत्रपौत्रादिसंयुक्तः संसारः परिकीर्तितः । स एव त्वयि संस्थे मे निष्फलः प्रबभूव ह ॥४॥ मुद्गल उवाच । तस्यास्तद्वचनं श्रुत्वा खिन्नायास्तां प्रजापतिः । जगाद स्मयमानः स योगींद्रः परमार्थवित् ॥५॥ कश्यप उवाच । मा खेदं कुरु कल्याणि कर्मणां गतिरीदृशी । संसारो दुःख- मोहादियुक्तः शास्त्रे निगद्यते ॥६॥ दैत्याः पापसमाचारा देवाः पुण्यतमा मताः । पापिनां न सुखं देवि शाश्वतं वेद- वादतः ॥७॥ कथितं वेदवादेषु वचनं सत्यमेव तत् । भविष्यति न संदेहो ममतां तत्र मा कुरु ॥८॥ पुत्रा जाताः प्रिये ते ये तेषां पुत्रादयः स्मृताः । एवं परंपरा जाता भविष्यति निरंतरम् ॥९॥ न वंशच्छेदिता ते तु भविष्यति कदाचन । दैत्या मृत्युयुताः प्रोक्ताः किमर्थं श्राम्यसे वृथा ॥१०॥ कश्यपस्य वचः श्रुत्वा दितिस्तं पुनरब्रवीत् । शोकसंतप्तगात्रा सा पतिं तेजस्विनां वरम् ॥११॥ दितिरुवाच । सृष्टिकर्ता स्वयं साक्षात्त्वं समर्थो न संशयः । अकर्तुं कर्तुमीशश्चान्यथा कर्तुमपि प्रभो ॥१२॥ ममतां सर्वभावेषु त्यक्त्वा त्वं योगिसत्तम । संस्थितोऽसि यथा वेदवादं ज्ञात्वा महामते ॥१३॥ अहं मोहसमायुक्ता सदा तापत्रयान्विता । दहामि ममतात्यागमार्गं मे ब्रूहि मानद ॥१४॥ येन शांतिं समालभ्य स्थास्यामि दाहवर्जिता । तत्सुखेनैव भवतु भावि यत्तादृशीं कुरु ॥१५॥ तस्यास्तद्वचनं श्रुत्वा कश्यपो दयया युतः । शांतिमार्गार्थमेवं तां जगाद हर्षसंयुतः ॥१६॥ कश्यप उवाच । अत्र तेऽहं वदिष्यामीतिहासंच पुरातनम् । तं ज्ञात्वा शांतियुक्ता त्वं भजि-