मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 782, कुल 1023 में से
संदर्भ में पढ़ेंखं. ७ अ. ६ पान १२ मभूत्तत्र काले सर्वं भयाकुलम् ॥५१॥ एवं पापे प्रवृद्धे तु देवाश्चोपोषणान्विताः । कारागारे स्थिताः सर्वे बभूवुः शोकपीडिताः ॥५२॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरराज्यभोगवर्णनं नाम पंचमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ततः शंभुमुखा देवा विचारं दुःखसंयुताः । ममासुरस्य नाशार्थं चक्रुः सर्वे भयातुराः ॥१॥ तत्र विष्णुर्महाबुद्धिरुवाच वाक्यमुत्तमम् । देवान् सर्वान् समाश्वास्य विघ्नराजं हृदि स्मरन् ॥२॥ विष्णुरुवाच । कारागारे वयं क्षिप्तास्तत्र कर्मप्रखंडनात् । उपोषणसमायुक्ताः कृता ममासुरेण च ॥३॥ अतिपापं ममस्यैव राज्ये वृत्तं महेश्वराः । तेन पुण्यविहीनोऽयं मरिष्यति न संशयः ॥४॥ सर्वसत्ताधरः प्रोक्तो गणेशो वेदवादिभिः । विघ्नराजश्च तेनाऽसौ नामाऽभूद्धर्मपालकः ॥५॥ आपद्धर्मविधानेन तदुपासनकं परम् । करिष्यामो विशेषेण स एनं घातयिष्यति ॥६॥ तत्त्वप्रकाशकः सोऽपि न तत्त्वरूपधारकः । तत्त्वहीनो न देवेशा अत एनं वधिष्यति ॥७॥ अतिविषयसंयुक्तो दैत्येंद्रै- र्मोहितो भृशम् । ममासुरो गणेशानं त्यक्त्वा भोगपरोऽधुना ॥८॥ अन्यच्च शृणुत प्राज्ञाः क्षेत्रेषु विघ्नपस्य च । मूर्तयः खंडिताः सर्वाः स्वकीयाः स्थापिताः खलैः ॥९॥ आदौ गणपतेः प्रोक्तं पूजनं स्मरणादिकम् । तत्कर्मसु ममेनैव खंडितं भूमिमंडले ॥१०॥ अतो विघ्नेश्वरश्चैनं मारयिष्यति निश्चितम् । तं विशेषेण भजत देवा भावसमन्विताः ॥११॥ विष्णो- र्वचनमाकर्ण्य देवाः शंभुपुरोगमाः । साधु साधु त्वया प्रोक्तं जगुस्तं केशवं प्रिये ॥१२॥ ततो देवा गणेशानं चिंत्य संकटमुक्तये । मंत्रस्नानं प्रचक्रुस्ते न्यासादींश्च मनोमयान् ॥१३॥ ध्यात्वा गणपतिं सर्वे पुपूजुर्मानसैः पृथक् । उपचारै- रनेकैस्ते जेपुर्मंत्रं हृदा परम् ॥१४॥ एकाक्षरविधानेन युक्तास्तेपुस्तपो महत् । संगोप्य भयसंयुक्ता निराहारपरायणाः ॥१५॥ एवं वर्षशते पूर्णे तान् ययौ गणनायकः । भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने वरदायकः ॥१६॥ तं दृष्ट्वा हर्षसंयुक्ता देवा उत्थाय सत्वरम् । प्रणेमुः पूजयामासुर्मानसैरुपचारकैः ॥१७॥ पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसंपुटाः । साश्रुनेत्राः प्रिये देवा