मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ७ अ. ६ पान १२ मभूत्तत्र काले सर्वं भयाकुलम् ॥५१॥ एवं पापे प्रवृद्धे तु देवाश्चोपोषणान्विताः । कारागारे स्थिताः सर्वे बभूवुः शोकपीडिताः ॥५२॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरराज्यभोगवर्णनं नाम पंचमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ततः शंभुमुखा देवा विचारं दुःखसंयुताः । ममासुरस्य नाशार्थं चक्रुः सर्वे भयातुराः ॥१॥ तत्र विष्णुर्महाबुद्धिरुवाच वाक्यमुत्तमम् । देवान् सर्वान् समाश्वास्य विघ्नराजं हृदि स्मरन् ॥२॥ विष्णुरुवाच । कारागारे वयं क्षिप्तास्तत्र कर्मप्रखंडनात् । उपोषणसमायुक्ताः कृता ममासुरेण च ॥३॥ अतिपापं ममस्यैव राज्ये वृत्तं महेश्वराः । तेन पुण्यविहीनोऽयं मरिष्यति न संशयः ॥४॥ सर्वसत्ताधरः प्रोक्तो गणेशो वेदवादिभिः । विघ्नराजश्च तेनाऽसौ नामाऽभूद्धर्मपालकः ॥५॥ आपद्धर्मविधानेन तदुपासनकं परम् । करिष्यामो विशेषेण स एनं घातयिष्यति ॥६॥ तत्त्वप्रकाशकः सोऽपि न तत्त्वरूपधारकः । तत्त्वहीनो न देवेशा अत एनं वधिष्यति ॥७॥ अतिविषयसंयुक्तो दैत्येंद्रै- र्मोहितो भृशम् । ममासुरो गणेशानं त्यक्त्वा भोगपरोऽधुना ॥८॥ अन्यच्च शृणुत प्राज्ञाः क्षेत्रेषु विघ्नपस्य च । मूर्तयः खंडिताः सर्वाः स्वकीयाः स्थापिताः खलैः ॥९॥ आदौ गणपतेः प्रोक्तं पूजनं स्मरणादिकम् । तत्कर्मसु ममेनैव खंडितं भूमिमंडले ॥१०॥ अतो विघ्नेश्वरश्चैनं मारयिष्यति निश्चितम् । तं विशेषेण भजत देवा भावसमन्विताः ॥११॥ विष्णो- र्वचनमाकर्ण्य देवाः शंभुपुरोगमाः । साधु साधु त्वया प्रोक्तं जगुस्तं केशवं प्रिये ॥१२॥ ततो देवा गणेशानं चिंत्य संकटमुक्तये । मंत्रस्नानं प्रचक्रुस्ते न्यासादींश्च मनोमयान् ॥१३॥ ध्यात्वा गणपतिं सर्वे पुपूजुर्मानसैः पृथक् । उपचारै- रनेकैस्ते जेपुर्मंत्रं हृदा परम् ॥१४॥ एकाक्षरविधानेन युक्तास्तेपुस्तपो महत् । संगोप्य भयसंयुक्ता निराहारपरायणाः ॥१५॥ एवं वर्षशते पूर्णे तान् ययौ गणनायकः । भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने वरदायकः ॥१६॥ तं दृष्ट्वा हर्षसंयुक्ता देवा उत्थाय सत्वरम् । प्रणेमुः पूजयामासुर्मानसैरुपचारकैः ॥१७॥ पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसंपुटाः । साश्रुनेत्राः प्रिये देवा
खं. ७ अ. ६ पान १३ भक्तिनम्रात्मकंधराः ॥१८॥ देवेंद्रा ऊचुः । नमस्ते विघ्नराजाय भक्तविघ्नविदारण । अभक्तेभ्यो विशेषेण विघ्नदात्रे नमो नमः ॥१९॥ गणेशाय परेशाय हेरंबाय नमो नमः । चतुर्बाहुधरायैव नागेशध्वजिने नमः ॥२०॥ अमेयायाप्रतर्क्याय सदा स्वानंदवासिने । ब्रह्मणां पतये तुभ्यं ब्रह्मदात्रे नमो नमः ॥२१॥ सांख्याय बोधरूपाय पुरुषाय परात्मने । गणेशाय प्रकृतये त्रिगुणाय नमो नमः ॥२२॥ स्रष्ट्रे पात्रे च संहर्त्रे प्रकाशरूपधारिणे । मोहकाय त्रिलोकस्थनाथाय ते नमो नमः ॥२३॥ नानामायाप्रचालाय मायिभ्यो मायया प्रभो । मोहदाय विशेषेण मायिकाय नमो नमः ॥२४॥ नानाभेदमयं ब्रह्म विघ्नयुक्तं न संशयः । तत्रानंदयुतायैव समभावाय ते नमः ॥२५॥ सर्वभेदविहीनं यद्ब्रह्मामृतमयं परम् । भेदहीनेन विघ्नेन युतं शास्त्रप्रमाणतः ॥२६॥ भेदयुक्तं गणाधीश भेदहीनं त्वया परम् । सृष्टं द्वंद्वमयं नाथ तयोर्नाथाय ते नमः ॥२७॥ आनंदं परमं ब्रह्म विघ्नानां हारकं मतम् । दायकं तत्त्वमेवेति विघ्नराज नमोऽस्तु ते ॥२८॥ तं विघ्नराजराजं तु पश्यामश्चर्म- चक्षुषा। धन्या वयं गणाधीश तव पादस्य दर्शनात् ॥२९॥ एवमुक्त्वा प्रणेमुस्ते देवाः शंभुपुरोगमाः। स तानुवाच विघ्नेशो भक्त्या स्तोत्रेण यंत्रितः॥३०॥ श्रीविघ्नराज उवाच । वरान् ब्रूत महादेवा येषां यान् मनसीप्सितान् । दास्यामि स्तोत्रसंतुष्टस्तपसा ध्यानशालिना ॥३१॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । पठते शृण्वते देवा वाञ्छितार्थप्रदायकम् ॥३२॥ गणेश- वचनं श्रुत्वा देवा हर्षसमन्विताः । प्रणम्य तं पुनः प्रोचुर्हर्षगद्गदया गिरा ॥३३॥ देवा ऊचुः । तव पादेऽचलां भक्तिं देहि विघ्नेश नः पराम् । यया विघ्नविहीनाश्च शांतिं प्राप्ताः सुयोगिनः ॥३४॥ ममासुरं नाथ जहि सर्वपीडाप्रदायकम् । धर्मध्वंसकरं पूर्णं वर्णसंकरकारिणम् ॥३५॥ कारागारे वयं क्षिप्ता वरदानप्रभावतः । अधुनोपोषणैर्युक्ताः कृतास्तेनासुरेण च ॥३६॥ एवं तेषां वचः श्रुत्वा विघ्नराजः प्रतापवान् । तथेति तानुवाचेदं करिष्यामि वचो हितम् ॥३७॥ एतस्मिन्नंतरे देवि तत्र चित्रं बभूव ह । दैत्याः संस्थापिताः पूर्वं रक्षार्थं ये दिवौकसाम् ॥३८॥ ते दृष्ट्वा चेष्टितं तेषां गणेशाऽऽगमनात्मकम् । गत्वा तं सर्ववृत्तांतं कथयामासुरादरात् ॥३९॥ रक्षका ऊचुः । देवैः संराधितस्तत्राऽऽययौ विघ्नपतिः प्रभो । तं प्रणम्य महेशाद्यास्तुष्टुवुस्तद्वधाय च ॥४०॥ तथेति गणनाथेन कृतं सर्वं न संशयः । अधुना दैत्यनाथ त्वं यत् करिष्यसि तत् कुरु ॥४१॥ तेषां वचनमाकर्ण्य क्रोधयुक्तो ममासुरः । सर्वानानीय वृत्तांतं कथयामास विस्तरात् ॥४२॥ श्रुत्वा ते भय- संयुक्ता बभूवुर्जातसंभ्रमाः । जगुस्तं प्रणिपत्यैव वचनं स्वहितावहम् ॥४३॥ दैत्येंद्रा ऊचुः । कारागारे स्थिता देवास्तैः कथं
गणनायकः । आराधितो विशेषेण वरदश्च बभूव ह ॥४४॥ दैत्यैर्दृष्टस्तत्त्वमयो गणाधीशो न संशयः । तत्त्वहीनो न दैत्येंद्र दृश्यते केनचित् कदा ॥४५॥ अतः सदेवकं तं तु हनिष्यामो न संशयः । किं करिष्यति विघ्नेशस्त्वां ध्रुवं मृत्युवर्जितम् ॥४६॥ एवमुक्त्वा महादैत्याश्चक्रुर्नादं भयंकरम् । देवादीनां ततः सर्वे सन्नद्धाः प्रबभूविरे ॥४७॥ एतस्मिन्नंतरे तत्र पुनश्चित्रं बभूव ह । नारदो विघ्नराजं तं ययौ हर्षसमन्वितः ॥४८॥ प्रणम्यास्तुत्य विघ्नेशं गानं चकार हर्षतः । जगाद तं महायोगी प्रभो जहि ममासुरम् ॥४९॥ मुनिं तं विघ्नराजस्तु सामार्थं दैत्यपस्य वै । समीपे प्रेषयामास स ययौ दैत्यनायकम् ॥५०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते विघ्नराजप्रादुर्भावो नाम षष्ठोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । समागतं ममो दैत्यो नारदं पूज्य दैत्यपैः । प्रष्टुं समुद्यतो यावत्तावत्तं नारदोऽब्रवीत् ॥१॥ नारद उवाच । आपद्धर्मविवेकेन देवैः संराधितोऽधुना । गणेशो वरदो भाति देवेभ्यः सिद्धिदायकः ॥२॥ त्वद्वधार्थं महाराज प्रार्थितो देवनायकैः । तथेति प्रतिपाद्यैव तत्र संस्थोऽधुना प्रभुः ॥३॥ सामार्थं प्रेषयामास मां मम तेऽत्र सन्निधौ । शृणु वाक्यं मदीयं त्वं हितं तेन भविष्यति ॥४॥ विघ्नाः सत्तात्मकाः प्रोक्ताः सत्ताऽत्र त्रिविधा मता । सत्यसंकल्परूपा च पराधीनात्मिका प्रभो ॥५॥ सत्यसंकल्पसत्ताया धारका ब्रह्मवाचकाः । परमेश्वरसंज्ञास्ते स्वाधीनाः प्रभवंति ये ॥६॥ अन्ये नरादयः प्रोक्ताः सत्तावंतो न संशयः । तेषु दैवं समाख्यातं दैवाधीनास्ततः स्मृताः ॥७॥ त्वं वरेण समर्थोऽसि स्वसत्तासंयुतो न च । वरसत्तात्मको दैत्य पराधीनो न संशयः ॥८॥ पराधीना नरा विघ्नैः पीडिताः सर्वदा मताः । वृथा गर्वयुता अंते सत्ताहीना भवंत्युत ॥९॥ अहं ब्रह्मेति मोहेन मोहिता जगदीश्वराः । मदाधारमिदं सर्वं विश्वं चलति तेऽब्रुवन् ॥१०॥ अस्मभ्यो न परं किं त् सत्ताहीनास्तदाऽभवन् । सत्यसंकल्पजां तेषां सिद्धिं गृह्णाति विघ्नपः ॥११॥ अतो विघ्नयुतं सर्वं जानीहि द्विविधं मतम् । सत्यासत्यमयं दैत्य द्वंद्वमायाविमोहितम् ॥१२॥ आनंदं परं ब्रह्म द्वंद्वहीनं समात्मकम् । द्वंद्रेषु द्वंद्वभावाख्यं परं तन्मोहवर्जितम् ॥१३॥ तदेव विघ्नराजाख्यं ब्रह्म वेदैः प्रकाशितम् । देवैरारा-
खं ७ अ. ७ पान १५ धितं पूर्णं देहधारि बभूव ह ॥१४॥ अधुना तत् समायातं देवागारेषु दैत्यप । तद्गच्छ शरणं नो चेन् मरिष्यसि न संशयः ॥१५॥ स्वस्वधर्मयुतं सर्वं विश्वं भवतु दैत्यप । स्वधर्मनिरतो भूत्वा तिष्ठ स्थाने स्वके सदा ॥१६॥ स्वर्गभोगकरा देवा नरा भूमिसमाश्रिताः । दैत्याः पातालगा भूत्वा तिष्ठंतु सुखसंयुताः ॥१७॥ वर्णाश्रमयुता लोकास्तिष्ठंतु नित्यमादरात् । एवं कृत्वा मम त्वं तु तिष्ठ वै भोगसंयुतः ॥१८॥ एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी । मा गर्वं कुरु दैत्येंद्र नारदाज्ञावशो भव ॥१९॥ नोचेद्विघ्नपतिः क्रुद्धस्त्वां हनिष्यति निश्चितम् । अतस्तं शरणं गच्छ सर्वसिद्धिप्रदायकम् ॥२०॥ ममासुरश्च तां श्रुत्वा खेदयुक्तो बभूव ह । शुक्रं तत्र समानाय्य विचारमकरोत् परम् ॥२१॥ शुक्रेणाऽपि तथा प्रोक्तं ततः स भयसंयुतः । प्रणम्य नारदं वाक्यं जगाद हितमात्मनः ॥२२॥ ममासुर उवाच । त्वया नारद यत् प्रोक्तं तथा शुक्रेण निश्चितम् । देवानां हितमत्यंतं नाऽहं यामि गजाननम् ॥२३॥ आदौ मया विशेषेण सेवितोऽयं महामुने । मां त्यक्त्वा देवनाथः सोऽभवत्तेन नयामि तम् ॥२४॥ मरणं मे यदा प्राप्तं भविष्यति यशस्करम् । शत्रूणां शरणं विप्र न योग्यं मानिनां कदा ॥२५॥ तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् । मा चिंतां कुरु दैत्येंद्र नायं देवसहायवान् ॥२६॥ देवा मद्युता जाता दैत्यान् जघ्नुः प्रमो- हिताः । दैत्यानां मूलनाशार्थं पातालं विविशुः पुरा ॥२७॥ तदाऽयं वरदो भूत्वा तव सामर्थ्यतः स्वयम् । देवान् मदविहीनांश्च चकार विघ्ननायकः ॥२८॥ अपि त्वं मोहसंयुक्तस्त्यक्त्वा गणपतिं परम् । कर्मनाशनतः सर्वान् देवान् हंतुं समुद्यतः ॥२९॥ कर्मनाशप्रभावेण देवा नष्टा भवंति च । निर्देवं विश्वमत्यंतं तदा भवति सर्वदा ॥३०॥ अतस्त्वां हंतुमुद्युक्तो विघ्नराजो महासुर । स्वस्वधर्मयुतांश्चेत्तान्न हंति ब्रह्मनायकः ॥३१॥ सुरासुरमयश्चायं सिद्धिबुद्धिविहारकृत् । सिद्धिबुद्धिविहीनस्त्वं किं करिष्यसि तद्वद ॥३२॥ विघ्नराजस्य विघ्नं तु कः क्षमो जायते वद । कर्तुं विघ्नयुतो नित्यं मूर्खभावान् मरिष्यसि ॥३३॥ आनंदं ब्रह्म वेदेषु कथितं सदसन्मयम् । न तत्त्वसंयुक्तं दैत्य तत्त्वहीनं न विद्यते ॥३४॥ सर्वत्र योगभावेन संस्थितं द्वंद्वधारकम् । स एव विघ्नराजस्त्वां हनिष्यति न संशयः ॥३५॥ तेनैव त्रिविधं सर्वं रचितं योगमायया । स्वस्वधर्मयुतं विश्वं कृतं क्रीडार्थमंजसा ॥३६॥ यदा गर्वयुता दैत्य जंतवश्चेश्वरादयः । त्यक्त्वा स्वधर्मं मोहेन संसक्ता विषयेऽभवन् ॥३७॥ सर्वैरवध्यतां प्राप्य कुर्वंति मनसीप्सितम् । तदाऽयं देहधारी संभवते मदनाशकः ॥३८॥ असन्मयो गणेशस्य देहः सन्मय मस्तकम् । तेनाऽयं गजवक्त्रोऽभूत्तं गच्छ शरणं परम् ॥३९॥ नारदस्य वचः श्रुत्वा तथा काव्यस्य दैत्यपः । ममा-
[खं. ७ अ. ७] [पान १६]
सुरः खवाणीं तां विचारमकरोत् हृदि ॥४०॥ गणेशो ब्रह्मरूपोऽयं स्वानंदे वासकारकः । गच्छामि शरणं तं स्वहितं तेन भविष्यति ॥४१॥ विघ्नराजमनादृत्य सिद्धिबुद्धिपतिं प्रभुम् । को विघ्नहीनतां प्राप्य तिष्ठेद्वै सर्वमंडले ॥४२॥ स्वयं दैत्यानुवाचाथ वचनं हितकारकम् । ममासुरः प्रसन्नात्मा गणेशो ममतां दधौ ॥४३॥ ममासुर उवाच । दैत्येंद्राः कालमुख्या मे वचनं शृणुत प्रियाः । काव्येन नारदेनोक्तं खवाण्या तत् करोम्यहम् ॥४४॥ तस्य तद्वचनं श्रुत्वा धर्माधर्मौ समूचतुः । न देवपक्षिणं योग्यं शरणं जगदीश्वरम् ॥४५॥ मरणं रणमध्ये तु स्वर्गदं कीर्तिदं भवेत् । तस्माद्युध्यामहे तात विघ्नेशेन विशेषतः ॥४६॥ देहधारी गणेशानः किं करिष्यति मां वद । तात ते मायया देवा दर्शयंति प्रमोहकम् ॥४७॥ नारदो गणराजस्य भक्तस्तस्य वचः कथम् । दैत्येंद्रैः सह मान्यं त्वं करिष्यसि महामते ॥४८॥ नारदभावरक्षार्थं काव्यो वदति वै तथा । देवैः संरचिता वाणी खस्था तस्या वचो वृथा ॥४९॥ मा कुरुष्व भयं तात तत्त्वयुक्तं गजाननम् । हनिष्यामः प्रतापेन तव दैत्यप्रपा- लक ॥५०॥ एवमुक्त्वा महावीरौ रथारूढौ बभूवतुः । देवान् हंतुं प्रगर्नेण जग्मतुः क्रोधसंयुतौ ॥५१॥ मामेति वचनं दैत्यनाथस्य त्यज्य दुर्मदौ । धर्माधर्मौ गणेशानं जग्मतुर्हननाय च ॥५२॥ ततो गणेश्वरं विप्रो नारदः प्रजगाम ह । कथया- मास वृत्तांतं सोऽपि क्रोधयुतोऽभवत् ॥५३॥ देवान् भययुतान् वीक्ष्य जगाद गणनायकः । मा भयं कुरुत प्राज्ञा हनिष्यामि ममासुरान् ॥५४॥ अमोघास्त्रबलैर्युक्तो ममासुरः प्रतापवान् । समागतः सोऽपि चेत्तं हनिष्यामि न संशयः ॥५५॥ एव- मुक्त्वा गणाधीशः कमलं निजहस्तगम् । मुमोच क्रोधसंयुक्तो महास्त्रं ब्रह्मरूपकम् ॥५६॥ क्षणेन कमलं तत्र दैत्यसैन्ये पपात ह । तस्माज्जातः सुवासश्च प्रससार महीतले ॥५७॥ गणेशानं द्विषंतस्तान् जघान वास आगतः । द्वेषहीनान् समुत्सृज्य तदद्भुतमिवाऽभवत् ॥५८॥ वासं गृह्य महादैत्यौ धर्माधर्मौ मृतौ मृधे । प्रधानाः पंच तद्वृत्ते मृतास्तत्र बभूविरे ॥५९॥ ततो हाहारवं कृत्वा दैत्याः पातालमाविशन् । कमलं क्रोधसंयुक्तं जगाम ह ममासुरम् ॥६०॥ सुवासकं तस्य गृह्य मूर्च्छितोऽभून् ममासुरः । प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥६१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरगर्वहरणं नाम सप्तमोऽध्यायः ॥
खं. ७ अ. ८ पान १७
॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ततो ममासुरस्तत्र सावधानो बभूव ह । समीपे कमलं संस्थं दृष्ट्वा भययुतो- ऽभवत् ॥१॥ त्यक्त्वा गर्वं महादैत्यः कमलं प्रणनाम ह । कृत्वा करपुटं भीतोऽभवत् स्तोतुं समुद्यतः ॥२॥ ममासुर उवाच । कमलाय नमस्तुभ्यं गणेशशस्त्रमुख्यक । वासनानां परेशाय सुवासधारिणे नमः ॥३॥ विषयेषु सुवासेन मोहिताः संभ्र- मंति ते । संसारे दुःखसंयुक्ताः सुखयुक्ताः त्वया कृताः ॥४॥ योगवासनया युक्ता ब्रह्मभूता भवंति ते । वासनानां प्रभेदाश्च बहवस्तेषु किं ब्रुवे ॥५॥ तेषां ब्रह्मस्वरूपाय खेलकाय नमो नमः । विश्वं कमलसंभूतं पद्माकारं वदंति तत् ॥६॥ अतस्त्वां कः समर्थः स्यात् स्तोतुं शस्रोत्तमोत्तम । नमो नमः प्रसन्न त्वं भव मां रक्ष ते भयात् ॥७॥ दैत्येशं संस्तुवंतं तं दृष्ट्वा शांतिं समादधे । कमलं गणराजस्य हस्तगं प्रबभूव ह ॥८॥ ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् । जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥९॥ पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये । तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् ॥१०॥ ममासुर उवाच । विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने । अनादये परेशाय ब्रह्मेशाय नमो नमः ॥११॥ गणेशाय गणानां तु चालकाय परात्मने । आनंदाय सदानंददायकाय नमो नमः ॥१२॥ हेरंबायैकदंताय शूर्पकर्णाय ढुंढये । लंबो- दराय वै तुभ्यं भक्तपाल नमो नमः ॥१३॥ स्वानंदपतये तुभ्यं योगाकारस्वरूपिणे । शांतिभ्यः शांतिदात्रे ते शांतिस्थाय नमो नमः ॥१४॥ ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक । विनायकाय देवानां दैत्यानां पालकाय ते ॥१५॥ आदिपूज्याय चांते ते अवशिष्टाय ते नमः । सिद्धिवुद्धिपते तुभ्यं चतुर्भुज नमो नमः ॥१६॥ शेषस्योपरिसंस्थाय नागेशध्वजधारिणे । गजाननाय देवेश नमो दैत्येशरूपिणे ॥१७॥ भक्तानां विघ्नहंत्रे ते ह्यभक्तानां विनाशिने । योगिनां समभावाय हृदि- स्थाय नमो नमः ॥१८॥ नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः । भेदहीनं च सद्रूपं तयोः साम्ये त्वमंजसा ॥१९॥ समस्वानंदसंस्थो यः को जानाति च तं प्रभुम् । विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥२०॥ तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः । धन्यं मे जन्म कर्मादि येन दृष्टो गजाननः ॥२१॥ किं स्तौमि त्वां गणेशान यत्र वेदादयः प्रभो । शांतिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥२२॥ एवं ममासुरः स्तुत्वा ननर्तासौ सुभाग्यवान् । रोमांचितशरीरश्च साश्रुनेत्रः सुरूपिणि ॥२३॥ तमुवाच महाभक्त्या युतं विघ्नप्रनायकः । वरं ब्रूहि महाबाहो दास्यामि स्तोत्रतोषितः ॥२४॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥२५॥ निष्कामेभ्यो महामोक्ष-
खं. ७ अ. ९ | पान १८
दायकं प्रभविष्यति । मम भक्तिप्रदं चैतन् मम भावहरं सदा ॥२६॥ विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः । जगाद भक्तिसंयुक्तो विघ्नराजं कृतांजलिः ॥२७॥ ममासुर उवाच । यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो ॥२८॥ गाणपत्यसहावासं देहि नाथ निरंतरम् । स्थानं भक्ष्यादिकं ढुंढे तत्र स्थास्यामि यंत्रितः ॥२९॥ दासोऽहं ते गणाधीश नान्यं याचे वरं परम् । तव दर्शनमात्रेण ज्ञानयुक्तोऽहमंजसा ॥३०॥ विघ्नेश उवाच । मदीया भक्ति- रुग्रा ते भविष्यति ममासुर । गाणपत्यप्रियत्वं च योगयुक्तो भविष्यसि ॥३१॥ स्वस्थाने निर्भयो भूत्वा तिष्ठ त्वं मत्परायणः । स्वधर्मविधिहीनं त्वं कर्म भुंक्ष्व जनैः कृतम् ॥३२॥ यत्रादौ पूजनं मे न स्मरणं वा ममासुर । मम भावेन संमोह्य राज्यं कुरु हृदि स्थितः ॥३३॥ मद्भक्तान् दासवन्नित्यं रक्षस्व स्नेहभावतः । मम भावविहीनांश्च कुरु मे ममता- युतान् ॥३४॥ एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् । ममासुरस्तं तथेति प्रहृष्टो वाक्यमब्रवीत् ॥३५॥ प्रणम्य तं ममो दैत्यः स्वस्थाने प्रजगाम ह । शांतिं धृत्वा गणेशानं भजते सर्वभावतः ॥३६॥ दैत्यास्तं त्यज्य सर्वे तु भययुक्ता विशेषतः । पातालं विविशुः सद्यः सोऽपि हर्षयुतोऽभवत् ॥३७॥ एवं ममासुरं शांतं चकार विघ्ननायकः । स्वाधीनं कृत्य तं स्थाने स्थापयामास मानिनि ॥३८॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरशांतिवर्णनं नामाष्टमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ममासुरं शांतियुतं वीक्ष्य देवाः सुहर्षिताः । प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥१॥ पूज्य तं हृष्टरोमाणः पुनः प्रणम्य भावतः । तुष्टुवुर्विघ्नराजं ते बद्धांजलय आदरात् ॥२॥ देवर्षय ऊचुः । साम्यस्वरूपं द्विविधेषु संस्थं द्वंद्वैर्विहीनं परमार्थभूतम् । आनंदनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥३॥ सर्वात्मकं बिंबमथो विधाय तेनैव द्वंद्वं रचितं गणेश । सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥४॥ भेदैर्विहीनं परमप्रमेयं साक्षिमयं कृत्य विनायकत्वम् । तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥५॥ ढुंढे त्वया भेदयुतं द्वितीयं
खं. ७ अ. ९ पान १९ सृष्टं परं ब्रह्म विहारदं च । उत्थानरूपं त्वमपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥६॥ त्वन्मायया मोहयुते परेशो अन्योन्यमादौ मिलिते प्रकाशिन् । तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥७॥ त्वत्प्रेरितं द्वंद्वमयं परं च सोऽहं तथा बिंदुमयं चकार । तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥८॥ ताभ्यां मिलित्वा रचितं गणेश विश्वं चतुष्पादमयं पुराणम् । तत्रैव ते नाथ प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥९॥ एवं खतोत्थान- बलेन कृत्वा साम्यस्वरूपेण विहारकारिन् । तद्भावशून्योऽसि गजानन त्वं तं विघ्नराजं सततं भजामः ॥१०॥ एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज भासि । सांख्यस्वरूपं प्रवदंति वेदास्तं विघ्नराजं सततं भजामः ॥११॥ दोषैर्विहीनं प्रवदंति सांख्यं तस्मान्न विघ्नेश्वर सांख्यसंस्थः । उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥१२॥ स्वानंदवासी गणनायकस्त्वमानंदरूपोऽसि वदंति वेदाः । द्वंद्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥१३॥ नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन । लक्ष्यः सदानंदघनप्रकाशस्तं विघ्नराजं सततं भजामः ॥१४॥ स्तोतुं न शक्ताः प्रभवंति वेदा हेरंबमाद्यं प्रणमामहे त्वाम् । तेनैव तुष्टो भव देवदेव तं विघ्नराजं सततं भजामः ॥१५॥ सर्वात्मकं त्वां प्रवदंति सर्वे योगींद्रमुख्याः प्रभुदासभूताः । तत्रैव ते ध्यानमपारमेवं तं विघ्नराजं सततं भजामः ॥१६॥ तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः । तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥१७॥ देहस्त्वसद्ब्रह्ममयश्च तेऽयं सद्रूपतुंडं गजवाचकं ते । योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥१८॥ कर्याननं त्वां प्रवदंति तेन संतः सदा योगमयं हृदिस्थम् । सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥१९॥ ब्रह्माऽहमेवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदंति । त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥२०॥ सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव । स्वार्थैर्विहीनाः प्रभवंति पूर्णास्तं विघ्नराजं सततं भजामः ॥२१॥ अंघ्रि पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवंति । विघ्नेशनामाऽसि ततस्त्वमेव तं विघ्नराजं सततं भजामः ॥२२॥ एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः । वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥२३॥ कश्यप उवाच । एवं स्तुत्वा गणाधीशं प्रणेमुरमरर्षयः । तुष्टस्तानब्रवीद्देवो विघ्नेशो ब्रह्मणां पतिः ॥२४॥ विघ्नेश उवाच । देवर्षयो वरान् ब्रूत महाभागा हृदीप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भक्त्या स्वाधीनतां गतः ॥२५॥ भवत्कृतमिदं स्तोत्रं भवेत्
[header] खं. ७ अ. ९ पान २० [/header]
सर्वार्थदायकम् । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥२६॥ विद्यामायुर्धनं धान्यं यशो धर्मं तथार्थकम् । कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥२७॥ पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् । विजयं जयकाले च स्तोत्र- पाठाल्लभेन्ररः ॥२८॥ मारणोच्चाटनाद्यं चानेन सिद्धं भविष्यति । परकृत्यप्रशमनं भवेच्च मरणादिकम् ॥२९॥ कारागृहादिजा पीडा नश्येदनेन निश्चितम् । सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥३०॥ एकविंशतिवारं चैकविंशति दिनानि च । पठेद्वा शृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥३१॥ मद्भक्तिवर्धनं चेदं भविष्यति निरंतरम् । अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥३२॥ एवं गणपतेर्वाक्यं श्रुत्वा तममर्षयः । प्रणम्य देवमूचुस्ते वचनं भक्तिसंयुताः ॥३३॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो विघ्नेशास्ते पदांबुजे । भक्तिं देहि विशेषेण वरं नान्यं वृणीमहे ॥३४॥ ममासुरस्त्वया नाथ शांतियुक्तः कृतो महान् । तेन स्वस्थानगाः सर्वे भविष्यंति दिवौकसः ॥३५॥ मुनयः कर्मकर्तारो जनाः स्वधर्मसंयुताः । भविष्यंति गणाध्यक्ष वृणीमहि किमप्यहो ॥३६॥ कृतं त्वया वराणां यत् कार्यं विघ्नविदारण । तथेति तानथोक्त्वाऽसौ देवेशोऽंतर्दधे प्रिये ॥३७॥ देवा मुनिगणैः सार्धं तं प्रणम्य विशेषतः । खेदयुक्ता गणाध्यक्षं स्थापयामासुरादरात् ॥३८॥ हिमाचलस्य मध्ये तत् स्थानं विघ्नपतेः परम् । संपूर्णमुत्तरदिशि सर्वसिद्धिप्रदायकम् ॥३९॥ भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने स्थापितः परः । विघ्नेशो मुनिभिः सार्धं देवैः सर्वसुखावहः ॥४०॥ मध्ये विघ्नपतिः साक्षाद्वामे सिद्धिः स्थिता स्वयम् । बुद्धिश्च दक्षिणांगे तु नागेशः पुरतः स्थितः ॥४१॥ क्षेत्राणि पृष्ठभागे च प्रयागादीनि मानदे । संस्थितानि प्रसेवार्थं विघ्नराजस्य नित्यदा ॥४२॥ वामे शुंभुमुखा देवा दक्षिणांगे मुनीश्वराः । पुरतो गणराजस्य सेवंते तं सुलोचने ॥४३॥ असुरा नागमुख्याश्च गंधर्वा- प्सरसस्तथा । नानासिद्धगणास्तत्र वसंत सेवनोत्सुकाः ॥४४॥ गंगाद्याः सरितस्तत्र भक्तियुक्ता वसंत च । अन्ये नाना जना देवि वसंत भक्तिकारकाः ॥४५॥ दशयोजनविस्तारं क्षेत्रस्य मुख्यभावतः । चतुरस्रं महाक्षेत्रं ज्ञातव्यं खसुखप्रदम् ॥४६॥ तत्र गणेशतीर्थं तु सर्वसिद्धिप्रदायकम् । जंतवे स्नानमात्रेण भुक्तिमुक्तिप्रदं भवेत् ॥४७॥ अन्येषां विष्णुमुख्यानां तत्र तीर्थानि योगिनाम् । स्थितानि स्नानमात्रेण स्वस्वसायुज्यदानि तु ॥४८॥ अन्यदेवादिकानां ये भक्ताः क्षेत्रे मृता यदि । ते सर्वे शुक्लगंत्या च ब्रह्मभूता भवंति वै ॥४९॥ यात्रां तत्र प्रकुर्वंति भक्ता भाद्रपदे प्रिये । शुक्लपक्षे चतुर्थ्यां वै महोत्सवपरायणाः ॥५०॥ क्षेत्रवासिजनाः सर्वे देवर्षिगणसंयुताः । परस्परं विशेषेण बोधयंति गजाननम् ॥५१॥
खं. ७ अ. १० पान २१ विघ्नराजचरित्राणि कथयंति परस्परम् । साश्रुनेत्रा भवंत्येते भक्त्या विघ्नेश्वरस्य च ॥५२॥ यस्मिन् कस्मिन् दिने देवि यात्रां कुर्वंति मानवाः । इह भुक्त्वाऽखिलान् भोगानंते मुक्तिमवाप्नुयुः ॥५३॥ ये तत्र विघ्नराजं तु नमंति मनसीप्सितम् । लब्ध्वा सुखयुताः सर्वे भवंते नात्र संशयः ॥५४॥ यत्र कुत्र स्थिता देवि भक्ता विघ्नेश्वरस्य च । ब्रह्मभूता न संदेहो दर्शनात् पावना नृणाम् ॥५५॥ मानुषं देहमाप्यैव न पश्येद्विघ्ननायकम् । पशुतुल्यः स विज्ञेयो जन्म तस्य निरर्थकम् ॥५६॥ एवं खंडेपु सर्वेषु द्वीपेषु क्षेत्रमुत्तमम् । विघ्नराजस्य विप्रेशैः कृतमुत्तरदिग्भवम् ॥५७॥ ब्रह्मभूयप्रदं क्षेत्रं वैघ्नेशं च चतुष्पदम् । तस्य किं वर्णनं कुर्यां यत्र वेदा विसिस्मिरे ॥५८॥ संक्षेपेण मया प्रोक्तं क्षेत्रमाहात्म्यमुत्तमम् । विस्तरेण न कोऽप्येतद्वर्णयितुं क्षमो भवेत् ॥५९॥ एवं विघ्नेश्वरो देवो नानाऽवतारकारकः । भक्तानां रक्षणार्थाय भक्तानां हरणाय च ॥६०॥ अवतारा असंख्याता विघ्नेशस्य महात्मनः । तेषां चरित्रकं वक्तुं न समर्थोऽहमंजसा ॥६१॥ इदं ममासुरस्यैव शमनं कथितं मया । चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥६२॥ शृणुयाद्यः पठेद्वाऽपि भयं तस्य ममात्मकम् । न भवेदीप्सितं सर्वं लभेद्व्रह्म सनातनम् ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरशांतियुक्तविघ्नेशचरितक्षेत्रवर्णनं नाम नवमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दितिरुवाच । श्रुत्वा ब्रह्मप्रदं पूर्णं सर्वसिद्धिप्रदायकम् । चरितं विघ्नराजस्य न तृप्ताऽहं मुनीश्वर ॥१॥ अहो विघ्नपतिः साक्षाद्ब्रह्मभूतो न संशयः । मया ज्ञातोऽधुना नाथ तव वाक्याद्विशेषतः ॥२॥ अवतारान् वद स्वामिन् विघ्नेशस्य महात्मनः । मुख्यानपारकेषु त्वं तारयस्व भवार्णवात् ॥३॥ मुद्गल उवाच । एवं पृष्टो महायोगी कश्यपो हर्षसंयुतः । समालिंग्य प्रियां दक्ष जगाद वचनं हितम् ॥४॥ धन्याऽसि दक्षपुत्रि त्वं येन विघ्नेश्वरे रतिः । जाता ते सार्थकं सर्वं करिष्यसि न संशयः ॥५॥ विघ्नेशोन महादेवि सृष्टं ब्रह्म ह्यसन्मयम् । सद्रूपं तत्र बिंबेेन मायाभ्यां संस्थितः प्रभुः ॥६॥ ततस्ताभ्यां मिलित्वा वै सृष्टं च द्विविधं परम् । स्वतः परत उत्थानं ततः सोऽहं च बिंदुकम् ॥७॥ ततश्चतुर्विधं देवि विश्वं
[header] खं. ७ अ. १० पान २२ [/header]
सृष्टं विशेषतः । स्थूलसूक्ष्मसमात्मारव्यमेकानेकादिसंयुतम् ॥८॥ एवं नानाविधं ब्रह्म विश्वं नानाविधं पुरा । आनंदेन विहीनत्वादुभौ व्यापारवर्जितम् ॥९॥ स्वकक्रियां प्रचक्रुर्वै न तत्र मोहयुक्त्तता । हीनता न तथा तानि खेदयुक्तानि संबभुः ॥१०॥ तैस्तपो घोररूपं तु कृतं विघ्नेश्वरस्य वै । ध्यात्वा ब्रह्ममयं रूपमेकाक्षरविधानतः ॥११॥ दिव्यवर्षसहस्रे तु गते तु विघ्ननायकः । हृदि तेषां प्रसन्नोऽभूत् प्रकटश्च बभूव ह ॥१२॥ नरकुंजरयुक्तं यद्दर्शयामास रूपकम् । दृष्ट्वा तं हर्षितानि ब्रह्माणि वै नेमुनंतरम् ॥१३॥ विघ्नेशकृपया तेषां तद्रूपज्ञानजोऽमलः । बोधो बभूव तेनैव तुष्टानि स्म भजंति तम् ॥१४॥ ततो विष्णुस्वरूपेण विघ्नेशो वरदोऽभवत् । आगत्य तान् उवाचाथ वरान् वृणुत सर्वपः ॥१५॥ ततो ब्रह्माणि तं दृष्ट्वा विस्मितानि बभूविरे । विघ्नेशकृपया तेषां ज्ञानं तस्य बभूव ह ॥१६॥ बिंबात्मकश्च सर्वत्र विघ्नेशोऽयं प्रतापवान् । स्वमहिम्नि स्थितः सोऽपि गजवक्त्रादिचिह्नितः ॥१७॥ ततो हर्षयुतान्येवं प्रणेमुर्भक्तिभावतः । नत्वा पूज्य महाविष्णुं तुष्टुवुस्तं सुलोचने ॥१८॥ ब्रह्माण्यूचुः । विघ्नेशाय नमस्तुभ्यं गरुडध्वजिने नमः । चतुर्भुजाय सर्वेषां पतये वै नमो नमः ॥१९॥ चक्रपाणे रमेशाय परात्परतराय च । हेरंबाय विकुंठस्य नाथाय ते नमो नमः ॥२०॥ स्वानंदवासिने तुभ्यं गजाननाय ढुंढये । अपाराय महेशानसुताय तु नमो नमः ॥२१॥ काश्यपाय च शेषस्य पुत्राय भक्तवत्सल । दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः ॥२२॥ गदाधराय देवाय वासुदेवाय देवप । धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः ॥२३॥ सदसन्मयरूपाय चानंदपदधारिणे । समायं सर्वभावेषु शाश्वताय नमो नमः ॥२४॥ नमो वागतिरूपाय देहदेहिप्रचारिणे । बोधाय च विदेहाय विष्णवे ते नमो नमः ॥२५॥ किं स्तुमस्त्वां परेशान यत्र वेदा विकुंठिताः । योगिनस्तु महाभाग प्रसन्नो भव ते नमः ॥२६॥ ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनम् । तान्युत्थाप्य जगाद स्वयं विष्णुर्हर्षसंयुक्तः ॥२७॥ विष्णुरुवाच । भवत्कृतं मदीयं च स्तोत्रं भुक्तिप्रदं भवेत् । मुक्तिदं शृण्वते ब्रह्मदायकं पठते सदा ॥२८॥ ब्रह्माणि यद्य- दिच्छेत तत्तद् वृणुत सत्वरम् । दास्यामि तपसा तुष्टः स्तोत्रेणानेन निश्चितम् ॥२९॥ ब्रह्माण्यूचुः । देह्यानंदमयं नाथ सौख्यं स्वाभाविकं परम् । सामर्थ्यं स्वस्वकार्येषु सत्यसंकल्पसंभवम् ॥३०॥ तव पादयुगे नाथ भक्तिं देहि विशेषतः । योग- शांतिभवं सौख्यं ब्रह्मभूयप्रदायकम् ॥३१॥ विष्णुरुवाच । भवद्भिः प्रार्थितं सर्वं तत्तत् सर्वं भविष्यति । सफलं सर्वभावेन कुरुध्वं कार्यमुत्तमम् ॥३२॥ योगशांतिं प्रवक्ष्यामि ब्रह्मभूयप्रदायिनीम् । ब्रह्माणि भक्तियुक्तानि शृणुध्वं योगसेवनात् ॥३३॥
पंचचित्तमयीं बुद्धिं तत्र भ्रांतिकरीं पराम् । सिद्धिं जानीत सर्वत्र तयोः स्वामी गजाननः ॥३४॥ संप्रज्ञातमयो देहो संप्रज्ञातात्मकं शिरः । गजरूपं तयोर्योगे देहधारी बभूव ह ॥३५॥ संयोगाख्यो गकारश्च णकारो योगगः स्मृतः । तयोर्योगे गणेशोऽयं नामाऽभून्नात्र संशयः ॥३६॥ स्वसंवेद्येन योगेन दर्शनं जायते परम् । गणेशस्य च तेनाऽयं स्मृतः स्वानंदवासकः ॥३७॥ असच्छक्तिश्च सद्भानुः समोऽहं नेति शंकरः । चतुर्णां ब्रह्मणां योगे स्वानंदः कथ्यते बुधैः ॥३८॥ स्वानंदो मायया युक्तः संयोगात् ब्रह्मणां मतः । अयोगो ब्रह्मणां मायया हीनो व्यतिरेकतः ॥३९॥ संयोगाऽयोगयोर्योगे गणेशः शांतिरूपधृक् । तं भजध्वं विशेषेण हृदि चित्तप्रचालकम् ॥४०॥ तेन च ब्रह्मभूतानि भविष्यथ न संशयः । ब्रह्माणि कथितं योगं प्रयुङ्ग्ध्वं भक्तिकारणात् ॥४१॥ यद्यच्च क्रियते तत्त्वैर्जगद्रचनकादिकम् । भवद्भिस्तद्गणेशाय समर्प्य सकलाः क्रियाः ॥४२॥ एवमुक्त्वा महाविष्णुस्तत्रैवांतरधीयत । ब्रह्माणि तं नमस्कृत्य साधयामासुरंजसा ॥४३॥ क्रमेण ब्रह्मभूतानि ब्रह्माणि च बभूविरे । तानि ब्रह्माणि योगेन गाणेशे दक्षकंनदिनि ॥४४॥ तत आनंदयुक्तानि चक्रुः सर्वं चराचरम् । तत्रा- नंदेन सर्वाणि क्रीडां चक्रुः परस्परम् ॥४५॥ एतत्ते कथितं सर्वं चरित्रं देवि शोभनम् । विष्णुरूपधरस्यास्य विघ्नराजस्य सर्वदम् ॥४६॥ शृणुयाद्यो नरो वाऽपि पठेत्तस्य प्रिये सदा । भुक्तिमुक्तिप्रदं पूर्णं सर्वानंदकरं भवेत् ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । एकदा सुखमासीनं नारायणमनामयम् । प्रणम्य तं महाभागो विष्वक्सेन उवाच ह ॥१॥ विष्वक्सेन उवाच । वद केशव योगं मे शांतिदं ते पदप्रदम् । संसाध्य विष्णुरूपोऽहं भविष्यामि सुभक्तितः ॥२॥ श्रीनारायण उवाच । नामरूपात्मकं सर्वमसत्यं वेदवादतः । जन्ममृत्युयुतं विद्धि ब्रह्म तत्र च तादृशम् ॥३॥ सर्वभेदविहीनं यत् परं ब्रह्मात्मवाचकम् । अमृतं सत्यमेकं तज्जानीहि योगसेवया ॥४॥ तयोर्योगे समं ब्रह्म सदानंदमयं परम् । विष्णुरूपं समाख्यातं जानीहि भक्तिभावतः ॥५॥ तदेव विघ्नराजाख्यं ब्रह्म वेदे प्रतिष्ठितम् । तं भजस्व विधानेन
खं. ७ अ. ११ पान २४
तदा शांतिमवाप्स्यसि ॥६॥ विष्वक्सेन उवाच । कथं विघ्नेश्वरः स्वामिन् विष्णुरूपः प्रकीर्तितः । वद मां सर्वशास्त्रज्ञ संशय- स्यापनुत्तये ॥७॥ श्रीविष्णुरुवाच । मायासुखं विजानीहि विघ्नयुक्तं विशेषतः । आत्मसौख्यं सदा प्रोक्तं विघ्नहीनं बुधैः पुरा ॥८॥ तयोर्योगे गणेशानो विघ्नराजः प्रकीर्तितः । सदानंदमयः सोऽपि योगिभिः सेवितोऽभवत् ॥९॥ गणः समूहरूपश्च समूहा ब्रह्मवाचकाः । बाह्यांतरादियोगेन ज्ञायंते योगिभिर्ध्रुवम् ॥१०॥ गणेशानस्य बिंबं यत् पतितं मायया युतम् । तदेव शिवविष्णुवादि वाचकं प्रबभूव ह ॥११॥ अतो गणेशरूपा वै वयं सर्वे कलांशतः । तं भजस्व विधानेन तदा शांतिमवाप्स्यसि ॥१२॥ कश्यप उवाच । विष्णोर्वचनमाकर्ण्य विष्वक्सेनः प्रणम्य तम् । जगाद भक्ति- संयुक्तो वचनं दक्ष पुत्रिके ॥१३॥ विष्वक्सेन उवाच । नाऽहं भजामि विघ्नेशं तव भक्तिपरायणः । त्वत्तः परतरं नास्ति वदसे किं जनार्दन ॥१४॥ एवमुक्त्वा स्वयं विष्णुं तं प्रणम्य ययौ प्रिये । वनं योगस्य सिद्ध्यर्थं तताप तप आदरात् ॥१५॥ आनंदं सर्वभावेषु विष्णुं धृत्वा स्वयं हृदि । जजाप मंत्रराजं स इदं विष्णुस्तु ऋग्भवम् ॥१६॥ निराहारपरो भूत्वा विष्वक्सेनः प्रतापवान् । तपश्चकार तद्भक्त्या वैष्णवानां शिरोमणिः ॥१७॥ ततो वर्षशते पूर्णे प्रसन्नो गणनायकः । ददौ योगं समाख्यं तु तस्मै भावधरः प्रभुः ॥१८॥ स्वयं संयोगरूपं तं दृष्ट्वा संहर्षितोऽभवत् । ततो हृदि गणेशानं ददर्श लक्ष्मीसंयुक्तम् ॥१९॥ दृष्ट्वा खेदसमायुक्तो विष्णुं चिंत्य महायशाः । मंत्रं जजाप तत्रैव गणेशमवलोकयन् ॥२०॥ क्षणं नारायणं लक्ष्म्या युक्तं ददर्श चेतसि । क्षणाद्विघ्नेश्वरं सोऽपि विस्मितः प्रबभूव ह ॥२१॥ तपसोऽतिप्रभावेण शुद्धचित्तो बभूव ह । त्यक्त्वाऽभिमानजं मोहं विचारमकरोत् हृदि ॥२२॥ मायामयं शरीरं तु मायाहीनं च मस्तकम् । गजाकारं तयोर्योगे देहधारी गणेश्वरः ॥२३॥ अस्य बिंबं सदा मोहयुतं देवि विनिश्चितम् । विष्णुः समस्वभावस्थो लक्ष्म्यायुक्तो विशेषतः ॥२४॥ स्वमहिम्नि स्थितो देवः सिद्धिवुद्धिसमन्वितः । मायाखेलकरः सोऽपि लक्ष्मीपतिरुदाहृतः ॥२५॥ विष्णुना बोधितोऽहं तु पूर्वकालेऽभिमानतः । अबुध्यं नैव तद्रूपं वृथा पंडितको यथा ॥२६॥ अहो योगसमं किंचिन्न दृष्टं नैव संश्रुतम् । यस्य सेवनमात्रेणाभिमानो नाशमेष्यति ॥२७॥ एवं विचार्य देवेशं गणेशं ध्यानसंयुतः । ध्यात्वा पुपूज भावेन मानस्या पूजया स तु ॥२८॥ ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः । वरान् दातुं समायातो विष्वक्सेनाश्रमे प्रिये ॥२९॥ ध्यानस्थो न बुबोधैव समागतं गजाननम् । विष्वक्सेनस्ततश्चित्रं चकार विघ्ननायकः ॥३०॥ हृदिस्थं गणनाथं
[शीर्षक: ख. ७ अ. ११ | पान २५]
स लोपयामास तत्क्षणात् । ततोऽतिविह्वलः सोऽपि तं ददर्श बहिः स्थितम् ॥३१॥ लक्ष्म्यायुक्तं गणाधीशं दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्याऽऽदौ विष्वक्सेनः पूपूज ह ॥३२॥ पूजयित्वा पुनर्देहं प्रणम्य साश्रुलोचनः । तुष्टाव भक्तिसंयुक्तः कृतांजलिर्गजाननम् ॥३३॥ विष्वक्सेन उवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । विघ्नदात्रे सुनाथाय ह्यभक्तेभ्यो नमो नमः ॥३४॥ लक्ष्मीपते नमस्तुभ्यं सिद्धिबुद्धिवराय च । स्वानंदवासिने देव विकुंठस्थाय ते नमः ॥३५॥ केशवाय परेशाय चक्रपाणे गदाधर । हेरंबाय नमस्तुभ्यं परशोधरकाय च ॥३६॥ दशरथसुतायैव वासुदेवाय ते नमः । शिवपुत्राय देवेश वरेण्यसूनवे नमः ॥३७॥ योगाकाराय नाथाय योगानां शांतिदायिने । कर्त्रे हर्त्रे सदा पात्रे गणेशाय नमो नमः ॥३८॥ शेषशायिन्नमस्तुभ्यं नाभिशेषाय ते नमः । सर्पयज्ञोपवीताय लंबोदराय शाश्वते ॥३९॥ नानाखेलकरायैव नानामायाप्रचालक । खेलहीनाय देवानां सहायाय नमो नमः ॥४०॥ असुराणां विनाशाय्यासुरभ्यो वरदायिने । ढुंढिराजाय भक्तेश भक्तिप्रियाय ते नमः ॥४१॥ गणेशाय गणानां तु चालकाय परात्पर । नारायणाय कृष्णाय मेघश्यामाय ते नमः ॥४२॥ मायायुक्ततया नाथ विष्णुरूपोऽसि सर्वदा । स्वमहिम्नि स्थितस्त्वं तु गणेशस्ते नमो नमः ॥४३॥ अतो गणेश ते नाम विष्णुर्वेदेषु कथ्यते । यो विष्णुः स हि विघ्नेशो नांतरं विद्यते कदा ॥४४॥ एवं स्तुत्वा गणेशानं प्रणनाम महामतिः । जगाद विष्वक्सेनं च तं देवो विघ्ननायकः ॥४५॥ श्रीविघ्नेश उवाच । वरान् वरय मत्तस्त्वं विष्वक्सेन महामते । तव दास्यामि भक्त्याऽहं तुष्टः स्तोत्रेण मानद ॥४६॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठते शृण्वते चैव सर्वसिद्धि- प्रदायकम् ॥४७॥ कश्यप उवाच । गणेशवचनं श्रुत्वा विष्वक्सेनस्तमब्रवीत् । कृत्वा करपुटं भक्त्या नम्रकंधर आदरात् ॥४८॥ विष्वक्सेन उवाच । यदि प्रसन्नतां यातस्तदा देहि गजानन । भक्तिं ते पादपद्मे मे शांतियोगं प्रयच्छ च ॥४९॥ जगाद गणराजस्तु श्रुत्वा तं हर्षयन्निव । मदीया भक्तिरुग्रा ते भविष्यति न संशयः ॥५०॥ विष्णुसंगतियोगेन शांतियोगमवाप्स्यसि । यद्यदिच्छसि तत्तत्ते सफलं चाऽस्तु सर्वदा ॥५१॥ एवमुक्त्वाऽतर्द्दधेऽसौ गणेशो भक्तियंत्रितः । विष्वक्सेनो जगामैव विकुंठं विष्णुमानमत् ॥५२॥ वृत्तांतं कथयामास श्रुत्वा संहर्षितोऽभवत् । केशवस्तूत्तमं तस्मै महायोगं जगाद च ॥५३॥ साधयित्वा यथान्यायं योगिवर्यो बभूव ह । विष्वक्सेनो गणेशानमभजद्भक्तिसंयुतः ॥५४॥ गुरुरूपं महाविष्णुं
देवरूपं गणेश्वरम्। धृत्वा हृदि महातेजा योगध्यानपरोऽभवत् ॥५५॥ इदं लक्ष्मीगणेशस्य कथितं ते चरित्रकम्। सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥५६॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते लक्ष्मीविनायकचरितवर्णनं नामैकादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ कश्यप उवाच। मधुकैटभनाशार्थं विष्णुना तपसा पुरा। आराधितो गणेशानस्तद्भक्त्या योगसेवया ॥१॥ ततः प्रसन्नतां यातो विघ्नेशः प्रददौ वरान्। तैर्युक्तः स जघानैव दैत्यौ परमदारुणौ ॥२॥ गणेशवरदानेन यशोयुक्तो जनार्दनः। तं जेतुं कः क्षमो देवि प्रभविष्यति ते सुतः ॥३॥ अतस्त्यक्त्वा स्वपुत्रेषु ममतां भज भावतः। विघ्नेशं योगिनां तेन वंद्या त्वं प्रभविष्यसि ॥४॥ यादृशं गणराजेन रचितं त्रिविधं पुरा। तादृशं वर्तते सर्वं सदेवासुरमानुषम् ॥५॥ कश्य- पस्य वचः श्रुत्वा हर्षयुक्ता दितिः पुनः। जगाद तं सुखार्थाय योगिवंद्यं प्रजापते ॥६॥ दितिरुवाच। विघ्नराजावतारस्य चरितं पुनरादरात्। वद मे मुनिमुख्य त्वं ज्ञानं तस्य तथा परम् ॥७॥ कश्यप उवाच। धर्मघ्नस्य च पुत्रोऽभूद्यज्ञध्रुङ्नाम- कोऽसुरः। स शैवीं साधयामासोपासनां पापनिश्चयः ॥८॥ पंचाक्षरविधानेन तोषयामास शंकरम्। दिव्यैर्वर्षसहस्रैस्तं वरदः शंकरो ययौ ॥९॥ स्तुतः संपूजितस्तेन प्रसन्नस्तमुवाच ह। वरान् वरय दास्यामि तपसा तोषितोऽसुर ॥१०॥ स वव्रे त्रिगुणेभ्यो मे मरणं न भवेत् कदा। राज्यमारोग्यसंयुक्तं ब्रह्मांडस्य च देहि भोः॥११॥ यद्यदिच्छामि देवेश तत्तन् मे सफलं भवेत्। तथेति तं जगादैव शंकरोऽंतर्हितोऽभवत् ॥१२॥ ततः स्वगृहमागत्य दैत्यराजो बभूव ह। यज्ञध्रुक् सैन्य- मादाय जिग्ये ब्रह्मांडमोजसा ॥१३॥ देवाः शंभुमुखाः सर्वे प्रपेलुश्च दिशो दश। तेषां पदेषु दैत्येन्द्रान् स्थापयामास यज्ञहा ॥१४॥ ततो यज्ञविनाशार्थं यतते स्म विशेषतः। यज्ञहा क्रोधसंयुक्तो मुनीन् सर्वानताडयत् ॥१५॥ त्यक्त्वा मुनि- गणा यज्ञान् प्रपेलुर्भयसंयुताः। वर्णसंकरभावं च चकार सचराचरम् ॥१६॥ ततो विष्णुविनाशार्थं यतते स्म महाखलः। देवानां मूलनाशार्थं दैत्यः परमदारुणैः ॥१७॥ यज्ञो विष्णुः समाख्यातो वेदेषु वेदवादिभिः। यज्ञनाशे स्वयं नष्टो भवि-
[Header] खं. ७ अ. १२ | पान २७
ष्यति जनार्दनः ॥१८॥ एवं विचार्य दैत्येशो यज्ञान् सर्वान् बभंज ह। यज्ञहीनं चकारैव त्रैलोक्यं सचराचरम् ॥१९॥ ततो विष्णुः क्षुधाविष्टो बभूवे देवसंयुतः। अस्थिचर्मावशेषश्च सस्मार गणनायकम् ॥२०॥ रक्ष मां गणनाथ त्वं दैत्यात् परमदारुणात् । मरिष्यामि न संदेहो यज्ञनाशप्रभावतः ॥२१॥ देवैः सार्धं महाविष्णुस्तताप तप उत्तमम्। एकाक्षरविधा- नेन तोषयामास विघ्नपम् ॥२२॥ गते वर्षशते पूर्णे तं ययौ गणनायकः। स्तुतः संपूजितः सर्वैः प्रसन्नो वरदोऽभवत् ॥२३॥ तैर्वृतो दैत्यनाशार्थं तथेति क्रोधसंयुतः । तान् जगाद ययौ हंतुं यज्ञघ्नं देवपैर्वृतः ॥२४॥ कृत्वा युद्धं महाघोरं जघानांकुश- घाततः। यज्ञघ्नं मुक्तिगं चक्रे दैत्यान् पातालगामिनः ॥२५॥ ततः स देवसंयुक्तो विष्णुर्मुनिगणैस्तथा । तुष्टाव सुस्थिरो भूत्वा पूज्य नत्वा कृतांजलिः ॥२६॥ श्रीविष्णुरुवाच । नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे । महाविघ्नप्रशांताय देवदेवेश ते नमः ॥२७॥ अनादये परेशाय सर्वाऽऽदौ संस्तुताय च। सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥२८॥ विनायकाय सर्वेषां नायकाय परात्पर। ढुंढिराजाय वेदादिढुंढिताय नमो नमः ॥२९॥ सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने । आनंदायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥३०॥ गणानां पतये तुभ्यं नानागणस्वरूपिणे। सदा स्वानंदनाथाय सिद्धिवृद्धि- पते नमः ॥३१॥ ब्रह्मणे विष्णवे तुभ्यं शक्तये शंकराय च। इंद्रादिदेवरूपाय कलया ते नमो नमः ॥३२॥ मुनये क्षेत्ररूपाय वैश्याय शूद्ररूपिणे । पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥३३॥ नागाय सुरूपाय राक्षसाय विहारिणे । चराचर- मयायैव शूर्पकर्णाय ते नमः ॥३४॥ त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे । पाशांकुशधरायैव हेरंबाय नमो नमः ॥३५॥ नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरंजनाय। अयोगाय संयोगमायाधराय जनेभ्यः सुशांतिप्रदायाथ धाम्ने ॥३६॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः। विसिस्मिरे सुशांतिस्थाः शांतिरूपाय ते नमः ॥३७॥ यज्ञहा निहतः स्वामिंस्तेन देवर्षयो वयम् । रक्षिताः सर्वभावेन प्राणदातंर्नमो नमः ॥३८॥ भक्तिं देहि गणाधीश तव पादांबुजे- ऽमलाम् । तया वयं च योगेश बंधहीना भवामहे ॥३९॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । तांस्तथेति जगादैवां- ऽतर्दधे शूर्पकर्णकः ॥४०॥ तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् । पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥४१॥ स्वस्वाचारसमायुक्तं बभूव ह चराचरम् । एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥४२॥ अवतारा असंख्याता विघ्न- राजस्य शोभने । तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥४३॥ संक्षेपेण मया तस्याऽवताराः कथिताः पराः।
खं. ७ अ. १३ | पान २८
भजस्व तं विधानेन तदा शांतिमवाप्स्यसि ॥४४॥ रजोयुक्तं यथा धान्यं रजोहीनं करोति च। नरैः संसाधितं शूर्पं योग्यं भोजनकादिषु ॥४५॥ तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते। त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुंदरि ॥४६॥ शूर्पकर्णं समाश्रुत्य मलं त्यक्त्वा हृदि स्थितम् । ब्रह्मैव नरजातिस्थः शूर्पकर्णस्ततः स्मृतः ॥४७॥ ब्रह्मदः शूर्पवत् हृत्स्थो वेदेषु कथितो भवेत्। तं भजस्व विधानेन शांतियुक्ता भविष्यसि ॥४८॥ शूर्पकर्णावतारस्य कथितं चरितं मया। यज्ञघ्नस्य वधार्थाय बभूवे देहधारकः ॥४९॥ य इदं शृणुयाद्वाऽपि पठेद्वा पाठयेन्नरः। स मानसेप्सितं लब्ध्वा सुखी भवेन्निरंतरम् ॥५०॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ कश्यप उवाच। एकदा माघमासे तु मकरस्थे दिवाकरे। तीर्थानि देवविप्राद्याः प्रयागं जग्मुरादरात् ॥१॥ सर्वे संहृष्टभावस्था माघस्नानपरायणाः। ओंकारगणनाथं ते पुपूजुर्भक्तिसंयुताः ॥२॥ ततः शूलभृतं पूज्य तत्रस्थं माधवं प्रिये। त्रिवेणीं भावसंयुक्ताः कथां चक्रुः पुरातनीम् ॥३॥ अम्रंस्तन्त्राऽऽजगामैव दत्तो योगींद्रसत्तमः। अवधूतस्य मार्गस्य प्रकाशक उदाहृतः ॥४॥ गाणेशं ब्रह्मपं ब्रह्म परं सर्वार्थदायकम्। ओंकारगणनाथं स प्रणम्य स्तोत्रमारभत् ॥५॥ तत् दृष्ट्वा परमाश्चर्यमाययुस्तं शिवादयः। योगिनः कश्यपाद्याश्चाऽन्ये देवादय आदरात् ॥६॥ तं प्रणम्य स्थिताः सर्वे योगींद्रं ब्रह्म तत्परम्। गणेशभजने सक्तं दृष्ट्वा पप्रच्छुरादरात् ॥७॥ शिवादय ऊचुः । भगवन् सर्वतत्त्वज्ञ ब्रह्मभूतपरायण । साक्षाद्ब्रह्मशरीरस्त्वं समागतो यदृच्छया ॥८॥ अवधूतस्य मार्गस्य प्रकाशार्थं विशेषतः। देहधारी भवान्नाथ पावनाय शरीरिणाम् ॥९॥ तव दर्शनमात्रेण कृतकृत्या वयं प्रभो। जाताः कुल्युताः स्वामिन् बोधयस्व मुनीन् सुरान् ॥१०॥ एवं विनयसंयुक्तैः स्तुतः पृष्टो महामुनिः। जगाद तान् महाभागान् हर्षेण महताऽऽवृतः ॥११॥ दत्तात्रेय उवाच। ब्रह्मविष्णुशिवा- द्याश्चांगिराद्या मुनयोऽमलाः। शेषाद्या नागराजाश्च शृणुध्वं मे वचो हितम् ॥१२॥ ब्रह्मेदं सर्वमाभाति तं भजध्वं हिताय वः। समर्था ब्रह्मभूताश्च भविष्यथ न संशयः ॥१३॥ तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः। हर्षेण योगिवंद्यं तं कृत्वा
खं. ७ अ. १३ पान २९ करपुटं प्रिये ॥१४॥ शिवाया ऊचुः । ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथम् । नामरूपधरं देवमोंकाराकृतिधारकम् ॥१५॥ अस्माकं कुलदेवोऽयं त्रिगुणात्मशरीरिणाम् । मूलभूतो न संदेहो योगिनां कथमंजसा ॥१६॥ तेषां तद्वचनं श्रुत्वा स्मयमानो महायशाः । दत्तो जगाद हर्षेण ज्ञानदानार्थमादरात् ॥१७॥ दत्त उवाच । गणेशो ब्रह्मणां नाथो वेदेषु परिकीर्तितः । ब्रह्म नानाविधं तद्वत् कथितं मायया युतम् ॥१८॥ अन्नं ब्रह्मेति देवेशा मुनयः शृणुत प्रियाः । तत्रान्नमयरूपा तु माया मोहकरी बभौ ॥१९॥ प्राणो ब्रह्मेति तत्रैव प्राणाकारविमोहिनी । माया मनोमयी तद्वन् मनो ब्रह्मणि संस्थिता ॥२०॥ विज्ञानं ब्रह्म तत्रेयं माया विज्ञानरूपिणी । आनंदं ब्रह्म यत् प्रोक्तं युतमानंदमायया ॥२१॥ चैतन्यं ब्रह्म यत् प्रोक्तं माया चेतनरूपिणी । बिंदुब्रह्मेति तत्रैव माया बिंदुमयी बभौ ॥२२॥ सोऽहं ब्रह्मेति यत्रेयं माया सोऽहं प्रकाशिनी । बोधो ब्रह्मेति बोधाख्या माया तत्र विमोहिनी ॥२३॥ विदेहं ब्रह्म यत् प्रोक्तं माया वै देहरूपिणी । तया तत्र महादेवा भ्रमंति ब्रह्ममानिनः ॥२४॥ कर्म ब्रह्मेति कर्माख्या माया तत्र विमोहिनी । ज्ञानं ब्रह्मेति तद्वत्तु ज्ञानमायायुतं बभौ ॥२५॥ समं ब्रह्मेति तत्रैव माया समस्वरूपिणी । सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् ॥२६॥ असद्ब्रह्मेति यत् प्रोक्तं तत्रासन्मायया युतम् । सद्ब्रह्मेति सदाकारमायायुक्तं प्रकीर्तितम् ॥२७॥ सदसन्मयभावाख्यं ब्रह्म प्रोक्तं मुनीश्वराः । उभयात्मविकारेण ज्ञातव्यं संयुतं सदा ॥२८॥ अव्यक्तं ब्रह्म यत् प्रोक्तं युतमव्यक्तमायया । स्वसंवेद्यं परं ब्रह्म युतं स्वानंदमायया ॥२९॥ आत्मा- द्वयैकसर्वाख्याद्याः शब्दाः परिकीर्तिताः । महावाक्यादिभिस्ते तु तत्तन्मायाप्रकाशकाः ॥३०॥ शिवविष्णुमुखाः शब्दा ब्रह्मवाच्याः प्रकीर्तिताः । तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः ॥३१॥ पृथिवी जलादितत्त्वानि ब्रह्मणां वाचकानि तु । तत्तद्विकारयुक्तानि जानीत देवसत्तमाः ॥३२॥ एवं नानाविधान्येव ब्रह्माणि कथितानि च । वेदादिषु समस्तानि माया- मोहयुतानि तु ॥३३॥ तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः । ब्रह्मणां पातृभावाच्च पालयितृत्वकारणात् ॥३४॥ स एवायं गणाध्यक्षो वेदेषु कथितोऽभवत् । ब्रह्मभूयमयः साक्षात्तं भजामि द्विजोत्तमाः ॥३५॥ उत्पत्तिनाशहीनं यद् गजाख्यं ब्रह्म चक्षते । सांख्यं शिरो गणेशस्य गजानन इति स्मृतः ॥३६॥ भूमिसोधनभावेन भवेत् ब्रह्मणि तन्मयः । देहस्तस्य च योगाख्यो नानाभूमिप्रधारणात् ॥३७॥ तयोर्योगे गणेशानो देहधारी बभूव ह । सांख्ये योगमयः साक्षात् पूर्णशांतिप्रदायकः ॥३८॥ संयोगेऽयं गकाराख्यो ह्ययोगे णमयः स्मृतः । तयोरीशो गणेशानो नामाऽयं वेदवादतः ॥३९॥
शीर्षक: खं. ७ अ. १३ पान ३०
पाठः पंचचित्तमयी बुद्धिर्दक्षिणांगं बभूव ह । पंचभ्रांतिकरी सिद्धिर्वामांगं तस्य सर्वदा ॥४०॥ तयोः स्वामी गणाध्यक्षो मायाभ्यामत्र खेलति । चित्ते चिंतामणिः साक्षात् प्रकाशकारकस्तयोः ॥४१॥ समोहं चित्तमुत्सृज्य योगींद्रो जायते नरः । तं भजामि विशेषेण चित्तचालनकारकम् ॥४२॥ कृतानि सिद्धिवृद्धिभ्यां ब्रह्माणि सकलानि वै । तानि त्यक्त्वा कथं ब्रह्म लभ्यते मानवैः परम् ॥४३॥ अतोऽयं देहभृद्भूत्वा भक्तमार्गप्रदायकः । सुलभत्वाय देवेशा परो जानीत संस्थितः ॥४४॥ तस्य तद्वचनं श्रुत्वा वसिष्ठस्तमुवाच ह । संशयस्य विनाशार्थं सर्वैः संप्रेरितो वचः ॥४५॥ वसिष्ठ उवाच । ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसंमतम् । ब्रह्मणस्पतिरेकोऽयं पतिस्तत्र कथं मुने ॥४६॥ पतिरूपा महामाया गणेशे संस्थिताऽभवत् । यथाऽन्नादिविकारस्थं ब्रह्म तद्वदयं मतः ॥४७॥ वसिष्ठस्य वचः श्रुत्वा दत्तो हर्षसमन्वितः । जगाद तं विशेषज्ञं योगींद्रः परमार्थवित् ॥४८॥ अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु । गणेशेन महायोगिंस्तेनायं पति- रुच्यते ॥४९॥ ब्रह्मभिः कथितश्चायं पतिस्तेषां न संशयः । स्वयं ब्रह्मैव तन्नाशे तथाऽपि पातृभावतः ॥५०॥ अन्नप्राणादि- कान्येव विकारान् संत्यजंति च । ब्रह्माणि ब्रह्मभूतानि भविष्यंत्यस्य सेवनात् ॥५१॥ ब्रह्माणि ब्रह्माणि यदि चेद्गतानि महामुने । पतिः केषां गणेशानः कथ्यते कैर्वदाशु मे ॥५२॥ अतो मायाविकारेण हीनोऽयं गणनायकः । ब्रह्मैवोपास्य- भावात्तु पतित्वं कथनात्मकम् ॥५३॥ इति तस्य वचः श्रुत्वा पुनस्तं नारदोऽब्रवीत् । योगींद्रं भावबोधार्थमवधूतम- कल्मषम् ॥५४॥ नारद उवाच । गणेशो त्वं महायोगिंस्तदाकारो न संशयः । अहं दत्तोऽयमेकश्च गणेशः कुत्र वर्तते ॥५५॥ न भिन्नश्चेन् महाभाग भजसे कं पुरः स्थितम् । इमं मे संशयं छिंधि सर्वज्ञोऽसि महामते ॥५६॥ दत्त उवाच । देहोऽयं नरतुल्यो मे करोति कर्म नित्यदा । शुभाशुभं विशेषेण नामरूपविकारतः ॥५७॥ ब्रह्म सर्वत्र विप्रेश तन्मयं नात्र संशयः । सत्ता न्यूनाधिका भाति विचारय विचक्षण ॥५८॥ ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता । नान्यत्र शंभुविष्णुवादि भावेषु पश्य मानद ॥५९॥ अतः प्रत्यक्षचित्तस्थं ब्रह्म विघ्नेशवाचकम् । दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् ॥६०॥ अतो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः । तं भजामि विशेषेण देहचेष्टापरायणः ॥६१॥ देहः क्रियात्मकः प्रोक्तश्चित्तं चिंतनकारकम् । स्वभावेन यथाऽन्यद्वै करोति चिंतनादिकम् ॥६२॥ तथा गणेश्वरं मेऽत्र देहश्चित्तं भजेत् ध्रुवम् । तयोः प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ॥६३॥ ब्रह्म ब्रह्मैव संजातं तदाकारं मदीय कम् । देहश्चित्तं भजेत्तं वै स्वप्रकाशकरं
[शीर्षक: खं ७ अ. १४ | पान ३१]
सदा ॥६४॥ अनेन योगमार्गेण भजामि गणनायकम् । न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय ॥६५॥ यथा करोमि नित्यं तु भक्षणादिकमादरात् । तथा गणेश्वरं तात भजामि भक्तिसंयुक्तः ॥६६॥ नाऽहं भोक्ता खदेहस्थस्तथा मां विद्धि देहगम् । न भक्तं गणराजस्य देहधर्मः प्रवर्तते ॥६७॥ ब्रह्मणि ब्रह्मभूतो यो न भजेद्गणनायकम् । तथाऽपि देहचित्तेऽन्यत् करिष्यतः स्वभावतः ॥६८॥ न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते । श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुतः ॥६९॥ अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः । दृष्ट्वा तं न भजेत् सोऽपि ब्रह्मघ्नः परिकीर्तितः ॥७०॥ गणेशं मूर्तिगं दृष्ट्वा योगेशं शांतिदायकम् । कस्य योगिजनस्यात्र प्रीतिः सद्यो न जायते ॥७१॥ इति तस्य वचः श्रुत्वा हर्षयुक्ताः शिवादयः । नारदाद्याः प्रणेमुस्तं विस्मितास्तस्य चेष्टितैः ॥७२॥ जगुस्तं हर्षसंयुक्ता वयं संशयवर्जिताः । कृतास्त्वया महाभाग एकमार्गपरायणाः ॥७३॥ नानामतविभेदेन भ्रांतियुक्ता भ्रमंति तु । त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने ॥७४॥ भ्रांतिनाशार्थमत्यंतं भवान् विघ्नेश्वरेण च । निर्मितो योगमार्गज्ञः सर्वशांतिप्रदायकः ॥७५॥ एवं तैः संस्तुतो दत्तः प्रहस्य प्रययौ ततः । शिवादयो वसिष्ठाद्याः स्वालयं प्रययुः प्रिये ॥७६॥ सर्वसारं समाख्यातां गीतां दत्तमुखाच्च्युताम् । पठना- च्छ्रवणात्नृभ्यः शांतिदां सर्वसिद्धिदाम् ॥७७॥ कश्यपस्य वचः श्रुत्वा हर्षिता तं प्रणम्य सा । जगाद भावगंभीरा दितिर्विघ्नेश्वरे रता ॥७८॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दितिरुवाच । गणेशस्य महाभाग वदोपासनकं प्रभो । तेन विघ्नेश्वरं भक्त्या भजिष्यामि निरं- तरम् ॥१॥ मुद्गल उवाच । एवं पृष्टो महायोगी दित्या तस्यै ददौ मनुम् । दशाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥२॥ सा तं प्रणम्य योगींद्रं कश्यपं प्रययौ ततः । वनं वृक्षादिसंयुक्तं तपस्तत्र तताप वै ॥३॥ निराहारेण संयुक्ता गणेश- ध्यानतत्परा । नासाग्रन्यस्तदृष्टिः सा मंत्रजापं चकार च ॥४॥ त्यक्त्वा सर्वां कामनां सा दितिर्विघ्नेश्वरे रता । तपः-