मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 753, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. ३९ | पान ११२
ब्रूत महर्षयः। तत्राहं ससुतो नित्यं स्थास्यामि ध्यानसंयुतः॥३९॥ गौतमाद्या ऊचुः। क्षेत्रं दक्षिणभागे तु वैघ्रेशं सर्वसिद्धिदम्। भूस्वानंदं वदंते तद्ब्रह्मसायुज्यदायकम् ॥४०॥ मूर्तिर्गणपतेस्तत्र सिंधुदूतैः प्रखंडिता । सिंधोश्च प्रतिमा दुष्टैः स्थापिता हर्षसंयुतैः ॥४१॥ जनैस्त्यक्तं महादेव दैत्यसंत्रासतापितैः । तत्र गच्छ सपुत्रस्त्वं विघ्नहीनो भविष्यसि ॥४२॥ तथेति शंकरः सर्वैर्गणैर्विघ्नेशसंयुतः । निर्ययौ तं महादेव्यो ब्राह्मणाः प्रययुः किल ॥४३॥ एतस्मिन्नंतरे तत्र सिंधुना प्रेषितो महान् । कमलासुरनामा यो दैत्यपैरागतोऽभवत् ॥४४॥ ब्रह्मविष्णुशिवादीनामजेयं दैत्यसंयुक्तम् । महामायं च तं दृष्ट्वा प्रपेलुर्मुनयस्ततः ॥४५॥ अहो शिवं परित्यज्य न स्थातुं शक्यते कदा । मुनयो दैत्यनाथैश्च हताः कुत्र व्रजामहे ॥४६॥ एवं विचार्य ते सर्वे पुनः शंकरमाययुः । जगुस्तं भयभीताश्च रक्ष नो दैत्यनायकात् ॥४७॥ मयूरेशेन संयुक्तो तिष्ठ नित्यं महेश्वर । नोचेदत्रानुगाः सर्वे वयं ते प्रभवामहे ॥४८॥ तेषां वचनमाकर्ण्य भयभीतः सदाशिवः । जगाद तान् वचो रम्यं द्विजपालनकारकः ॥४९॥ श्रीशिव उवाच । कमलासुरनामाऽयं दैत्यनाथैर्महाबलैः । समायातश्च तं जेतुं न क्षमोऽहं कदाचन ॥५०॥ अधुना मां समागृह्य कारागारे महाबलः । क्षेपयिष्यति नूनं मां यत्र विष्ण्वादयः सुराः ॥५१॥ शिवस्य वचनं श्रुत्वा मयूरेशस्तमब्रवीत् । मा भयं कुरु तात त्वं हनिष्यामि महासुरम् ॥५२॥ त्वं साक्षाद्गणनाथस्य कलांशो भक्त- नायकः । ब्राह्मणा गाणपत्याश्च तेषां विघ्नः कथं भवेत् ॥५३॥ मरीचिना गणेशस्य कवचं मे महेश्वर । रक्षणार्थं प्रदत्तं तु न भयं मे भविष्यति ॥५४॥ एवमुक्त्वा महादैत्यं ययौ विघ्नविदारणः । मयूरोपरि संस्थाय पर्शोः शूलस्य धारकः ॥५५॥ कृत्वा युद्धं महाघोरं त्रिशूलेन महासुरम् । चिच्छेद त्रिविधं कृत्वा पातयामास चासुरम् ॥५६॥ मस्तकं मयूरक्षेत्रे तदाकारं बभूव ह । उदरं राजसदने प्रवाले जघनं तथा ॥५७॥ त्रिषु स्थानेषु दैत्येंद्रः पपात त्रिविधोऽभवन् । गणेश्वरश्चैव तेषु संस्थितोऽभूत् प्रतापवान् ॥५८॥ शिवेन मुनिभिः सार्धं मयूरेश्वर आययौ । क्षेत्रे मयूरसंज्ञे तु तत्रसंस्था बभूविरे ॥५९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥