भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 754, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 754

[शीर्षक] खं. ६ अ. ४० | पान ११३


॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । तत्रागत्य मयूरेशो दृष्ट्वा मूर्तिस्थितं प्रभुः । सिंधुं क्रोधसमायुक्तश्चूर्णयामास तत्क्षणात् ॥१॥ ततोतिभयसंयुक्ता मुनयः शंकरादयः । किं भविष्यति दैत्येभ्यः श्रुत्वा वार्तां बभूविरे ॥२॥ तत्रापि मायया युक्ता दैत्येंद्राश्च समाययुः । हंतुं शिवसुतं नित्यं तान् जघान मयूरपः ॥३॥ ततो विघ्नविनाशार्थमिंद्रयज्ञं समारभत् । शांकरस्तं मयूरेशो बभंज क्रोधसंयुतः ॥४॥ तत इंद्रः सुरेशानैर्मयूरेशमयोधयत् । तं जित्वा गणराजस्तु स्वपुरस्थो बभूव ह ॥५॥ शक्तय ऊचुः । कारागारे स्थिता देवाः सिंधोस्ते योद्धुमाययुः । कथं देवि वदाशु त्वं संशयस्यापनुत्तये ॥६॥ आदिशक्ति- रुवाच । मेरुसंस्था महेशाना दैत्यैः संप्रधृताः पुरा । निराधारेषु संस्थास्ते पुरेषु गणपं ययुः ॥७॥ तान् ग्रहीतुं न शक्ताश्च भवंते केऽपि शक्तयः । तेषां मार्गं प्रवक्ष्यामि संशयच्छेदनाय वः ॥८॥ देवाश्च त्रिविधाः प्रोक्तास्तत्त्वाकाराश्च शक्तयः । तथा कर्ममया शास्त्रे देहरूपा न संशयः ॥९॥ दीव्यंति सर्वभावेषु तेन देवाः प्रकीर्तिताः । देवत्वं त्रिविधं तेषु ज्ञातव्यं वेदवादिभिः ॥१०॥ शताश्वमेधयज्ञानां कर्तैंद्रो भवति प्रियाः । तिष्ठंति कर्मजा देवास्तादृशाः कांचनाचले ॥११॥ मंदारादिषु सर्वत्र नगराणि दिवौकसाम् । तान् जयंति समर्थाश्चासुरादयो न संशयः ॥१२॥ ब्रह्मणो दिवसांते ते मन्वंतर- परायणाः । लयं गच्छंति यज्ञानां फलं भुक्त्वा न संशयः ॥१३॥ पुनर्जन्मधराः सर्वे भवंति नरजातिषु । कुर्वते यादृशं कर्म लभंते तादृशं फलम् ॥१४॥ अन्ये कर्ममया देवा व्याप्य ते संस्थिताः पराः । कुर्वते स्वाधिकारंश्च सदा कर्मपरा- यणाः ॥१५॥ जठराग्निस्तथा बाह्याग्निरित्यादि दिवौकसाम् । अधिकाराः समाख्याता यमस्य यातनादयः ॥१६॥ दैत्या धर्षयितुं शक्तास्तान् भवंति न कर्मणा । सदाऽधिकारसंयुक्तांस्तान् देवान् प्रवदंति च ॥१७॥ योगबलेन योगीशास्तान् देवांश्चालयंति च । नान्यबलेन देवेशाश्चलंति स्वाधिकारिणः ॥१८॥ ब्रह्मणो दिवसांते ते न मृत्युं देवसत्तमाः । लभंते वै निराधाराः कर्मरूपप्रधा- रकाः ॥१९॥ महालये लयं देवा गच्छंत्यत्र न संशयः । सलोकपरिवारास्ते पुनर्देहधरा मताः ॥२०॥ मृत्युलोके नराः सर्वे भवंते कर्मयंत्रिताः । यादृशं कुर्वते कर्म लभंते तादृशं फलम् ॥२१॥ तत्त्वरूपा महादेव्यो देवा वेदे प्रकीर्तिताः । ते तत्त्वैर्विश्वमानंदाद्भावयंति चराचरम् ॥२२॥ उत्पत्तिस्थितिसंहारकर्तारः सर्वरूपकाः । ब्रह्माकारस्वभावेन तिष्ठंति जगदी- श्वराः ॥२३॥ महाप्रलयवेलायां स्वविहारं समाप्य ते । योगनिद्रां प्रकुर्वंति योगाकारा विशेषतः ॥२४॥ पुनः क्रीडंति सृष्ट्वा च ब्रह्मांडं देवनायकाः । न तान् योगबलेनैव समो धर्षयितुं भवेत् ॥२५॥ योगोऽयं द्विविधः प्रोक्तः शास्त्रेषु विबुधोत्तमैः ।