भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 792, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 792

[header] खं. ७ अ. १० पान २२ [/header]

सृष्टं विशेषतः । स्थूलसूक्ष्मसमात्मारव्यमेकानेकादिसंयुतम् ॥८॥ एवं नानाविधं ब्रह्म विश्वं नानाविधं पुरा । आनंदेन विहीनत्वादुभौ व्यापारवर्जितम् ॥९॥ स्वकक्रियां प्रचक्रुर्वै न तत्र मोहयुक्त्तता । हीनता न तथा तानि खेदयुक्तानि संबभुः ॥१०॥ तैस्तपो घोररूपं तु कृतं विघ्नेश्वरस्य वै । ध्यात्वा ब्रह्ममयं रूपमेकाक्षरविधानतः ॥११॥ दिव्यवर्षसहस्रे तु गते तु विघ्ननायकः । हृदि तेषां प्रसन्नोऽभूत् प्रकटश्च बभूव ह ॥१२॥ नरकुंजरयुक्तं यद्दर्शयामास रूपकम् । दृष्ट्वा तं हर्षितानि ब्रह्माणि वै नेमुनंतरम् ॥१३॥ विघ्नेशकृपया तेषां तद्रूपज्ञानजोऽमलः । बोधो बभूव तेनैव तुष्टानि स्म भजंति तम् ॥१४॥ ततो विष्णुस्वरूपेण विघ्नेशो वरदोऽभवत् । आगत्य तान् उवाचाथ वरान् वृणुत सर्वपः ॥१५॥ ततो ब्रह्माणि तं दृष्ट्वा विस्मितानि बभूविरे । विघ्नेशकृपया तेषां ज्ञानं तस्य बभूव ह ॥१६॥ बिंबात्मकश्च सर्वत्र विघ्नेशोऽयं प्रतापवान् । स्वमहिम्नि स्थितः सोऽपि गजवक्त्रादिचिह्नितः ॥१७॥ ततो हर्षयुतान्येवं प्रणेमुर्भक्तिभावतः । नत्वा पूज्य महाविष्णुं तुष्टुवुस्तं सुलोचने ॥१८॥ ब्रह्माण्यूचुः । विघ्नेशाय नमस्तुभ्यं गरुडध्वजिने नमः । चतुर्भुजाय सर्वेषां पतये वै नमो नमः ॥१९॥ चक्रपाणे रमेशाय परात्परतराय च । हेरंबाय विकुंठस्य नाथाय ते नमो नमः ॥२०॥ स्वानंदवासिने तुभ्यं गजाननाय ढुंढये । अपाराय महेशानसुताय तु नमो नमः ॥२१॥ काश्यपाय च शेषस्य पुत्राय भक्तवत्सल । दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः ॥२२॥ गदाधराय देवाय वासुदेवाय देवप । धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः ॥२३॥ सदसन्मयरूपाय चानंदपदधारिणे । समायं सर्वभावेषु शाश्वताय नमो नमः ॥२४॥ नमो वागतिरूपाय देहदेहिप्रचारिणे । बोधाय च विदेहाय विष्णवे ते नमो नमः ॥२५॥ किं स्तुमस्त्वां परेशान यत्र वेदा विकुंठिताः । योगिनस्तु महाभाग प्रसन्नो भव ते नमः ॥२६॥ ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनम् । तान्युत्थाप्य जगाद स्वयं विष्णुर्हर्षसंयुक्तः ॥२७॥ विष्णुरुवाच । भवत्कृतं मदीयं च स्तोत्रं भुक्तिप्रदं भवेत् । मुक्तिदं शृण्वते ब्रह्मदायकं पठते सदा ॥२८॥ ब्रह्माणि यद्य- दिच्छेत तत्तद् वृणुत सत्वरम् । दास्यामि तपसा तुष्टः स्तोत्रेणानेन निश्चितम् ॥२९॥ ब्रह्माण्यूचुः । देह्यानंदमयं नाथ सौख्यं स्वाभाविकं परम् । सामर्थ्यं स्वस्वकार्येषु सत्यसंकल्पसंभवम् ॥३०॥ तव पादयुगे नाथ भक्तिं देहि विशेषतः । योग- शांतिभवं सौख्यं ब्रह्मभूयप्रदायकम् ॥३१॥ विष्णुरुवाच । भवद्भिः प्रार्थितं सर्वं तत्तत् सर्वं भविष्यति । सफलं सर्वभावेन कुरुध्वं कार्यमुत्तमम् ॥३२॥ योगशांतिं प्रवक्ष्यामि ब्रह्मभूयप्रदायिनीम् । ब्रह्माणि भक्तियुक्तानि शृणुध्वं योगसेवनात् ॥३३॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 792, कुल 1023 में से · BharatKosha