भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 756, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 756

दात्रे शांतमयाय च । शांतीनां शांतिरूपाय गणेशाय नमो नमः ॥५२॥ ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते । ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥५३॥ अनादये च सर्वेषामादिरूपाय विघ्नप । विघ्नानां विघ्नरूपाय सर्वसत्ता- त्मने नमः ॥५४॥ स्वानंदवासिने तुभ्यं संयोगायोगमूर्तये । सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥५५॥ महोद- राय भीमाय पापिनां दंडधारिणे । स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥५६॥ मयूरवाहनायैव मयूरेश्वर ते नमः । आखुवाहाय सर्वेश परात्पराय वै नमः ॥५७॥ किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् । शिवादयो न संस्तोतुं समर्था वेदमुख्यकाः ॥५८॥ रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् । यया माया न बाध्यते बुद्धीश ते नमो नमः ॥५९॥ एवं स्तुत्वा मयूरेशं मयूरेशो नतोऽभवत् । पूजाविधिं समाप्यैव भक्तियुक्तो बभूव ह ॥६०॥ एवं शिवादयः सर्वे पुपूजुर्गणनायकम् । मुनयश्चैव सर्वेशं मृन्मूर्तिस्थं विशेषतः ॥६१॥ एतस्मिन्नंतरे तत्र विश्वदेवो महायशाः । समाययौ च तीर्थानि भ्रममाणो यदृच्छया ॥६२॥ एकनिष्ठतया सोऽपि नारायणपरायणः । पुपूज नित्यमानंदाच्छेषशायिनमादरात् ॥६३॥ अव्याहतगतिः सोऽपि तपसा दग्धकिल्बिषः । गत्वा समुद्रमध्यस्थं तं पुपूज जनार्दनम् ॥६४॥ पश्चाज्जलादिकं विप्रो बुभुजे भक्तिसंयुतः । अत्यंतभक्तियोगेन गाणेशे योग्यतां गतः ॥६५॥ मायया च मयूरेशस्तं ज्ञात्वा शेषशायिनः । ज्ञानं संछादयामास विश्वदेवस्य संस्मृतिम् ॥६६॥ विश्वदेवस्य नित्यं तु बुद्धिमोहेन विघ्नपः । अकारयत्तद्योगेशो विस्मृतं योग- मायया ॥६७॥ आगत्य विश्वदेवस्तु पार्वतीं सर्वभाविनीम् । अयाचत स भिक्षां तां सा ददौ पायसादिकम् ॥६८॥ अपोशनं स कृत्वा च सस्मार शेषशायिनम् । महादुःखयुतस्तत्र संस्थितोऽभूद् द्विजोत्तमः ॥६९॥ ततस्तं गणराजस्तु खेदयुक्तं विशे- षतः । दृष्ट्वा नारायणो भूत्वा सांत्वयामास भावतः ॥७०॥ चतुर्वर्षात्मको मूर्तिं स पुपूज पराशरः । मृन्मयैरुपचारैस्तां दर्शयामास भक्तितः ॥७१॥ गाणेशाख्यं ददौ ज्ञानं विश्वदेवाय शांतिदम् । गाणपत्यस्वभावेन स ननाम गुणेश्वरम् ॥७२॥ विश्वदेवो ययौ स्थानं स्वकीयं शांतिसंयुतः । एकनिष्ठतया विप्रो मयूरेशं तमाभजत् ॥७३॥ एवं विस्मृतभावेन ज्ञान- संछादनेन च । विष्णोः पराक्रमं हृत्वा चिक्रीड द्विजबालकैः ॥७४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः ॥