मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 791, कुल 1023 में से
संदर्भ में पढ़ेंखं. ७ अ. १० पान २१ विघ्नराजचरित्राणि कथयंति परस्परम् । साश्रुनेत्रा भवंत्येते भक्त्या विघ्नेश्वरस्य च ॥५२॥ यस्मिन् कस्मिन् दिने देवि यात्रां कुर्वंति मानवाः । इह भुक्त्वाऽखिलान् भोगानंते मुक्तिमवाप्नुयुः ॥५३॥ ये तत्र विघ्नराजं तु नमंति मनसीप्सितम् । लब्ध्वा सुखयुताः सर्वे भवंते नात्र संशयः ॥५४॥ यत्र कुत्र स्थिता देवि भक्ता विघ्नेश्वरस्य च । ब्रह्मभूता न संदेहो दर्शनात् पावना नृणाम् ॥५५॥ मानुषं देहमाप्यैव न पश्येद्विघ्ननायकम् । पशुतुल्यः स विज्ञेयो जन्म तस्य निरर्थकम् ॥५६॥ एवं खंडेपु सर्वेषु द्वीपेषु क्षेत्रमुत्तमम् । विघ्नराजस्य विप्रेशैः कृतमुत्तरदिग्भवम् ॥५७॥ ब्रह्मभूयप्रदं क्षेत्रं वैघ्नेशं च चतुष्पदम् । तस्य किं वर्णनं कुर्यां यत्र वेदा विसिस्मिरे ॥५८॥ संक्षेपेण मया प्रोक्तं क्षेत्रमाहात्म्यमुत्तमम् । विस्तरेण न कोऽप्येतद्वर्णयितुं क्षमो भवेत् ॥५९॥ एवं विघ्नेश्वरो देवो नानाऽवतारकारकः । भक्तानां रक्षणार्थाय भक्तानां हरणाय च ॥६०॥ अवतारा असंख्याता विघ्नेशस्य महात्मनः । तेषां चरित्रकं वक्तुं न समर्थोऽहमंजसा ॥६१॥ इदं ममासुरस्यैव शमनं कथितं मया । चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥६२॥ शृणुयाद्यः पठेद्वाऽपि भयं तस्य ममात्मकम् । न भवेदीप्सितं सर्वं लभेद्व्रह्म सनातनम् ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरशांतियुक्तविघ्नेशचरितक्षेत्रवर्णनं नाम नवमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दितिरुवाच । श्रुत्वा ब्रह्मप्रदं पूर्णं सर्वसिद्धिप्रदायकम् । चरितं विघ्नराजस्य न तृप्ताऽहं मुनीश्वर ॥१॥ अहो विघ्नपतिः साक्षाद्ब्रह्मभूतो न संशयः । मया ज्ञातोऽधुना नाथ तव वाक्याद्विशेषतः ॥२॥ अवतारान् वद स्वामिन् विघ्नेशस्य महात्मनः । मुख्यानपारकेषु त्वं तारयस्व भवार्णवात् ॥३॥ मुद्गल उवाच । एवं पृष्टो महायोगी कश्यपो हर्षसंयुतः । समालिंग्य प्रियां दक्ष जगाद वचनं हितम् ॥४॥ धन्याऽसि दक्षपुत्रि त्वं येन विघ्नेश्वरे रतिः । जाता ते सार्थकं सर्वं करिष्यसि न संशयः ॥५॥ विघ्नेशोन महादेवि सृष्टं ब्रह्म ह्यसन्मयम् । सद्रूपं तत्र बिंबेेन मायाभ्यां संस्थितः प्रभुः ॥६॥ ततस्ताभ्यां मिलित्वा वै सृष्टं च द्विविधं परम् । स्वतः परत उत्थानं ततः सोऽहं च बिंदुकम् ॥७॥ ततश्चतुर्विधं देवि विश्वं