मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 757, कुल 1023 में से
संदर्भ में पढ़ेंHere is the complete line-by-line Devanagari transcription of the page:
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचित् सुखमासीनं गणैः सर्वैः समावृतम् । शिवं दृष्ट्वा मयूरेशो मायामाविश्च- कार ह ॥१॥ समागत्य महेशानं तस्य भालस्थितं प्रभुः। चंद्रं गृह्य गणेशानः प्रययौ क्रीडनोत्सुकः ॥२॥ मायया मोहिताः सर्वे शिवमुख्या विशेषतः । न जानंति स्म देवेशं चंद्रतास्कर्यकारिणम् ॥३॥ ततः शिवः स्वभाले तं न ददर्श निशाकरम् । क्रोधयुक्तो गणान् प्राह कथं चंद्रो गतो गणाः ॥४॥ ततो मुनिसुताः प्रोचुः समागत्य महेश्वरम् । चंद्रं गृह्य मयूरेशः खेलत्यस्माभिरादरात् ॥५॥ ततः क्रोधसमाविष्ट उवाच ह शिवो गणान् । बद्ध्वा गणेश्वरं ताड्यानयध्वं मेऽद्य सन्निधौ ॥६॥ ततो गणा ययुस्तं ते तेन निःश्वासवायुना । निक्षिप्ताः शंकरस्याग्रे शुष्कपत्रसमप्रभाः ॥७॥ एवं क्रमेण सर्वान् स मयूरेशो गणेश्वरान् । भग्नदर्पांश्चकारैव शिवश्चिन्तातुरोऽभवत् ॥८॥ ततो मायां समाश्रित्य शिवभाले निशाकरम् । मयूरेशः समागत्याऽऽस्थाप्य भ्रांतांश्चकार ह ॥९॥ स्वभालस्थं महेशानो दृष्ट्वा चंद्रं गणास्तथा। मेनिरे तं सदा तत्र संस्थितं तं गतागतम् ॥१०॥ एवं शिवं पराधीनं कारयामास विघ्नपः। ततः कदाचिदैत्येंद्रं वनं हंतुं जगाम ह ॥११॥ व्याघ्ररूपधरं दृष्ट्वा शार्दूलोऽभूद्गजाननः । न तं जानंति विप्राणां सुताः शार्दूलरूपिणम् ॥१२॥ यत्र तत्र भ्रमंति स्म बालास्तद्दर्शनोत्सुकाः । ते सर्वे सुष्वपुः श्रांता निद्रां लेभुः श्रमान्विताः ॥१३॥ पादं दक्षिणदिक्संस्थं दृष्ट्वा तेषां च भानुजः। तान् गृह्य निगडैर्बद्ध्वा चिक्षेपे स्वपुरे यमः ॥१४॥ हत्वा दैत्यं मयूरेशः स्वपुरं पुनराययौ । न तत्र मुनिपुत्रान् स ददर्श विस्मतोऽभवत् ॥१५॥ गत्वा स्वर्गे यमं जित्वा ययौ तैर्मुनिबालकैः । एवं नानाविधां क्रीडां चकार मयूरध्वजः ॥१६॥ दशपंच वयोवर्षाण्यतिक्रम्य गणेश्वरः। शुशुभे खेलसंयुक्तो दैत्यान् हत्वा विशेषतः ॥१७॥ अथ तत्राऽऽययौ योगी नारदो गणपं स्मरन् । उवाच शंकरं सोऽपि हर्षयुक्तेन चेतसा ॥१८॥ नारद उवाच । तपसाऽऽराधितौ देव्यौ सिद्धिबुद्धी तु वेधसा । वरदानेन ते पुत्र्यौ बभूवतुः प्रजापते ॥१९॥ तदर्थं सदृशं ब्रह्मा नावाप वरमुत्तमम् । मयूरेशाय अधुना दातुमिच्छति स प्रभुः ॥२०॥ तथेति तमुवाचाथ शंकरस्तेन संयुतः । मयूरेशं समागृह्य निर्ययौ स गणः स्वयम् ॥२१॥