मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 793, कुल 1023 में से
संदर्भ में पढ़ेंपंचचित्तमयीं बुद्धिं तत्र भ्रांतिकरीं पराम् । सिद्धिं जानीत सर्वत्र तयोः स्वामी गजाननः ॥३४॥ संप्रज्ञातमयो देहो संप्रज्ञातात्मकं शिरः । गजरूपं तयोर्योगे देहधारी बभूव ह ॥३५॥ संयोगाख्यो गकारश्च णकारो योगगः स्मृतः । तयोर्योगे गणेशोऽयं नामाऽभून्नात्र संशयः ॥३६॥ स्वसंवेद्येन योगेन दर्शनं जायते परम् । गणेशस्य च तेनाऽयं स्मृतः स्वानंदवासकः ॥३७॥ असच्छक्तिश्च सद्भानुः समोऽहं नेति शंकरः । चतुर्णां ब्रह्मणां योगे स्वानंदः कथ्यते बुधैः ॥३८॥ स्वानंदो मायया युक्तः संयोगात् ब्रह्मणां मतः । अयोगो ब्रह्मणां मायया हीनो व्यतिरेकतः ॥३९॥ संयोगाऽयोगयोर्योगे गणेशः शांतिरूपधृक् । तं भजध्वं विशेषेण हृदि चित्तप्रचालकम् ॥४०॥ तेन च ब्रह्मभूतानि भविष्यथ न संशयः । ब्रह्माणि कथितं योगं प्रयुङ्ग्ध्वं भक्तिकारणात् ॥४१॥ यद्यच्च क्रियते तत्त्वैर्जगद्रचनकादिकम् । भवद्भिस्तद्गणेशाय समर्प्य सकलाः क्रियाः ॥४२॥ एवमुक्त्वा महाविष्णुस्तत्रैवांतरधीयत । ब्रह्माणि तं नमस्कृत्य साधयामासुरंजसा ॥४३॥ क्रमेण ब्रह्मभूतानि ब्रह्माणि च बभूविरे । तानि ब्रह्माणि योगेन गाणेशे दक्षकंनदिनि ॥४४॥ तत आनंदयुक्तानि चक्रुः सर्वं चराचरम् । तत्रा- नंदेन सर्वाणि क्रीडां चक्रुः परस्परम् ॥४५॥ एतत्ते कथितं सर्वं चरित्रं देवि शोभनम् । विष्णुरूपधरस्यास्य विघ्नराजस्य सर्वदम् ॥४६॥ शृणुयाद्यो नरो वाऽपि पठेत्तस्य प्रिये सदा । भुक्तिमुक्तिप्रदं पूर्णं सर्वानंदकरं भवेत् ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । एकदा सुखमासीनं नारायणमनामयम् । प्रणम्य तं महाभागो विष्वक्सेन उवाच ह ॥१॥ विष्वक्सेन उवाच । वद केशव योगं मे शांतिदं ते पदप्रदम् । संसाध्य विष्णुरूपोऽहं भविष्यामि सुभक्तितः ॥२॥ श्रीनारायण उवाच । नामरूपात्मकं सर्वमसत्यं वेदवादतः । जन्ममृत्युयुतं विद्धि ब्रह्म तत्र च तादृशम् ॥३॥ सर्वभेदविहीनं यत् परं ब्रह्मात्मवाचकम् । अमृतं सत्यमेकं तज्जानीहि योगसेवया ॥४॥ तयोर्योगे समं ब्रह्म सदानंदमयं परम् । विष्णुरूपं समाख्यातं जानीहि भक्तिभावतः ॥५॥ तदेव विघ्नराजाख्यं ब्रह्म वेदे प्रतिष्ठितम् । तं भजस्व विधानेन